SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ताभ्यामपि तथाविधं कर्म उपार्जितम् । किन्तु क्षत्रियपुत्रेण सुकृतहीनेनैवं प्रोक्तम्-अरे ! मामधिकं बाधते तुधा अतो मदर्थं किञ्चिदवशेषणीयमिति । अनेन तु दानान्तरायकर्मबन्धनाद् भोगान्तरायकर्मैव बद्धम् । तदनु तदुःखितः जितशत्रू राजा तं पश्चादाकार्य श्रीसारकुमाराय राज्य- | मदात् । प्रधानपुत्रं प्रधानपदे न्ययुक्त । एवं श्रेष्टिनः पुत्रं नगरप्रेष्टिपदे क्षत्रियपुत्रं सेनाधिपतिपदे | न्ययुक्त । ततस्ते चत्वारोऽपि स्वस्वपदे तिष्ठन्तश्चिरं सुखमनुभूय मृत्वा स श्रीसारजीवः साम्प्रतं | रत्नसारोऽभूत् । तौ प्रधानपुत्रश्रेष्ठिपुत्रौ मृत्वा रत्नसारस्य परन्यौ बभूवतुः। क्षत्रियपुत्रस्तु दाना न्तरायकर्मयोगत इह जन्मनि कीरोऽभूत् । यश्चौरो जन्मान्तरे श्रीसारेण मोचितः स तापसव्रतं चिरं परिपाल्य प्रान्ते मृत्वा चन्द्रचूडनामा देवोऽभूत् । अतस्तेनात्र जन्मनि रत्नसारस्य साहाय्यं चके। ___इत्थं रत्नसारकुमारस्य जन्मान्तरीयं चरित्रमाकर्ण्य सर्वे नृपादयो लोका महताऽऽदरेण d सत्पात्रदानं कर्तुं लग्नाः । जिनोदिते शाश्वते धर्मे च महतीं श्रद्धामदधत । रत्नसारोऽपि पुराकृतसुकृतनिचययोगात् पत्नीभ्यां सहितो नानाविधमनुपमं सुखं भुञ्जानो बहूनि धर्मकृत्यानि कृतवान् । तीर्थयात्रारथयात्रादिसद्धर्मकृयानि वहुधाऽकरोत् । सौवर्णानि राजतानि जिनेश्वरबिम्बान्यनेकानि Sain Educ tional For Personal Private Use Only Jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy