SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १२१ श्यं मनोऽभीष्टफलदायी कल्पवृक्ष इव सामर्थ्यवान् । अतस्त्वं त्वदनुरागिकां मां पत्नीत्वेनाङ्गीकुरु । मम पूर्वपुण्योदयादेवेह ते समागमः । मम जीवनदानस्यासावेव हेतुः। आस्ते चेदानीं सुलग्नवेलाऽतो विलम्ब मा कुर्याः । इत्थंभूतकन्यावचः समाकर्ण्य हरिवलो विचारयति । सर्वमदो महत्वं केवलं जीवदयाया एव । यतो देवाङ्गनेव सौन्दर्ये विद्याधरीवेन्द्राणी तिरस्कुर्वतीयं कन्या विद्याधरम || पहाय मामेवाङ्गीकरोति । अतो मे महद्भाग्य, मयि प्रसन्नो देवः । इत्थं बहुशो विमृश्य तदीयं वचः स्वीकृत्य पाणिग्रहणमकरोत् । ततः स्नेहं दर्शयन्ती सा कुमारी तमेवमाह-अयि प्राणेश ! । यदि जीवनेच्छा स्यात्तर्हि हेयमवश्यमदो गृहं, इहावासोऽनर्थकर एव, यदि पुष्पबटुकोऽभोत्स्यत्तर्हि । बबनर्थं व्यधास्यत् । इति स्वचित्ते निश्चित्यातः स्थानात् क्वचिदन्यत्र स्थेयं, विभीषणाय निमंत्रणमपि रुन्धि, यतो विद्याधरेन्द्रः कुत्रापि स्वीयं स्थानं नान्यत्र कुर्यात् । तावकमिहागमनं जातमतो निमंत्रणमपि जातमेव । पश्चाद् विश्वासार्थं कुमारी गत्वा राज्ञश्चन्द्रहास खद्गमानीय । हरिवलायार्पयत् । समर्प्य चाह-खड्गतोऽस्माबलवानपि रिपुः साध्यो भवत्येव, तद् बुध्वा | चमत्कृतो हरिबलः खहं कुसुमश्रिया गृहसारभूतानि सुवस्तूनि सुधातुम्बिकां च समादाय योगीन्द्र Jain Educ a tional For Personal Private Use Only Jainelibrary.org.
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy