________________
३५०
चरित्रम् ।
नसार १८॥
वृत्तान्तं तन्निवेदितवान् । ते च दुर्मते राज्ञो दुःसंकल्पितं कार्यं चतुरया निजमत्याऽचेतिष्टाम् । धैर्य चावलम्ब्यागादिष्टाम्--स्वामिन् ! निर्भीकेन निःसशंयेन भवितव्यम् , पुण्यप्रभावाच्च ते | निर्विघ्नं कार्यसाफल्यं भावि, नौ शीलादि संपतेन्नाम ! अथ राजा तत्काल एव नगराबहिः | काष्ठानां सञ्चयं कारयित्वा तस्य मृत्युमयीं चितां च कारयित्वा तामग्निना प्रज्वालयामास । हरिबलो ग्राम्यजनसमक्षे तस्यां पतित्वा भस्मसाद् बभूव । ते च ग्रामीणा हृदयविदारकं हाहेति ॥ शब्दं विचुक्रुशुः । समेऽपि जना राजानं मुख्यामात्यं च विगर्हयाश्चक्रुः। अहो कियानाश्चर्यविषयः।
राजाऽसौ प्रतापिनं हरिबलं छद्मनावधीत् । अत्यनुचितं व्यधात् । याहशो वै नो नृपतिर्न | तादृशोऽवन्यां कोऽप्यन्यः स्यात् । अथ ते समेऽपि राजानं मुख्यामात्यं च विगर्हयन्ति हरिबलं च | | भृशं प्रशंसन्ति, किं च सिंहमिव पराक्रमिष्णुं बलिनं विष्णुमिव शक्रमिव यशस्विनं प्रतापिनं | महान्तं पुरुषं हरिबलं, दुर्मतिराड् प्रधानश्च ललनालम्पटौ छद्मना तं घातयतः स्मेति महद् दुष्कृतं कर्म । अतो नैतादृशो कावप्यधर्मिणौ स्याताम् । इत्थं यथा मृतदेहाद् दुर्गन्धाधिक्यं निस्सरेत्तथाऽ- | खिलपत्तने राज्ञोऽधर्मापकीर्तिदौर्गन्ध्यं वितेने । अथ स हरिबलो वह्नौ संपतन्नेव सुस्थितदैवतं
POSSSSSSSS
॥४८॥
Doww.jainelibrary.org
Sain
For Personal Private Use Only
International