SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सरागवचनालापा-दत्यनाचारसेवनात् । षटकायिकानां जीवानां, वधान्मद्यादिपानतः॥१॥ अग्निक्रीडाविधानाच, निर्लज्जाक्रोशनादितः । सघनं नरकं घोरं, प्रामोति मनुजाधमः ॥ २ ॥ धार्मिकाणां पुरुषाणां तु होलीज्वालावलोकनमपि नोचितं दुर्गतिप्रदत्वात् । अनेके जनाः परम्परया होलिकोत्सवं समाचरन्ति, तत्कथं वयं त्यजेम इति चेन्न, धर्मानुसारिण्याः परम्पराया एव पालनविधानात् । न चानाचारपरम्परा धार्मिकैरभ्युपगम्यते । तथाहि-कस्यापि पिता पितामहो वा मूोऽभूत् , तत् किं पुत्रोऽपि मूर्यो भूत्वाऽज्ञानमेव समाश्रयेत्, यद्वाऽन्धस्य पुत्रोऽन्ध एव । भवेत् । स्तेनस्य स्तेनः, व्यभिचारिणो व्यभिचारी, दरिद्रस्य दरिद्र एव स्यात् ? नैष न्यायः, सर्व- | जनानभ्युपगतत्वात् । तस्मात् शास्त्रविहिता शुद्धपरम्परैव समाश्रयणीयेति वेदितव्यम् । किञ्च ये होलिकोत्सवं समाचरन्ति न ते सर्वे धर्मात्मानः सन्ति, यतो लक्षेषु कश्चिदेक एव लक्षेश्वरो भवति न सर्वे पुरुषाः, एवं शतेषु कश्चनैक एव विद्वान् भवति । धर्मात्म-धंनिक-साधुवदान्यनीतिज्ञगम्भी| राशयाः पुरुषास्तु सर्वथाऽल्पीयांस एव सन्ति, अतो मूर्खाणामन्धपरम्परा दूरतो हेया । कुमार्गः | Sain Educ a tional For aspal Private Only minelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy