SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 85 इत्यादिसुधारसप्रवर्षिणी धर्मदेशनां श्रुत्वा सर्वे जनाः प्रमुदिताः । देशनान्ते च राजा रत्नसारविषये गुरूनपृच्छत्-भगवन् ! एष रत्नसारो भवान्तरे कानि कानि सुकृतानि चक्रे, येनेदृशीं कीर्ति समृद्धिमप्यनुत्तरां सुखं चानुपममिह जन्मनि भुक्ते, तदा गुरव ऊचिरे-राजन् ! श्रूयतां कुमारस्य जन्मान्तरीयं चरितम् । इहैव भरतक्षेत्रे राजपुर नामकं नगरमस्ति । तत्र जितशत्रुनामा क्षितिपतिरभूत् । तस्य श्रीसाराभिधानः कुमार आसीत् । तस्य च क्षत्रियपुत्रप्रधानपुत्रश्रेष्टिपुत्रा मित्राण्यभूवन् । तेषु चतुर्षु मित्रेषु महान् स्नेह आसीत् , कोऽपि कस्यापि वियोगं क्षणमपि नाऽसहत । ___अथैकस्यां रजन्यां राड्याः सौधे खात्रं दत्त्वा कश्चन महांस्तस्करो राझ्याः सारतराणि भूयांसि धनाभरणानि चोरयामास। तदनु तानि चोरितानि धनाभरणानि लात्वा बहिर्गच्छन् कोहपालेन दृष्टस्ततस्तं गृहीत्वा दृढं बध्वा च नृपान्तिकमनयत । तमालोक्य राजा तस्य कोटपालस्यैवमादिष्टवान्। भोः कोहपाल ! एष शूलिकायामारोप्य हन्तव्यः। तदैव तेन स चौरः शिरो मुण्डयित्वा गर्धभोपरि निवेश्य नगरचतुष्पथादौ परिभ्राम्य शूलिकास्थाने नीयमानो मार्गे श्रीसारेण दैवाद् दृष्टः । तदा कुमारः कोहपालं तत्स्वरूपमपाक्षीत् । तदा स यथाजातं चौरवृत्तं व्यजिज्ञपत् । तत्रावसरे दयासागरः For Personal Private Use Only Finelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy