________________
चरित्रम्।
बर्द्धसार
144 वां दुःखसुखहेतुः। युवां च मे वश्येऽवश्यंभाव्ये यदि मत्कथनं न स्वीकुर्वातां भवत्यौ तदाऽहं बलादपि युवां गृह्णीयाम् । यतोऽहं युवयोरासक्तः, अतो स्वेच्छयैव मद्गृहागमने शोभनं भवत्योर्मम च । इत्थं राजवचः समाकर्ण्य हरिबलस्त्रियौ बहुरोषमावहन्त्यौ तं भणितवत्यौ-रे दुमते ! धिकू त्वां यद्वायस इवाभ्यां निषिद्धोऽपि छद्मप्रौढोह्यावामेवं वदसि । पापत्मन् ! दूरमपसर नोचेत्पापफलं शीघ्रमेव लप्स्यसे । इत्येवं तयोः कटुवचः समाकर्ण्य यावत्सराजा तयोर्बलात्कार कर्तुमुत्सहते तावरकुसुमश्रीः सहसैव निजविद्याबलेन राजानं चौरवद्वबन्ध । बद्धा च यथा तस्य सकलापि दंष्ट्रा सन्त्रुट्य पतेत्तथा भूमौ तं पातयामास । तेन तदानीं राज्ञो दन्तमेकमपप्तत् । एकं तु निजबन्धनं, द्वितीयं दन्तपतनं, ताभ्यां च महापीडा प्रादुर्बभूव । तया च तदानीं महती दुर्दशामाप । इत्थं स दुष्टो राजा मूढ इव शनैः शनैराचक्रन्द । तदानीं राज्ञो मुखाजलपतनमाक्रन्दनं | दन्तपतनं द्युतिविनाशनमित्यादिदशामापन्नस्तरुणोऽपि वृद्धइव ददृशे । इत्थं यथा कश्चनलाभमिच्छन्निजधनादिविनाश्य दुःखी भवेत्तथैव राजा बभूव । अथ दीनवन्मुखं कुर्वन्तं मुहुर्मुहुराक्रन्दन्तं राजानं विलोक्य दयासमुद्रयोस्तयोर्मध्ये कुसुमश्रीस्तमाह-रे दुर्मते ! त्वं हि बहुपापरतस्तथापि
-
॥५०॥
-
in
Ul
a tonal
For Personal Private Use Only
w.jainelibrary.org