SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ बद्धं नसार ५१ ॥ 146 सारथी रथं कुमार्गे चानयति । तथैव कपटी अमात्योऽपि तस्मै राज्ञे दुर्मतिं प्रदाय कुमार्गे पायत्येव खलु । तथाहि — नृपतिर्नरश्च नारी, तुरङ्गस्तंत्री च शास्त्रमथशस्त्रम् । चारुत्वाऽचारुत्वे, स्यातामेषामन्यसङ्गात् ॥ १ ॥ वल्लीनरिंदचित्तं, वक्खाणं पाणियं च महिलाओ । तच्छ्रयवचंति सया, वच्छ्यधुत्तेहिं निजंति ॥ २ ॥ 1 एते समेऽपि ' नीचजनसंगत्या नीचैस्त्वं लभन्ते । सुजनसंगत्या च सौजन्यं लभन्ते । ' अतएव दुष्टोऽयममात्यो राजानं कुमार्गे पातितवान् । अतः पूर्वं प्रधानाऽमात्यार्थमेव कश्चनोपायो विधातव्यो मया किं च यावद् दुष्टोऽयं जीवति तावत्स्वीयं दुर्भावं नैव हास्यति । अतोऽयमेवान्यायविधायकोऽमात्यः कथङ्कारं मारणीयः । यतो दुर्जनाय दमः सुजनाय च प्रतिपालनमित्यादि शास्त्रेषु नीतिरुक्ता । अतोऽमात्यविनाशाय कश्चिदुपायो विधातव्यः । यदसौ मंत्री मया सह बहुविदधाति । अतो मयाप्येतेन सह छद्म विधेयमेव । उक्तञ्च- International व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि नन्ति शठास्तथा विधा न संवृताङ्गान्निशिता इवेषवः ॥ १ ॥ For Personal & Private Use Only चरित्रम् | ।। ५१ ।। www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy