________________
15
पत्तयोऽपि सर्वे मामका एव सेविष्यन्ते चैनं सदा । तन्तु केवलं तद्देशशासितारमेव विदधे । इत्थमाख्याय तस्मा अघटाय राजा मथुराराज्यमदात् । विश्वास्य मैनिको मीनेभ्यो मांसमिव । तदैव । च पुरोधा नृपश्च शकुनग्रन्थिञ्जग्रन्थ । निश्चिक्ये च महीपतिर्मनस्येवं नूनमनेन कर्मणाऽसौ मे मुष्टिमध्ये पतितोऽभूत् । यद्यपीदान मेनं हन्तुमर्हामि, तथापि साम्प्रतममुष्यं हनने लोके भूयान्महांश्च मेऽपवादो भविष्यति । इतीदानीमसौ न हन्तव्यः । तत्र गत्वा देशं शास्तु । पश्चादुपायेन हनने सर्वमीहितं सेत्स्यतितमाम् । अथाऽघटोऽपि स्वांशं गोत्रज इव प्राप्तसाम्राज़्यो द्वितीयेऽह्नि सुधाकिरा गिरा राज्ञा भणितः-भोः अघट! तत्र याहि, देशं शाधि, नोचेद्दधिस्थली काकाइवाऽध्यक्ष विना वैरिणः प्रजा लुष्टिष्यन्तितराम् । तदनु कृताञ्जलिरघटोऽपि नृपालादेशमुररीकृत्वा सहर्ष तदैव राजकीयपत्यादिपरिवारयुतो मथुराम्प्रत्यचलत । तदागमनमाकाऽऽनन्दमदुरैः पौरैः सा | मथुरानगरी देवपुरीव द्रागुत्पताकाऽकारि। तस्यां पुर्यां प्रविशतः समग्रबलशालिनः श्रीमतोऽघटस्य द्वारावत्यां हरेरिख काचिदनिर्वचनीया लक्ष्मीः प्रादुरासीत् । तदानीं ज्यायसां पौराणाङ्गणश्चिरञ्जीव, चिरं नन्द, चिरं राज्यमकण्टकमेतद्भुव चिरमाश्रितलोकानां मनोरथांश्च पूरय, इत्याशीभिरेनं प्रेदि
Sain Educati
o nal
For Personal Private Use Only
Snelibrary.org