SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 155 - हरिबलाय निजां दुहितरं पत्नीत्वेन समर्प्य स्वकीयराज्यं च तस्मा एव दत्त्वा पूर्वसञ्चितपापविना. शाय शुभे मुहूर्ते सद्गुरुपार्श्वे दीक्षां गृहीत्वान्तेऽनुत्तमां गतिमाप ।। . अथ तत्र काञ्चनपुराधीश्वरोऽपि निजगृहाद्विनष्टां स्वीयात्मजां विज्ञाय दुःखीभवन् प्रतिदिशं । समाचारघोषणां कृतवान् । ततः शनैः शनैः पथिकजन मुखाद्धरिबलीयं वृत्तमश्रौषीत् । अथातिहर्षान्वितो नृपतिर्हरिबलं निजजामातरं विज्ञाय कार्यविज्ञातृन् मुख्यामात्यादिमहतो नून् प्रेष्य बहुमानं निजतनयमिव हरिबलमाचीकरत् । हरिवलोऽपि पृथिव्यां पुरुहूत इव निखिलर्द्धिसमृद्धियुतः || ससैन्यः सस्त्रीकोऽखिललोकेभ्यः कौतुकहर्षादि ददानः काञ्चनपुरं समागात् । तदानीं राजा राज्ञी च दुहितरं स्वामित्वमभिदधतुः । अयि प्रियवत्से ! त्वया स्वेच्छया वरो वृतस्तच्चाघटितं कर्म, किं || च भाग्यं ते महत्तरं, यत्त्वं लोकपूजितं भर्तारमलभथाः । इत्यादि जननी निजात्मजां प्रशशंस । भूपतिश्च हरिबलाय राज्यं समर्प्य द्वावपि भगवद्भजनादि कृत्वान्ते सद्गतिं लेभाते। ____ अथ वैरिकटको वैरिवलो दर्पसनिवारणविनतासुतो भाग्योदयविपुलराज्यपरिपालकोऽप्यति | प्रियप्रजाप्रेमवान् राज्ञी त्रर्यायुतो हरिबलोऽन्यनृपतितनया अपि परिणिनाय । यद्यपीश्वरो जनायाs-1 Sain Educ a tional For Personal & Private Use Only www.jainelibrary.org.
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy