SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ३५० चरित्रम् । नसार १८॥ वृत्तान्तं तन्निवेदितवान् । ते च दुर्मते राज्ञो दुःसंकल्पितं कार्यं चतुरया निजमत्याऽचेतिष्टाम् । धैर्य चावलम्ब्यागादिष्टाम्--स्वामिन् ! निर्भीकेन निःसशंयेन भवितव्यम् , पुण्यप्रभावाच्च ते | निर्विघ्नं कार्यसाफल्यं भावि, नौ शीलादि संपतेन्नाम ! अथ राजा तत्काल एव नगराबहिः | काष्ठानां सञ्चयं कारयित्वा तस्य मृत्युमयीं चितां च कारयित्वा तामग्निना प्रज्वालयामास । हरिबलो ग्राम्यजनसमक्षे तस्यां पतित्वा भस्मसाद् बभूव । ते च ग्रामीणा हृदयविदारकं हाहेति ॥ शब्दं विचुक्रुशुः । समेऽपि जना राजानं मुख्यामात्यं च विगर्हयाश्चक्रुः। अहो कियानाश्चर्यविषयः। राजाऽसौ प्रतापिनं हरिबलं छद्मनावधीत् । अत्यनुचितं व्यधात् । याहशो वै नो नृपतिर्न | तादृशोऽवन्यां कोऽप्यन्यः स्यात् । अथ ते समेऽपि राजानं मुख्यामात्यं च विगर्हयन्ति हरिबलं च | | भृशं प्रशंसन्ति, किं च सिंहमिव पराक्रमिष्णुं बलिनं विष्णुमिव शक्रमिव यशस्विनं प्रतापिनं | महान्तं पुरुषं हरिबलं, दुर्मतिराड् प्रधानश्च ललनालम्पटौ छद्मना तं घातयतः स्मेति महद् दुष्कृतं कर्म । अतो नैतादृशो कावप्यधर्मिणौ स्याताम् । इत्थं यथा मृतदेहाद् दुर्गन्धाधिक्यं निस्सरेत्तथाऽ- | खिलपत्तने राज्ञोऽधर्मापकीर्तिदौर्गन्ध्यं वितेने । अथ स हरिबलो वह्नौ संपतन्नेव सुस्थितदैवतं POSSSSSSSS ॥४८॥ Doww.jainelibrary.org Sain For Personal Private Use Only International
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy