SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। बर्द्धसार 144 वां दुःखसुखहेतुः। युवां च मे वश्येऽवश्यंभाव्ये यदि मत्कथनं न स्वीकुर्वातां भवत्यौ तदाऽहं बलादपि युवां गृह्णीयाम् । यतोऽहं युवयोरासक्तः, अतो स्वेच्छयैव मद्गृहागमने शोभनं भवत्योर्मम च । इत्थं राजवचः समाकर्ण्य हरिबलस्त्रियौ बहुरोषमावहन्त्यौ तं भणितवत्यौ-रे दुमते ! धिकू त्वां यद्वायस इवाभ्यां निषिद्धोऽपि छद्मप्रौढोह्यावामेवं वदसि । पापत्मन् ! दूरमपसर नोचेत्पापफलं शीघ्रमेव लप्स्यसे । इत्येवं तयोः कटुवचः समाकर्ण्य यावत्सराजा तयोर्बलात्कार कर्तुमुत्सहते तावरकुसुमश्रीः सहसैव निजविद्याबलेन राजानं चौरवद्वबन्ध । बद्धा च यथा तस्य सकलापि दंष्ट्रा सन्त्रुट्य पतेत्तथा भूमौ तं पातयामास । तेन तदानीं राज्ञो दन्तमेकमपप्तत् । एकं तु निजबन्धनं, द्वितीयं दन्तपतनं, ताभ्यां च महापीडा प्रादुर्बभूव । तया च तदानीं महती दुर्दशामाप । इत्थं स दुष्टो राजा मूढ इव शनैः शनैराचक्रन्द । तदानीं राज्ञो मुखाजलपतनमाक्रन्दनं | दन्तपतनं द्युतिविनाशनमित्यादिदशामापन्नस्तरुणोऽपि वृद्धइव ददृशे । इत्थं यथा कश्चनलाभमिच्छन्निजधनादिविनाश्य दुःखी भवेत्तथैव राजा बभूव । अथ दीनवन्मुखं कुर्वन्तं मुहुर्मुहुराक्रन्दन्तं राजानं विलोक्य दयासमुद्रयोस्तयोर्मध्ये कुसुमश्रीस्तमाह-रे दुर्मते ! त्वं हि बहुपापरतस्तथापि - ॥५०॥ - in Ul a tonal For Personal Private Use Only w.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy