________________
१२१ श्यं मनोऽभीष्टफलदायी कल्पवृक्ष इव सामर्थ्यवान् । अतस्त्वं त्वदनुरागिकां मां पत्नीत्वेनाङ्गीकुरु । मम पूर्वपुण्योदयादेवेह ते समागमः । मम जीवनदानस्यासावेव हेतुः। आस्ते चेदानीं सुलग्नवेलाऽतो विलम्ब मा कुर्याः । इत्थंभूतकन्यावचः समाकर्ण्य हरिवलो विचारयति । सर्वमदो महत्वं केवलं जीवदयाया एव । यतो देवाङ्गनेव सौन्दर्ये विद्याधरीवेन्द्राणी तिरस्कुर्वतीयं कन्या विद्याधरम || पहाय मामेवाङ्गीकरोति । अतो मे महद्भाग्य, मयि प्रसन्नो देवः । इत्थं बहुशो विमृश्य तदीयं
वचः स्वीकृत्य पाणिग्रहणमकरोत् । ततः स्नेहं दर्शयन्ती सा कुमारी तमेवमाह-अयि प्राणेश ! । यदि जीवनेच्छा स्यात्तर्हि हेयमवश्यमदो गृहं, इहावासोऽनर्थकर एव, यदि पुष्पबटुकोऽभोत्स्यत्तर्हि ।
बबनर्थं व्यधास्यत् । इति स्वचित्ते निश्चित्यातः स्थानात् क्वचिदन्यत्र स्थेयं, विभीषणाय निमंत्रणमपि रुन्धि, यतो विद्याधरेन्द्रः कुत्रापि स्वीयं स्थानं नान्यत्र कुर्यात् । तावकमिहागमनं जातमतो निमंत्रणमपि जातमेव । पश्चाद् विश्वासार्थं कुमारी गत्वा राज्ञश्चन्द्रहास खद्गमानीय । हरिवलायार्पयत् । समर्प्य चाह-खड्गतोऽस्माबलवानपि रिपुः साध्यो भवत्येव, तद् बुध्वा | चमत्कृतो हरिबलः खहं कुसुमश्रिया गृहसारभूतानि सुवस्तूनि सुधातुम्बिकां च समादाय योगीन्द्र
Jain Educ
a
tional
For Personal Private Use Only
Jainelibrary.org.