________________
बढुं
नसार
154 सुहृदा स्वामिना गुरुणा च सह द्रोहात्महत्तरमेव पापं भावि, इत्थं हरिबलास्यनिःसृतं वचःशृण्वन् IN चरित्रमा स नरवरोऽतिसशङ्को व्यचिन्तयत्-बहु विचिन्त्य च निजमनस्येव व्यम्राक्षीत्-अहो! मदीयं सकलमेव दुर्विचारितं जानात्यसौ । इत्यादि बहु विमृश्य तदानीं महत्या त्रपयाऽधोमुखीभूय बहुकालं शून्यतां दधदिवावतिष्ठत । यथा कश्चित् मूर्छितो जनः स्यात्तादृशो बभूव । अथैतादृशं नृपतिं विलोक्य मधुरया वाचा च बहु प्रबोध्य तदीयं दुःखमपाहार्षीत् । स राजापिहरिबलीयमाननं देवोपमं तदीयाद्भुतचरित्राणि च दर्श दर्श सविस्मयो निजमूर्धानं विकम्पयन् विचिन्तयति स्म-अहो ! सापराधमपि मां वृहच्छक्तियुतोऽसौ दयया जहौ । अतोऽसौ महान् सामर्थ्यवान् मदीयराज्यमपि नोररीचकार । सर्वथाऽसमर्थोऽहं चैतस्य लक्ष्म्यौ गृहीतुमुद्यतोऽभवम् । अतोऽधमाधमोऽहं परमोपकारिणोऽस्मात्कथमहं मुक्तो भवामि । इत्येवं हरिबलस्य प्रशंसां कुर्वन् स्वात्मानं विगर्हयन् भवोद्वेगमावहन् चिराद् बहुकष्टेन निजभवनमगमत् ।धर्मराजगृहगमननैष्फल्यान्वितो जातः। यमगृहगमनाय समुपस्थितो लोकश्च कौतुकान्वितं हरिबलचरित्रं वर्णयन् निजगृहं जगाम । तदानीं तत्राकस्मिकनिमित्तकारणेन स भूपतिर्वैराग्यचेता बभूव । अथ स राजा गते कियति काले वैराग्यरागरञ्जितो
Sain E
r
national
For Personal Private Use Only
vw.jainelibrary.org