________________
145
|| त्वयि बहुदयां कृत्वा दुःखादमुष्मात्त्वां विमुञ्चामि । परन्तु परत्रानेन कर्मणा घोरनरके पतित्वा Hd दुःखान्तं भोक्ष्यस एव । भूयोऽपि नैतादृशं कार्य कदापि कुर्याः । इत्येवं तं बहु प्रबोध्य निजवि| द्याबलेन कुसुमश्रीर्बन्धनात्तं विमुमोच। स राजापि स्वाझं स्वस्थीकृत्य सावधानमना भूत्वा भूमि| मधिष्ठितोऽवादीत्-हरिवलस्त्रीप्रसादतः किं न लभ्यते सर्वमेव, किं दुष्प्राप्यं ? न किमपीति | बहुशो वदन् भृशं शोचन् निजचक्षुषी वाससा समाछाद्य कथमपि ततश्चचाल । मार्गे च बहु पश्चात्तापं विदधद् बहुधा विचारयन् गुप्तरीत्या निजगृहमाजगाम । आगत्य च गृहे बहुविधसुखप्रदायिकां रात्रिं कथमपि व्यतीत्य प्रत्यूषे निजदन्तपतनाल्लज्जापन्नो बहुव्याजान् विधाय निजमुखं
चाऽऽच्छाद्य राजसभामागत्योपस्थितवान् । निजवृत्तान्तं च सर्व मंत्रिणमूचिवान् । सोऽपि नृपतितः - सर्वमुदन्तं जज्ञिवान् । तदानीं यथा तत्त्वं विज्ञाय संसारस्वरूपं विचारयति । तथा सोऽमात्योऽपि
कदाचिद्भयं कदाचित्कौतुकं कदाचित्करुणेति त्रिभिरेव युक्तो युगपद् बभूवान् । अथ हरिबलोऽपि || तदानीं निजस्त्रीकृतातिविविधचरित्रमद्राक्षीत् । ततो गृहाद्गते राजनि निजप्रियाववादीत्-युवयोरd घटितकार्यकर्ते राज्ञ एतदेवोचितमासीत् । मूर्खजनाय दण्डमन्तराऽन्यत् किं स्यात् ? यथा हीनः
Sain Education
a
l
For Personal & Private Use Only
Library.org मा