________________
24.
सस्मार । तत्सांनिध्यात्तच्छरीरे किंचिन्मात्रमपि व्यथा न व्यापत् , किं च यथा स्वर्णतापनात्तस्मिन् प्रदीप्तेराधिक्यं जायते तथा हरिबलोऽपि कान्त्या प्रदिदीपे । अञ्जनसिद्धिरिव तत्क्षण एव चितातो | निस्सृत्यादृश्यो भवन् रहसि व्यतिष्ठत । रात्रौ च निजगृहे प्रातिष्ठत । हरिबलं च दृष्दैव तदीये स्त्रियौ हर्षवत्यौ बभूवतुः । विस्मयमावहन्त्यौ च धन्यम्मन्यमाने सुधातुम्बीतोऽमृतं निस्सार्य तस्मिन् प्रचिक्षेप । तत्प्रभावतस्तदेहः शक्रकान्तिरभवत् । “ पुण्योदयात् किं किं न सम्भवति दुर्जनो जनः पुण्यवन्तं सुजनं कष्टवाझै पातयेच्चेत्तदर्थं सौख्यवास्सिंपद्येत । यथाऽगरौषधिं वह्नौ पातयति कश्चित्तदा ततः सुगन्धिरेव निस्सरति तथैव पुण्यवते पुंसे खलताकृता विपत्तिरपि संपत्तिरूपैव भवति ।" ____ अथ हरिबलो निजस्त्रीभ्यां सत्रा प्रेमवार्ता चकार । तदवसरे स दुर्मतीराजाऽनङ्गज्वरपीडितोऽतिमदोन्मत्तो हरिबलगृहमाजगाम । समापतन्तं राजानं विज्ञाय हरिबलमवोचतां ते
वामिन् ! भवान् गृहे रहसि स्थित्वा नौ चातुर्य साहसं च विलोकयतु किं करोति स दुष्टो | | नृपः । श्रुत्वैवं सोऽपि तथैव विहितवान् । यदैव समायातस्तदैव द्वे अपि राज्ञे आदरपूर्वकं सन्मानं
|
Sain Educ
a
tional