________________
ܝ
142
कृत्वा विष्टरादिकं च समर्प्य व्याहार्षिष्टाम् - राजन् ! अस्मिन्नवसरे भवदागमने को हेतुः ?, इत्थं स्त्रीवचः समाकर्ण्य मूढमतिः स नृपतिर्विहसन् भृशमुल्लासमुद्रहन् ते चाह - अयि कामिन्यौ ! किमेतन्न जानीथो युवां वां समाह्वानायैव मे समागमः । अतो द्रुतमेव व्रजतम् इत्थं राजकीयं वचः समाकर्ण्य द्वे प्रप्यावभाषाते - राजन् ! न शोभतेऽदो वचो वक्तुं त्वं हि सेवकानां ताततुल्यः । अनर्थकृते पुरुषाय दण्डं दातुमर्हो भवान् । यदि च त्वमेवानर्थं कुर्यास्तर्हि त्वां को नाम निवारयेत् । देवस्त्रीवत् सुरूपवतीमपि परस्त्रियं दूरतः परिहरेत् । तत्रापि भृत्यस्त्रियं पुत्रमेव पुत्रवधूमिव विशेषतया परिहरेत् । यो वै राजा सचाऽन्यायकुर्वतीं प्रजां दृष्ट्वा तस्यामुचितदण्डं दत्वा ततो निवर्त्तयेत् तां यदि राजैव स्वयमन्यायं कुर्यात् तन्निवारयितुं को वाऽलं भवेत्, यो वै रात्रौ चौर्यनिवारकः स एव यदि चौरकर्म कुर्यात्, सत्यपि जले बहून्युत्थापनके, सत्यपि भानौ तमोव्याप्तौ कमुपायं कुर्वीत । अतः किमिदं जातं त्वयि यथावामीहसेऽस्मात्प्रयासात् नौ प्रारणा विनश्येयुश्चेत्तावतापि स्वीयशीलं न विनाशयावः । यतः -
"
वरं शृङ्गोत्तुङ्गे गुरुशिखरिणः कापि विषमे, पतित्वायं कायः कठिनहृषदन्तर्विदलितः ।
For Personal & Private Use Only
an International
चरित्रम् ।
॥ ४६ ॥
www.jainelibrary.org.