________________
Jain Educa
147
अथेत्थं विमृश्य स हरिबलो निजाभीष्टदेवं सस्मार । तत्स्मरणादेव स देवः शीघ्रमेवोपस्थाय हरिबलीयशरीरमद्भुताकारं दिव्यस्वरूपं च विधाय तस्यैवान्यभयङ्करयमदूतं निर्मितवान् । तं सहैव गृहीत्वा प्रत्यूष एव हरिबलो राजसभायां गत्वा राजानं प्रणिपत्योपस्थितवान् । ततः - इन्द्रोपमं हरिबलं स्वर्गसमागतं विलोक्य चमत्कृतो राजा राजभृत्याश्च बहुविस्मयं लेभिरे । राजा च हृदि व्यचिन्तयत् - अहो ! धिग् पापान्वितमंत्रिवचांसि । यद् यदर्थं मयाऽसौ हरिबलः साक्षाद्वह्नौ भस्मीकृतः । सचायमागतः कुतः ?, राजा हरिबलं परिपृच्छयते यत्त्वं यमगृहात्कथमिहायातः ? त्वया सत्राच कोऽयं पुमान् ? स आह- राजन् ! यदाहं चितामधिष्ठाय भस्मीभूतस्तदैव यमद्वारमगच्छम्, गते च मयि तत्र यमभटा मदीयवृत्तान्तं यममाहुः । निजकिङ्करास्यान्मदीयवृत्तं निशम्य जादयो मयि सन्तुष्टीभूय मां सजीवितं व्यधात् । अथ यमप्रसादान्मदीयदेहशोभादि समधिष्ट | 'एकतः कष्टं द्वितीयतः सत्यम्, इति द्वये सम्पन्ने सति किं दुर्लभं स्यान्न किमपीति । कष्टात्सत्याच्च तुष्टीभूतो देवः सत्पुरुषाय किं किं न ददाति ?' अथ धर्मराजो मया वक्तुमशक्यानि तथा मनसाप्यगोचराणि बहुविधर्द्धिसमृद्धिवस्तूनि समदर्शयत् । अहं च किं पश्यामि किन्न पश्यामीति चिन्तायुतोऽ
For Personal & Private Use Only
Inelibrary.org