________________
85
इत्यादिसुधारसप्रवर्षिणी धर्मदेशनां श्रुत्वा सर्वे जनाः प्रमुदिताः । देशनान्ते च राजा रत्नसारविषये गुरूनपृच्छत्-भगवन् ! एष रत्नसारो भवान्तरे कानि कानि सुकृतानि चक्रे, येनेदृशीं कीर्ति समृद्धिमप्यनुत्तरां सुखं चानुपममिह जन्मनि भुक्ते, तदा गुरव ऊचिरे-राजन् ! श्रूयतां कुमारस्य जन्मान्तरीयं चरितम् । इहैव भरतक्षेत्रे राजपुर नामकं नगरमस्ति । तत्र जितशत्रुनामा क्षितिपतिरभूत् । तस्य श्रीसाराभिधानः कुमार आसीत् । तस्य च क्षत्रियपुत्रप्रधानपुत्रश्रेष्टिपुत्रा मित्राण्यभूवन् । तेषु चतुर्षु मित्रेषु महान् स्नेह आसीत् , कोऽपि कस्यापि वियोगं क्षणमपि नाऽसहत । ___अथैकस्यां रजन्यां राड्याः सौधे खात्रं दत्त्वा कश्चन महांस्तस्करो राझ्याः सारतराणि भूयांसि धनाभरणानि चोरयामास। तदनु तानि चोरितानि धनाभरणानि लात्वा बहिर्गच्छन् कोहपालेन दृष्टस्ततस्तं गृहीत्वा दृढं बध्वा च नृपान्तिकमनयत । तमालोक्य राजा तस्य कोटपालस्यैवमादिष्टवान्। भोः कोहपाल ! एष शूलिकायामारोप्य हन्तव्यः। तदैव तेन स चौरः शिरो मुण्डयित्वा गर्धभोपरि निवेश्य नगरचतुष्पथादौ परिभ्राम्य शूलिकास्थाने नीयमानो मार्गे श्रीसारेण दैवाद् दृष्टः । तदा कुमारः कोहपालं तत्स्वरूपमपाक्षीत् । तदा स यथाजातं चौरवृत्तं व्यजिज्ञपत् । तत्रावसरे दयासागरः
For Personal
Private Use Only
Finelibrary.org