________________
155
- हरिबलाय निजां दुहितरं पत्नीत्वेन समर्प्य स्वकीयराज्यं च तस्मा एव दत्त्वा पूर्वसञ्चितपापविना.
शाय शुभे मुहूर्ते सद्गुरुपार्श्वे दीक्षां गृहीत्वान्तेऽनुत्तमां गतिमाप ।। . अथ तत्र काञ्चनपुराधीश्वरोऽपि निजगृहाद्विनष्टां स्वीयात्मजां विज्ञाय दुःखीभवन् प्रतिदिशं । समाचारघोषणां कृतवान् । ततः शनैः शनैः पथिकजन मुखाद्धरिबलीयं वृत्तमश्रौषीत् । अथातिहर्षान्वितो नृपतिर्हरिबलं निजजामातरं विज्ञाय कार्यविज्ञातृन् मुख्यामात्यादिमहतो नून् प्रेष्य बहुमानं निजतनयमिव हरिबलमाचीकरत् । हरिवलोऽपि पृथिव्यां पुरुहूत इव निखिलर्द्धिसमृद्धियुतः || ससैन्यः सस्त्रीकोऽखिललोकेभ्यः कौतुकहर्षादि ददानः काञ्चनपुरं समागात् । तदानीं राजा राज्ञी च दुहितरं स्वामित्वमभिदधतुः । अयि प्रियवत्से ! त्वया स्वेच्छया वरो वृतस्तच्चाघटितं कर्म, किं || च भाग्यं ते महत्तरं, यत्त्वं लोकपूजितं भर्तारमलभथाः । इत्यादि जननी निजात्मजां प्रशशंस । भूपतिश्च हरिबलाय राज्यं समर्प्य द्वावपि भगवद्भजनादि कृत्वान्ते सद्गतिं लेभाते। ____ अथ वैरिकटको वैरिवलो दर्पसनिवारणविनतासुतो भाग्योदयविपुलराज्यपरिपालकोऽप्यति | प्रियप्रजाप्रेमवान् राज्ञी त्रर्यायुतो हरिबलोऽन्यनृपतितनया अपि परिणिनाय । यद्यपीश्वरो जनायाs-1
Sain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org.