________________
ताभ्यामपि तथाविधं कर्म उपार्जितम् । किन्तु क्षत्रियपुत्रेण सुकृतहीनेनैवं प्रोक्तम्-अरे ! मामधिकं बाधते तुधा अतो मदर्थं किञ्चिदवशेषणीयमिति । अनेन तु दानान्तरायकर्मबन्धनाद् भोगान्तरायकर्मैव बद्धम् । तदनु तदुःखितः जितशत्रू राजा तं पश्चादाकार्य श्रीसारकुमाराय राज्य- | मदात् । प्रधानपुत्रं प्रधानपदे न्ययुक्त । एवं श्रेष्टिनः पुत्रं नगरप्रेष्टिपदे क्षत्रियपुत्रं सेनाधिपतिपदे | न्ययुक्त । ततस्ते चत्वारोऽपि स्वस्वपदे तिष्ठन्तश्चिरं सुखमनुभूय मृत्वा स श्रीसारजीवः साम्प्रतं | रत्नसारोऽभूत् । तौ प्रधानपुत्रश्रेष्ठिपुत्रौ मृत्वा रत्नसारस्य परन्यौ बभूवतुः। क्षत्रियपुत्रस्तु दाना न्तरायकर्मयोगत इह जन्मनि कीरोऽभूत् । यश्चौरो जन्मान्तरे श्रीसारेण मोचितः स तापसव्रतं चिरं परिपाल्य प्रान्ते मृत्वा चन्द्रचूडनामा देवोऽभूत् । अतस्तेनात्र जन्मनि रत्नसारस्य साहाय्यं चके। ___इत्थं रत्नसारकुमारस्य जन्मान्तरीयं चरित्रमाकर्ण्य सर्वे नृपादयो लोका महताऽऽदरेण d सत्पात्रदानं कर्तुं लग्नाः । जिनोदिते शाश्वते धर्मे च महतीं श्रद्धामदधत । रत्नसारोऽपि पुराकृतसुकृतनिचययोगात् पत्नीभ्यां सहितो नानाविधमनुपमं सुखं भुञ्जानो बहूनि धर्मकृत्यानि कृतवान् । तीर्थयात्रारथयात्रादिसद्धर्मकृयानि वहुधाऽकरोत् । सौवर्णानि राजतानि जिनेश्वरबिम्बान्यनेकानि
Sain Educ
tional
For Personal Private Use Only
Jainelibrary.org