SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 87 प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः, सतां माने म्लाने मरणमथवा दूरगमनम् ॥ १ ॥ व्याख्या-सतां-महतां पुंसां माने म्लाने-सत्यपमाने मरणं दूरगमनं-देशत्यागो वा श्रेयस्कर भवति । एतदेव स्पष्टीकरोति-प्रियायाः-कान्तायाश्चक्षुषा लोचनेन विजितैः-पराजितैः सारङ्गैर्मृगै ररण्यं-वनं सेवितम्। तथा प्रियाया मध्यभागेन विजितैर्हरिभिः सिंहगिरिकुहरगर्भाः-पर्वतीयगुहान्तः सेवितम् । प्रियायाः स्तनमण्डलेन विजितैर्दिग्गजैर्दिशः श्रिताः। वदनसौन्दर्येण विजितैः पङ्कजैकमलैः सलिलमुषितम् , अर्थाजले निमजितम् । अन्यच्च श्रावृणोति यदि सा मृगीदृशी, स्वाञ्चलेन कुचकाञ्चनाचलम् । भूय एव बहिरेति गौरवादुन्नतो न सहते तिरस्क्रियाम् ॥ १॥ व्याख्या-उन्नतो महाजनः कस्यापि तिरस्क्रियामपमानं न सहते । एतदेव दृष्टान्तमुखेन दर्शयति । यथा-मृगीदृशी-मृगाक्षी काचिद् युवतिः स्वाञ्चलेन-वस्त्रायेण कुचकाञ्चनाचलं-स्तनमण्डलात्मकं कनकगिरिं वारम्वारमावृणोति-आच्छादयति । परन्तु गौरवाद्धेतोः भूयः-पुनः पुनः बहिरेव एति-आयाति । अर्थात्-कामिन्या मुहुरावृतमपि कुचयुगलं पुनः पुनरनावृतं भवति । तत्र Sain Educa For Personal & Private Use Only Binelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy