Page #1
--------------------------------------------------------------------------
________________
श्रीमन्मुनिचन्द्राचार्यविहितवृत्तियुतं मूलसूत्रश्लोकवृत्तिगतश्लोकादिक्रमयुतं श्रीमद् धर्मविन्दुप्रकरणम् ।
bestes
प्रकाशिका -विक्रयागतद्रव्यसाहाय्येन आगमोदयसमितिः कार्यवाहक श्रेष्ठिवेणीचन्द्र सुरचन्द्रद्वारा
ALL RIGHTS RESERVED FOR THE SECRETARIES Shri AGAMODAYA SAMITI.-BOMBAY. Printed at Shri Vir-Shasan Printing Press" by Shah Keshavlal Dalsukhbhai Tankshal - Ahmedabad.
पण्यं ०-१२-०
विक्रम संवत् १९८०
क्राइस्ट १९२४
प्रतयः १२५०
वीर संवत् २४५०
Page #2
--------------------------------------------------------------------------
________________
धमबिन्दु
11211
6 * 本安安婺* 本产
श्रीधर्मबिन्दुप्रकरणस्योपोद्घातः
नै
स्वीक्रियतां शेमुषीमद्भिराविष्क्रियमाणमिदं प्रकरणं धर्मबिन्दुनामकं, कर्तारश्वास्य मुगृहीतनामधेयाः श्रीमन्तो हरिभद्राचार्यवर्याः, इतिवृत्तं चोल्लिखितं श्रीमत्यां पञ्चाशकत्तौ योगदृष्टिवृत्तौ उपमितिभवप्रपञ्चायां च कथायामस्माभिः, अन्यैश्व धर्म संग्रहणीवृत्तौ सूरिश्वराणामितिहासे च सर्वैरपीति वृत्तैर्निर्विवादमेतावद् यदुत पूर्वगवतारतारकदर्शनपटुलोचनाः श्रीमन्त:, अत एव च पूज्यपादैः यद्यपि प्रणीतान्यनेकानि प्रकरणानि तथापि विरोधगन्धोऽपि न जिनपतिसिद्धान्ततश्वेन, प्रस्तुतं च प्रकरणं श्रीमद्भिर्याकिनो महत्तरानुभिरेव हरिभद्राचायविहितं नान्यैः प्रवरैरपि श्रीहरिभद्राभिधाननामोद्वहमानैः सूरिभिः, यतः श्रीमतां जिनेश्वराचार्याभयदेवाचार्याणां वचोऽष्टकप्रकरणस्य प्रथमपञ्चाशकस्य व वृत्तौ यदुत विरहोऽङ्को हरिभद्रसूरीणां, प्रस्तुतप्रकरणस्यान्ते च ' स तत्र दुःखविरहादत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगदीश्वरः॥ ४८ ॥” इतिवचनोपलम्भात् सुनिश्चेयमेतत्, किंच- यद्यपि श्रीमतां सत्तासमयः पूर्वोक्तेषु वाङ्मयोपोद्घातेषु निर्णीतस्तथापि प्राकृतकुवलयमालाकारैः शकाब्दीय सप्तमशतकभाविभिः सूरिवराणां पूर्वकालीनमहाकवित्वेन गणनातू स्पष्टमेवागमिष्यति बोधपथं यत् यः तेषां सत्तासमयो वैक्रमीयपष्ठशताब्दीयः प्रसिद्धोऽवितथः स एव । विवरीतारथ श्रीमन्तो मुनिचन्द्रसूरिवर्याः, यद्यप्यन्येऽपि सूक्ष्मार्थसा१ विरहशब्देन श्रीहरिभद्राचार्यकृतत्वं प्रकरणस्येति प्रथमाष्टकवृत्तिप्रान्ते श्रीजिनेश्वराचार्याः २ इद्द च विरद्दशब्देन इतिसिताम्बरश्रीहरिभद्राचार्यस्य कृतेरङ्क इति प्रथमपञ्चाशकवृत्तिप्रान्ते श्रीअभयदेवसूरयः
-1-169) * 2004469) ***093 10
उपोद्वात
॥१॥
Page #3
--------------------------------------------------------------------------
________________
धशतकचूर्णिकर्तारः सन्ति एतनामान आचार्याः प्रसिद्धास्तथापि नैष गुम्फस्तेषां, यतोऽत्र श्राद्धादिधर्माधिकारे उपयुक्ततममपि नाधार्युः साक्षितया स्पष्टतममपि श्रीप्रवनसारोद्धारयोगशास्त्रधर्मरत्नप्रकरणगतं तदुल्लेखं, चूर्णिकृतस्तु त्रयोदशशताब्द्यां जाता इति तेऽवश्यं तत्तद्ग्रन्थप्रामाण्यमधारयिष्यन् , प्राचीनाश्च श्रीमन्तो मुनिचन्द्रमूरयः प्रसिद्धतमवादिदेवसूरीणां गुरवः, पूज्यपादानां सत्तासमयादि च प्रकरणसमुच्चये मुद्रितात् श्रीमद्भिदेवसूरिभिनिर्मितात् गुरुविरहविलापनामकात् प्रकरणात् सुज्ञेयमिति तद्भाग एवात्रोद्धियते, तद्यथा"तं जयउ चिंतयकुलं जयंमि सिरिउदयसेलसिहरं व । भवजियकमलबन्धव ! जमि तुम तमहरो जाओ ॥ २६ ॥
सच्चं महग्घिया सा महग्घिया चरमजलहिवेलव । मोत्तियमणिव जीए तं फुरिओ उयरसिप्पपुडे ॥ २७॥ सा दब्भनयरी नयरसेहर सया समुबहउ । जीए तुह पुरिससेहर ! जम्मदिणमहामहो जाओ ॥ २८ ॥ जसभद्दो सो मूरी जसं च भई च निम्मलं पत्तो । चिंतामणिबजेणं उबलद्धो नाह ! तं सीसो ॥२९॥ सिरिविणयचंदअज्झावयस्स पाया जयंतु विंझस्स । जेसु तुह आसि लीला गयकलहस्सेव भद्दस्स ॥३०॥ आणंदमूरिपमुहा जयंतु तुह बंधवा जयप्पयडा । जे तुमए दिकखविया सिक्खविया मूरिणो य कया ॥ ३१॥सचं सा कसिणच्चिय कत्तियमासस्स पंचमो कसिणा । खेचतरं व मूरो जोए तं सम्गमल्लोणो ॥ ३९॥ एगारस अटुत्तर संवच्छरकाल ! पडउ तुह कालो । जससेसं जेण तए तं मुणिरयण कयं पाव ! ॥ ४०॥ एतस्मादचनात् निश्चीयते एतद् यदुत श्रीमतां जनका दर्भावतीवास्तव्याः चिन्तकाभिधाना गृहपतिवर्याः जननी च मह
Page #4
--------------------------------------------------------------------------
________________
ध बिन्दु ॥२॥
ग्धिका (मांघी) इत्यभिधाना गुरवो यशोभद्रसूरिवरा अध्यापका विनयचन्द्रोपाध्यायाः स्वयमाचार्यपदप्रतिष्ठापिताः श्रोआ- उपोद्घात नन्दसूरिमुखा गुरुवान्धवार, वैक्रमीयैकादशशत्यामष्टसप्तत्यधिकायां कार्तिककृष्णपश्चम्यां च स्वर्लोकमलंचकुरिति । श्रीमतां प्रक-11 रणकाराणां शैल्येवैषा यदुत न परम्परालिखनं, यत एतैः पूज्यपादैः अङ्गुलसप्ततिका-उपदेशपदवृत्ति-सवृत्तिआवश्यकसप्ततिका-प्रकरणसमुच्चयमुद्रित विविधप्रकरणप्रभृतिग्रन्था विहितास्तथापि न कुत्रापि गुरुपारम्पर्यस्योल्लेखः, निर्दिष्टं प्रकरणमपि 'गुरुभणियकज्जसजो संजाओ देवमूरित्ति' इति प्रान्त्यगाथोक्तेर्देवमूरिविहित, तेनैतावदपि तेषामितिहासाधनं प्रापीति । विषयश्चास्य ग्रन्थज्ञानसमधिगम्यः इत्यर्थयते
__ आनन्दसागराः रतलाम १९८० कार्तिकशुक्लपश्चमी.
॥२॥
Page #5
--------------------------------------------------------------------------
________________
XO
श्रीसर्वज्ञाय नमः। श्रीमुनिचन्द्रसूरिविरचितटीकयाऽलङ्कृतं श्रीमद्धरिभद्रसूरिविरचितं
धर्मबिन्दुप्रकरणम् ।
प्रथमोऽध्यायः। शुद्धन्यायवशायत्तीभूतसद्भूतसंपदे । पदे परे स्थितायास्तु, श्रीजिनप्रभवे नमः॥१॥ जयन्तु ते पूर्वमुनीशमेघा, यैर्विश्वमाश्चेव हतोपतापम् । चक्रे बृहद्वाङमयसिन्धुपानप्रपन्नतुङ्गातिगभीररूपैः॥२॥ यन्नामानुस्मृतिमयमयं सज्जनश्चित्तचक्षुः| क्षेपादिव्याञ्जनमनुसरल्लब्धशुद्धावलोकः । सद्यः पश्यत्यमलमतिहृन्मेदिनीमध्यमग्नं, गम्भीरार्थ प्रवचननिधि भारती तां स्तवीमि ॥ ३ ॥ विदधामि धर्मबिन्दोरतिविरलीभूतगर्भपदबिन्दोः। भव्यजनोपकृतिकृते यथावबोधं विवृतिमेनाम् ॥४॥
प्रणम्य परमात्मानं, समुद्धृत्य श्रुतार्णवात् । धर्मविन्दुं प्रवक्ष्यामि, तोयबिन्दुमिवोधेः॥१॥
'प्रणम्ये ति प्रणम्य-प्रकर्षेण नत्वा बन्दनस्तवनानुचिन्तनादिप्रशस्तकायवाङ्मनोव्यापारगोचरभावमुपनीय, कमित्याह'परमात्मानं ' अतति-सततमेव अपरापरपर्यायान् गच्छतीति आत्मा-जीवः, स च द्विधा-परमोऽपरमश्च, तत्र परमो यः
Page #6
--------------------------------------------------------------------------
________________
TERTULI
बमबिन्दु
खलु निखिलमलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोका जगज्जन्तुचितसंतोषकारण पुरन्दरादिसुन्दरसुरसमूहाहियमाणमातिहार्यपूजोपचारः तदनु सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैककालानेकसत्त्वसंशयसंदोहापोहः स्वविहारपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोराशिः सदाशिवादिशब्दाभिधेयो भगवानहन्निति, स परमः, तदन्यस्तु अपरमः, ततोऽपरमात्मव्यवच्छेदनेन परमात्मानं प्रणम्य, किमित्याह-समुद्धत्य' सम्यगुद्धारस्थानाविसंवादिरूपतया उद्धृत्य-पृथक्कृत्य 'श्रुतार्णवात्' अनेकभङ्गभङ्गुरावर्तगहनादतिविपुलनयजालमणिमालाकुलात् मन्दमतिपोतजन्तुजातात्यन्तदुस्तरादागमस मुद्रात् 'धर्मबिन्दु' वक्ष्यमाणलक्षणं धर्मावयवप्रतिपादनपरतया लब्धयथार्थाभिधानं धर्मबिन्दुनामक प्रकरणं 'प्रवक्ष्यामि' भणिष्यामि, कमिव कस्मात्समुद्धृत्येत्याह-'तोयबिन्दुमिव ' जलावयववत् 'उद्धेः 'दुग्धोदधिप्रभृतेर्जलराशेरिति, अत्र च तोयबिन्दुमिवोदधेरिति बिन्दूपमेयतास्य पकरणस्य सूत्रसंक्षेपापेक्षया भणिता, अन्यथाऽर्थापेक्षया कर्पूरजलबिन्दोरिव कुम्भादिजलव्यापनन्यायेन समस्तधर्मशास्त्रव्यापकताऽस्येति । इह 'प्रणम्य परमात्मान'मित्यनेन विघ्नापोहहेतुः शास्त्रमूलं मङ्गलमुक्तं, परमात्मप्रणामस्य सकलाकुशलकलापसमृलोन्मूलकत्वेन भावमङ्गलवात, 'धर्मबिन्दु प्रवक्ष्यामी'त्यनेन तु
अभिधेयं, धर्मलेशस्यात्राभिधास्यमानत्वात् , अभिधानाभिधेयलक्षणश्च सामर्थ्यात् संबन्धः, यतो धर्मविन्दुरिहाभिधेयः इदं च | प्रकरणं वचनरूपापन्नमभिधानमिति, प्रयोजनं च प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणार्याधिगमः, परम्परं तु द्वयोरपि मुक्तिः, कुशलानुष्ठानस्य निर्वाणैकफलत्वादिति ॥१॥ धर्मबिन्दु प्रवक्ष्यामीत्युक्तम्, अथ धर्मस्यैव हेतुं स्वरूपं फलं च विभणिषुः 'फलपधानाः प्रारम्भा मतिमतां भवन्तीति' फलमेवादौ तदनु हेतुशुद्धिभणनद्वारेण धर्मस्वरूपं चोपदर्शयन्निदं श्लोकद्वयमाह
॥१॥
Page #7
--------------------------------------------------------------------------
________________
धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः। धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥२॥ वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं, तडर्म इति कीर्त्यते ॥३॥
'धनदेति, धन-धान्यक्षेत्रवास्तुद्विपदचतुष्पदभेद भिन्नं हिरण्यसुवर्णमणिमौक्तिकशखशिलाप्रवालादिभेदं च धनपतिधनर्द्धिपतिस्पर्धि तीर्थोपयोगफलं ददाति-प्रयच्छति यः सः तथा, 'धनार्थिनां' धनमन्तरेण गृहिणो न किञ्चिदितिबुदया धनविषयातिरेकस्पृहावतां 'प्रोक्तः शास्त्रेषु निरूपिता, धर्म एवेत्युत्तरेण योगा, तथा 'कामिनां' कामाभिलाषवतां प्राणिनां, काम्यन्ते इति कामाः-मनोहरा अक्लिष्टप्रकृतयः परमाहाददायिनः परिणाममुन्दराः शब्दरूपरसगन्धस्पर्शलक्षणा इन्द्रियार्थाः ततः सर्वे च ते कामाश्च सर्वकामाः तान् ददातीति सर्वकामदः, इत्यमभ्युदयफलतया धर्ममभिधाय निःश्रेयसफलत्वेनाह-धर्म एव नापरं किश्चिन् अपवृज्यन्ते-उच्छिद्यन्ते जातिजरामरणादयो दोषा अस्मिन्नित्यपवर्ग:-मोक्षः तस्य 'पारम्पर्येण' अ. विरतसम्यग्दृष्टिगुणस्थानाधारोहणलक्षणेन सुदेवत्वमनुष्यत्वादिस्वरूपेण वा 'साधकः' मूत्रपिंड इव पटस्य स्वयं परिणामिकारणभावमुपगम्य निर्वर्तक इति ॥२॥ _ 'वचने 'ति, उच्यते इति वचनं-आगमः तस्मात् वचनमनुसृत्येत्यर्थः, 'य'दित्यद्याप्यनिरूपितविशेषानुष्ठान, इहलोकपरलोकावपेक्ष्य हेयोपादेययोरथयोरिदेव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिरिति, तत् धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशाद्वचनादित्याह-'अविरुद्वात् ' निर्देक्ष्यमाणलक्षणेषु कपच्छेदतापेषु अविघटमानात् , तच्चाविरुद्ध वचनं जिनप्रणीतमेव, निमित्तशुद्धः, वचनस्य हि वक्ता निमित्तमन्तरङ्ग, तस्य च रागद्वेषमोहमारतन्यमशुद्धिः, तेभ्यो
Page #8
--------------------------------------------------------------------------
________________
धर्मबिन्दु IRII
मकरणम्
वितथवचनमवृत्तेः. न चैषा अशुद्धिजिने भगवति, जिनत्वविरोधात् , जयति रागद्वेषमोहस्वरूपानन्तरङ्गान् रिपूनिति जिन इति शब्दार्थानुपपत्तेः, तपनदहनादिशब्दवदन्वर्थतया चास्याभ्युपगमो, निमित्तशुद्धयभावानाजिनप्रणीतमविरुद्धं वचनं, यतः कारणस्वरूपानुविधायि कार्य, तन्न दुष्टकारणारब्धं कार्यमदुष्टं भवितुमईति, निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारणव्यववस्थोपरमपसङ्गात् , यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण कचित्किञ्चिदविरु
मपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि कचित् तत् तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्य, न च वक्तव्यं तर्हि अपारुषेयं वचनमविरुद्धं भविष्यति, कुतो ?, यतस्तस्यापौरुषेयत्वे स्वरूपलाभस्याप्यभावः, तथाहि-उक्तिर्वचनं, पुरुषव्यापारानुगत रूपमस्य, पुरुषक्रियायास्ताल्वोष्ठादिव्यापाररूपाया अभावे कथं वचनं भवितुमर्हति ?, किंच एतदपौरुषेयं न क्वचित ध्वनदुपलभ्यते, उपलम्भेऽप्यदृष्टस्य पिशाचादेववतुराशङ्काऽनिवृत्तेः, माऽनेन तद् भाषितं स्यात् , ततः कथं तस्मादपि मनस्विनां सुनिश्चिता प्रवृत्तिः प्रसूयत इति । कीदृशमनुष्ठानं धर्म इत्याह-'यथोदितं' यथा-येन प्रकारेण कालाधाराधनानुसाररूपेणोदित-प्रतिपादितं, तत्रैवाविरुद्ध वचने, अन्यथा प्रवृत्तौ तु तद्वेषित्वमेवापद्यते न तु धर्मः, यथोक्तम्-" तत्कारी स्यात्स नियमात्तवेषी चेति यो जडः। आगमार्थ तमुल्लद्ध्य तत एव प्रवर्त्तते ॥१॥” इति ॥ (योगबिन्दु २४०) पुनरपि कोदृशमित्याह-'मैत्र्यादिभावसंयुक्तं मैत्र्यादयो-मैत्रीप्रमोदकारुण्यमाध्यस्थ्यलक्षणा ये भावा-अन्तःकरणपरिणामाः तत्पूर्वकाश्व बाह्यचेष्टाविशेषाः सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु तैः संयुक्त-संमिलितं, मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेन शास्त्रान्तरेषु प्रतिपादनात , तदेवं विधमनुष्ठानं 'धर्म' इति दुर्गतिपतजन्तुजातधारणात् स्वर्गा
॥२॥
Page #9
--------------------------------------------------------------------------
________________
दिसुगतौ धानाच धर्म इत्येवंरूपत्वेन कीर्यदे-शब्द्यते सकलाकल्पितभावकलापाऽऽकल नकुशलैः सुधीभिरिति । इदं चाविरुद्धवचनादनुष्ठानमिह धर्म उच्यते उपचारात् , यथा नवलोदक पादरोगः, अन्यथा शुद्धानुष्ठानजन्या कर्ममलापगमलक्षणा सम्यग्दर्शनादिनिर्वाणवीजलाभफला जीवशुद्धिरेव धर्मः॥३॥ अथामुमेव धर्म भेदतः प्रभेदतश्च बिभणिषुराह
सोऽयमनुष्ठातृभेदात् द्विविधो-गृहस्थधर्मो यतिधमश्चेति ॥१॥ 'सः' यः पूर्व प्रववतुमिष्टः 'अयं' साक्षादेव हृदि विवर्तमानतया प्रत्यक्षः 'अनुष्ठातृभेदात्' धर्मानुष्ठायकपुरुषविशेषात् 'द्विविधो' द्विपकारो धर्मः, प्रकारादेव दर्शयति-'गृह धर्मो यतिधर्मश्चेति' गृहे तिष्ठतीति गृहस्थः तस्य धर्मो नित्यनैमित्तिकानुष्ठानरूपः, य: खलु देहमात्रारामः सम्यगविद्यानौलाभेन तृष्णासरित्तरणाय योगाय सततमेव यतते स यतिः तस्य धर्म:-गुर्वन्तेवासिता सद्भक्तिबहुमानावित्यादिः वक्ष्यमाणलक्षणः॥१॥
तत्र च गृहस्थधर्मोऽपि द्विविध:-सामान्यतो विशेषतश्चेति ॥२॥ 'गृहस्थधर्मोऽपि उक्तलक्षणः, किम्युनः सामान्यतो धर्म इत्यपिशब्दार्थ, 'द्विविधो' विभेदः, दैविध्यमेव दर्शयति-सामान्यतो नाम सर्व शिष्टसाधारणानुष्ठानरूपः, 'विशेषतो' विशेषे.. सम्यग्दर्शनाणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चये इति ॥२॥ तत्राय भेदं शास्त्रकृत्स्वयमेवाध्यायपरिसमाप्ति यावद्भावयन्नाह
तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतम निन्द्य विभवाद्यपेक्षया न्यायप्तोऽनुष्ठानमिति ॥३॥ 'तत्र' तयोः सामान्य विशेषरूपयोः गृहस्थधमयो वस्तुमुपक्रान्तयोर्मध्ये सामान्यतः गृहस्थधर्मोऽयम, यथा-'कुलक्रमा
Page #10
--------------------------------------------------------------------------
________________
प्रकरण
धर्मबिन्दु
गतं' पितृपितामहादिपूर्वपुरुषपरम्परासेवनाद्वारेण स्वकालं यावदायातम् , अनुष्ठानमित्युत्तरेण योगा, पुनः कीदृशं तदित्याह'अनिन्द्यं निन्द्य-तथाविधपरलोकप्रधानसाधुजनानामत्यन्तमनादरणीयतया गर्हणीयं यथा सुरासंधानादि तन्निषेधादनिन्छ, तथा 'विभवाद्यपेक्षया' विभवं-स्वकीयमूलधनरूपमादिशब्दात् कालक्षेत्रादिसहायबलं चापेक्ष्य 'न्यायतो' न्यायेनशुद्धमानतुलोचितकलाव्यवहारादिरूपेण आसेवनीयावसरचित्ताराधनादिरूपेण च 'अनुष्ठान' वाणिज्यराजसेवादिरूपं, इदमुक्तं भवति-सर्वसाधुसमतन्यायप्रधानस्य स्वविभवतृतीयभागादिना व्यवहारमारभमाणस्य राजसेवादौ च तदुचितक्रमानुरतिनः कुलक्रमायातानिन्द्यानुष्ठानस्य अत्यन्त निपुणबुद्धः अत एव सर्मापायस्थानपरिहारवतो गृहस्थस्य धर्म एव स्यात्, दीनानाथाधुपयोगयोग्यतया धर्मसाधनस्य विभास्योगजनं प्रति प्रतिवद्धचितत्वादिति । यच्चाऽऽदावेवानिन्यानुनस्य गृहस्थसंबन्धिनो धर्मतया शास्त्रकारेण निदर्शनमकारि नत् ज्ञापयति निरनुष्ठानत्य निर्वाह विच्छेदेन गृहस्थस्य सर्वशुभक्रियोपरमप्रसङ्गादधर्म एव स्यादिति, पठ्यते च-“वित्तीवोच्छेयमि य गिहिणी सोयंति सबकिरियाओ । निरवेक्खस्स उ जुत्तो संपुण्णो संजमो चेव ॥२॥ (पश्चा० १५१) [वृत्तियुच्छेदे च गृहिणः सीदन्ति सर्वाः क्रियाः। निरपेक्षस्य तु युक्तः संपूर्ण संयमश्चैव अथ कस्मात् न्यायत इत्युक्तमिति, उच्यते
न्यायोपात्तं हि वित्तमुभयलोकहितायेति ॥४॥ 'न्यायोपात्तं' शुद्धव्यवहारोपार्जितं 'हि' यस्माद् ‘वित्तं' द्रव्य निर्वाहहेतुः, किमिन्याह-'उभयलोकहिताय' उभयोः-इहलोकपरलोकरूपयोः लोकयोहिताय-कल्याणाय सपद्यते ॥ ४ ॥ एतदपि कुत ? इत्याह
॥३॥
Page #11
--------------------------------------------------------------------------
________________
अनभिशकनीयतया परिभोगाद् विधिना तीर्थगमनाच्चेति ॥५॥ इहान्यायप्रवृत्तौ पुरुषस्य द्विविधा अभिशङ्कनीयता-भोक्तुः भोग्यस्य च विभवस्य, तत्र भोक्तुः परद्रव्यद्रोहकार्ययमित्येवंदोषसंभावनलक्षणा, भोग्यस्य पुनः परद्रव्यमिदमित्थमनेन भुज्यत इत्येवंरूपा, ततस्तत्प्रतिषेधेन या अनभिशङ्कनीयता तया उपलक्षितेन भोक्त्रा 'परिभोगात्' स्नानपानाच्छादनानुलेपनादिभिः भोगप्रकारैः आत्मना मित्रस्वजनादिभिश्च सह विभवस्योपजीवनात् , अयमत्र भावः-न्यायेनोपार्जितं विभवं भुनानो न केनापि कदाचित्किश्चिदभिशङ्कयते, एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभ इति, परलोके हितवं च 'विधिना' सत्कारादिरूपेण तीर्यते व्यसनसलिलनिधिः अस्मादिति तीर्थ-पवित्रगुणपात्रपुरुषवर्गः दीनानाथादिवर्गश्च तत्र गमनं-प्रवेश: उपष्टम्भकतया प्रवृत्तिर्वित्तस्य तीर्थगमनं तस्मात् , चकारः समुच्चये, पठ्यते च धार्मिकजनस्य शास्त्रान्तरे दानस्थानं यथा-" पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्ध स्वतश्च यत्" ॥३॥ (योग. १२१) अत्रैव विपक्षे बाधामाह
अहितायैवान्यदिति ॥६॥ 'अहितायैव ' अहितनिमित्तमेव उभयोरपि लोकयोः, न पुनः काकतालीयन्यायेनापि हितहेतुरित्येवकारार्थः, 'अन्यत्' न्यायोपात्तवित्ताविभिन्न अन्यायोपात्तवित्तमित्यर्थः॥६॥कुन एतदित्याह
तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् इति ॥७॥ तस्य-अन्यायोपाचवित्तस्य 'अनपायित्वं' अविनाशित्वमिति योऽर्थः तस्मिन्नपि, अन्यायोपार्जितो हि विभः
Page #12
--------------------------------------------------------------------------
________________
मकरणम्
॥४॥
अस्थ्यादिशल्योपहतगृहमिवाचिरा द्विनाशमनासाद्य नारते, अथ कदाचिद् बलवतः पापानुबन्धिनः पुप्यस्यानुभावात् स विभवो यावज्जीवमपि न विनश्येत् तथापि मत्स्यादीनां-मत्स्यकुरङ्गपतगादीनां ये गलादयः-गलगौरीगानप्रदीपालोकादयः रसनादीन्द्रियलौल्यातिरेककारिणः विषयविशेषाः तद् विपाके-परिणामे दारुणं तस्य भावस्तत्वं तस्मात् , अन्यत्राप्यवाचि" पापेनैवार्थरागान्धः, फलमामोति यत्कचित् । बडिशामिषवत्तत्मविनाश्य न जीर्यति ॥४॥” इति, नन्वेवमन्यायेन व्यवहारप्रतिषेधे गृहस्थस्य वित्तमाप्तिरेव न भविष्यति, तत्कथं निर्वाहव्यवच्छेदे धर्महेतुश्चित्तसमाधिलाभः स्यादित्याशङ्कयाह
न्याय एव ह्याप्त्युपनिषत्परेति समयविद इति ॥८॥ न्याय एव न पुनरन्यायोऽपि अर्थस्य-विभवस्य आप्ति:-लाभः अर्थाप्तिः तस्या 'उपनिषद्' अत्यन्तरहस्यभूत उपाय:, युक्तायुक्तार्थसार्थविभागकलनकौशल विकला रथूलमतिभिः स्वमायमानावस्थायामप्यनुपलब्ध इति योऽर्थः, 'परा' प्रकृष्टा इत्येवं 'समयविदः' सदाचाराभिधायिशास्त्रज्ञा ब्रुवते, तथा हि ते पठन्ति-"निपानमिव मण्डूकाः, सरःपूर्णमिवाण्डजाः । शुभकर्माणमायान्ति, विक्शाः सर्वसम्पदः॥५॥" तथा-" नोदवानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः॥६॥" कुत एतदेवमित्याह
ततो हि नियमतः प्रतिबन्धकवर्मविगम इति ॥९॥ 'ततो' न्यायात्सकाशात् 'हि' यस्मात् 'नियमतः' अवश्यंभावेन प्रतिबन्धकस्य-परलाभोपघातजननद्वारेण भवान्तरे उपात्तस्य लाभविघ्नहेतोः कर्मणो-लाभान्तरायलक्षणस्य विगमो-विनाशः संपद्यते, यथा सम्यमयुक्ताया लङ्घनादिक्रि
॥४॥
Page #13
--------------------------------------------------------------------------
________________
यायाः सकाशात् रोगस्य ज्वरातिसारादेरिति ॥९॥ ततोऽपि किं सिद्धमित्याह
सत्यस्मिन्नायत्यामर्थसिद्धिरिति ॥१०॥ 'सति' विद्यमाने 'अस्मिन् ' आन्तरे प्रतिबन्धककर्मविगमे 'आयत्याम्' आगामिनि काले 'अर्थसिद्धिः' अभिलषितविभवनिष्पत्तिः आविर्भवतीति ॥ १०॥ एतद्विपर्यये दोषमाह
अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो निःसंशयस्त्वनर्थ इति? ॥११॥ 'अत' उक्तलक्षणान्यायात् 'अन्यथाऽपि' अन्यायलक्षणेन प्रकारेण 'प्रवृत्ती' व्यवहारलक्षणायां 'पाक्षिको' वैकल्पिकः अर्थलाभः, कदाचित्स्यात्कदाचिन्नेत्यर्थः, 'निःसंशयो' निःसंदेहः 'तुः' पुनरर्थः 'अनर्थः' उपघातः, आयत्यामेव, इदमुक्तं भवति-अन्यायप्रवृत्तिरेव तावदसंभविनी, राजदण्डमयादिभितभिः प्रतिहतत्वात् , पठ्यते च-"राजदण्डभयात्पापं, नाचरत्यधमो जनः। परलोकभयान्मध्यः, स्वभावादेव चोत्तमः॥७॥" अथ कश्चिदधमाधमतामवलम्ब्य अन्यायेन प्रवर्तते तथाप्यर्थसिद्धिरनैकान्तिकी, तथाविधाशुद्ध सामग्रीसव्यपेक्षविपाकस्य कस्यचिदशुभानुबन्धिनः पुण्यविशेषस्य उदयवशा
स्यादन्यथा पुनर्नेति, यश्चानर्थः सोऽवश्यंभावी, अन्यायप्रवृत्तिवशोपात्तस्य अशुद्धर्मणः नियमेन स्वफलमसंपाद्योपरमाभा| वात् , पठ्यते च-"अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् । नामुक्त क्षोयते कर्म, कल्पकोटिशतैरपि ॥८॥" ॥११॥ अथ गृहस्थधर्म विवाहप्रकारमाह
तथा-समानकुलशीलादिभिरगोत्र वाह्यमन्यत्र बहुविरुद्धेभ्य इति२ ॥१२॥
Page #14
--------------------------------------------------------------------------
________________
IER
चर्मबिन्दु ॥५॥
समानं-तुल्यं कुलं-पितृपितामहादिपूर्वपुरुषवंशः शीलं-मद्यमांसनिशाभोजनादिपरिहाररूपो व्यवहार आदिशब्दाद्विभववेषभाषादि च येषां ते तथा तैः कुटुम्बिभिः 'अगोत्रजः' गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशःततो गोत्रे जाताः गोत्रजाः तत्पतिषेधात् अगोत्रजाः तैः-अतिचिरकालव्यवधानवशेन त्रुटितगोत्रसंबंधैश्चेति, किमित्याह-'वैवाचं' विवाह एवं तत्कर्म वा वैवाह्य, सामान्यतो गृहस्थधर्म इति प्रकृतं, किमविशेषेण?, नेत्याह-'अन्यत्र विना 'बहुविरुद्धेभ्या' कुतोऽपि महतोऽनौचित्यात् , बहुभिः तज्जातिवर्तिभिस्तत्स्थानतद्देशवासिभिर्वा जनैः सह विरुद्धां घटनां गता बहुविरुद्धाः तेभ्यः, बहुविरुद्धान् लोकान् वर्जयित्वेत्यर्थः । असमानकुलशीलादित्वे हि परस्परं वैसादृश्यात् तथाविधनिर्बणसंबन्धाभावेन असंतोषादिसंभवः, किंच-विभववैषम्ये सति कन्या महतः स्वपितुरैश्वर्यादल्पविभवं भर्तारमवगणयति, इतरोऽपि प्रचुरस्वपितृविभववशोत्पन्नाहकारः तत्पितुर्विभवविकलत्वेन दुर्बलपृष्ठोपष्टम्भां कन्यामवजानाति, तथा गोत्रजैः वैवाह्ये स्वगोत्राचरित. ज्येष्ठकनिष्ठताव्यवहारविलोप: स्यात् , तथाहि-ज्येष्ठोऽपि वयोविभवादिभिः कन्यापिता कनिष्ठस्यापि जामातृकपितुः नीचैत्तिर्भवति, न च गोत्रजानां रूढं ज्येष्ठकनिष्ठव्यवहारं अतिलध्य अन्यो दैवाह्यव्यवहारो गुणं लभते, अपि तु तद्व्यवहारस्य प्रवृत्तौ गोत्रजेषु पूर्वप्रवृत्तविनयभङ्गात् महान् अनर्थ एव संपद्यते, तथा बहुविरुद्धैः सह संबन्धघटनायां स्वयमनपराद्धानामपि तत्संबन्धद्वारा आयातस्य महतो विरोधस्य भाजनभवनेन इहलोकपरलोकार्थयो क्षतिः प्रसजति, जनानुरागप्रभवत्वात्संपत्तीनामिति पर्यालोच्य उक्तं-" समानकुलशीलादिभिः अगोत्रजैः वैवाह्यमन्यत्र बहुविरुद्धेभ्यः ” इति ।
अत्र च लौकिकनीतिशास्त्रमिदम्-द्वादशवर्षा स्त्री षोडशवर्षः पुमान् , तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पा
Page #15
--------------------------------------------------------------------------
________________
दनपरिपालनारूपचतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः, स च ब्राह्मादिभेदादष्टधा, तथाहि -१ ब्राह्मो विवाहो यत्र वरायालङ्कृता कन्या प्रदीयते ' त्वं भवास्य महाभागस्य सधर्मचारिणीति २ विनियोगेन विभवस्य कन्याप्रदानात्प्राजापत्यः ३ गोमिथुनपुरस्सरं कन्याप्रदानादाषः ४ स देवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा, एते धर्म्या विवाहाश्चत्वारोऽपि, गृहस्थोचित देवपूजनादिव्यवहाराणामेतदन्तरङ्गकारत्वान्मातुः पितुर्वन्धूनां चाप्रामाण्यात् ५ परस्परानुरागेण मिथः समवायाद्गान्धर्वः ६ पणबन्धेन कन्याप्रदानमासुरः ७ प्रसह्य |कन्यादानाद्राक्षसः ८ सुप्तप्रमत्तकन्यादानात्यैशाचः, एते चत्वारोऽधर्म्या अपि नाधर्म्याः यद्यस्ति वधूवरयोरनपवादं परस्पररुचितत्वमिति, शुद्धकलत्रलाभफलो विवाहः, तत्फलं च सुजात सुतसंततिः अनुपहता चित्तनिर्वृतिः गृहकृत्य सुविहितस्त्वं आभिजात्याचारविशुद्धत्वं देवा तिथिबान्धवसत्कारानवद्यत्वं चेति ॥ कुलवधूरक्षणोपायाश्चैते-गृहकर्मविनियोगः परिमितोऽर्थसंयोगः अस्वातन्त्र्यं सदा च मातृतुल्य स्त्रीलोकावरोधनमिति । रजकशिला कुर्कुरकर्परसमा हि वेश्याः कस्तासु कुलीनो रज्येत?, यतो दाने दौर्भाग्यं, सत्कृतौ परोपभोग्यत्वं, आसक्तौ परिभवो मरणं वा, महोपकारेऽप्यनात्मीयत्वं, बहुकालसंबंधेऽपि त्यक्तानां तदैव पुरुषान्तरगमनमिति वेश्यानां कुलाऽऽगतो धर्म इति ॥ १२ ॥ अथ गृहस्थधर्मे वर्त्तनप्रकारमाह
तथा - दृष्टादृष्टबाधा भीतता इति ३ ॥ १३ ॥
दृष्टाश्च - प्रत्यक्षत एव अवलोकिताः अदृष्टाश्च-अनुमानागमगम्याः ताथ ता बाधाश्र - उपद्रवाः दृष्टादृष्टबाधास्ताभ्यो भीतता - भयं सामान्यतो गृहस्थधर्म इति, तदा च तदुभयं चेतसि व्यवस्थापितं भवति यदि यथाशक्ति दूरत
469) ****%*46) *** 169) *0-4600
Page #16
--------------------------------------------------------------------------
________________
धर्मविन्दुका
प्रकरण
एव तत्कारणपरिहारः कृतो भवति, न पुनरन्यथा, तत्र दृष्टबाधाकारणानि मन्यायव्यवहरणातरमणपरदाराभिगमनादीनि इहलोकेऽपि सकललोकसमुपलभ्यमाननानाविधविडम्बनास्थानानि, अदृष्टवायाकारणानि पुनर्मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्ति, किं भगितं.भाति ?-दृष्टादृष्टबाधाहेतुभ्यो दूरमात्मा व्यावर्तनीय इति ॥१३॥
तथा-शिष्टचरितप्रशंसमिति ४॥१४॥ शिष्यते स्म शिष्टाः-वृत्तस्थज्ञानवृद्धपुरुषविशेषसंनिधानोपलब्धविशुद्धशिक्षा मनुजविशेषाः तेषां चरितं-आचरणं शिष्टचरितं, यथा-"लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः। कृतज्ञता सुदाक्षिण्यं, सदाचारः प्रकीर्तितः॥९॥ सर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्संपदि नम्रता ॥ १०॥ प्रस्तावे . मितभाषित्वमविसंवादनं तथा । प्रनिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥११॥ असद्व्ययपरित्यागः, स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥ १२॥ लोकाचारानुवृत्तिश्च, सर्वत्रौचित्यपालनम् । प्रवृत्तिहिते नेति, प्राणैः कण्ठगतैरपि ॥ १३ ॥ (योग. १२६-१३० ) इत्यादि, तस्य प्रशंसनं प्रशंसा पुरस्कार इत्यर्थः, यथा च-"गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥१४॥" तथा-" शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते, दन्तिदन्ता न दन्तिनः ॥१५।।" ॥ १४ ॥ इति
. तथा-अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजय इति५ ॥१५॥ अयुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टगृहस्थानामन्तरङ्गोऽरिषड्वर्गः, तत्र-परपरिगृहीतास्वनूढासु
॥६॥
Page #17
--------------------------------------------------------------------------
________________
वा स्त्रीषु दुरभिसन्धिः कामः, अविचार्य परस्यात्मनो वाऽपायहेतुः क्रोधः, दानाहेषु स्वधनाप्रदानमकारणपरधनग्रहण वा लोभा, दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा मानः,कुलबलैश्चर्यरूपविद्याभिरात्माहङ्कारकरणं परमर्षनिबन्धनं वा मदः, निनिमित्तमन्यस्य दुःखोत्पादनेन स्वस्य द्यूतपापद्धाद्यनर्थसंश्रयेण वा मनःप्रीतिजननो हर्षः, ततोऽस्य-अरिषड्वर्गस्य त्यागा-प्रोज्झनं तेन अविरुद्धानां-गृहस्थावस्योचितधर्मार्थाभ्यां विरोधमनागतानामर्यानां-शब्दादीनां श्रोत्रादीन्द्रियविषयभावापन्नानां पतिपत्तिः-अङ्गीकरणं अविरुद्धार्थपतिपत्तिः तया इन्द्रियजय:-अत्यन्तासक्तिपरिहारेण श्रोत्रादीन्द्रियविकारनिरोधः, सर्वेन्द्रियाथनिरोधेन पुनर्यो धर्मः स यतीनामेवाधिकरिष्यते, इह तु सामान्यरूपगृहस्थधर्म एवाधिकृतस्तेनैवमुक्तमिति ॥१५॥
तथा-उपप्लुतस्थानत्याग इति ६॥ १६ ॥ उपप्लुतं-स्वचक्रपरचक्रविक्षोभात् दुर्भिक्षमारीतिजनविरोधाश्चास्वस्यीभूतं यत्स्थान-निवासभूमिलक्षणं ग्रामनगरादि तस्य त्यागः, अत्यज्यमाने हि तस्मिन् धर्मार्थकामानां तत्र प्रवृत्तोपप्लववशेन पूर्वलब्धानां विनाशसंभवेन नवानां चानुपाजैनेनोभयोरपि लोकयोरनर्थ एवोपपद्यते इति ॥ १६ ॥
तथा-स्वयोग्यस्याऽऽश्रयणमिति ७॥१७॥ स्वस्य-आत्मनो योग्यस्य-उचितस्य रक्षाकारणस्य राजादेरपूर्वलाभसंपादनलब्धरक्षणक्षमस्य 'आश्रयणं' रक्षणीयोऽहं भववामित्यात्मसमर्पणं, यत उक्त-" स्वामिमूलाः सर्वाः प्रकृतयः, अमूलेषु तरुषु किं कुर्यात्पुरुषप्रयत्नः" इति, स्वामी च धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान् न्यायानुगतश्च कार्य इति ॥१७॥
MANOPARD
Page #18
--------------------------------------------------------------------------
________________
धर्मबिन्दु
सामान्य रहिवः
॥७॥
तथा-प्रधानसाधुपरिग्रह इति ८॥१८॥ प्रधानानाम्-अन्वयगुणेन सौजन्यदाक्षिण्यकृतज्ञतादिभिश्च गुणैरुत्तमानां साधूनां-सदाचाराभिनिवेशवतां परिग्रहःस्वीकरणं, क्षुद्रपरिवारो हि पुरुषः सर्पवानाश्रय इव न कस्यापि सेव्यः स्यात् , तथा-उत्तमपरिग्रहेणैव गुणवानिति पुरुषस्य प्रसिदिरुत्पद्यते, यथोक्तम्-"गुणवानिति प्रसिद्धिः संनिहितैरेव भवति गुणवद्भिः। ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः॥१६॥” इति ॥१८॥
तथा-स्थाने गृहकरणमिति ९॥१९॥ 'स्थाने' वक्ष्यमाणलक्षणास्थानविलक्षणे ग्रामनगरादिभागे गृहस्प-स्वनिवासस्य 'करण' विधानमिति ॥ १९ ॥ अस्थानमेव व्यनक्ति
अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं चेति ॥२०॥ तत्रातिप्रकटम्-असनिहितगृहान्नरतयाऽतिप्रकाशं अतिगुप्त-गृहान्तरैरेव सर्वतोऽतिसंनिहितैरनुपलक्ष्यमाणद्वारादिविभागतयाऽतीव प्रच्छन्नं, ततः अतिप्रकटं चातिगुप्तं चेत्यतिप्रकटातिगुप्तम्, किमित्याह-'अस्थानम्' अनुचितं गृहकरणस्य, तथा'अनुचितप्रातिवेश्यं च ' प्रतिवेशिनः-सन्निहितद्वितीयादिगृहवासिनः कर्म भावो वा प्रातिवेश्य अनुचितं-यूतादिव्यसनोपहततया धार्मिकाणामयोग्य प्राति देश्यं यत्र तदनुचितप्राति वेश्यम्, चः समुच्चये, किं पुनः कारणमतिपकटादि अस्थानमिति!, उच्यते, अतिप्रकटे प्रदेशे गृहं क्रियमणं परिपार्श्वतो निरावरणतया चौरादयो निःशङ्कमनसोऽभिभवितुमुत्सहन्ते, अतिगुप्तं पुनः
॥७॥
Page #19
--------------------------------------------------------------------------
________________
सर्वतो गृहान्तरैरतिनिरुद्धत्वान्न स्वशोभा लभते प्रदीपनकायुपद्रवेषु च दु:खनिर्गमप्रवेशं भवति, अनुचितप्रातिवेश्यत्वे पुन: "संसर्गजा दोषगुणा भवन्तीति वचनात् बुशीलपाति शिव.लोकालापदर्शनसहवासदोषवशात् स्वतः सगुणस्यापि जीवस्य निश्चितं गुणहानिरुत्पद्यते इति तनिषेधः ॥ २०॥ स्थानेऽपि गृहकरणे विशेष विधिमाह
लक्षणोपेतगृहवास इति ॥२१॥ लक्षणैः-प्रशस्तवारतुस्वरूपसूचकहलमिवालकुशरतंबप्रशस्तवर्णगन्धमृत्तिकासुस्वादजलोद्गमनिधानादियुक्तक्षितिमतिष्ठितत्ववेधविरहादिभिः उपेतं-समन्वित तच्च तद् गृहं च तत्र त्रास:-अवस्थानम्, निर्लक्षणे हि गृहे वसतां सतां विभववि| नाशादयो नानाविधा जनप्रसिद्धा एच दोषाः संपद्यन्ते, गृहरूक्षणानामेव समीहितसिद्धौ प्रधानसाधनत्वात् ॥२१॥ ननु कथं गृहलक्षणानामेव निःसंशयोऽवगम ? इत्याह
निमित्तपरीक्षेति ॥२२॥ निमित्तैः-शकुनस्वप्नोपश्रुतिप्रभृतिभिः अतीन्द्रियार्थपरिज्ञानहेतुभिः परीक्षा, परीति-सर्वतः सदेहविपर्ययानध्यव* सायवि ज्ञानदोषपरिहारेणेक्षणम्-अवलोकनं गृहलक्षणानां कार्यमिति ॥ २२॥
तथा-अनेकनिर्गमादिवर्जनमिति ॥२३॥ . अनेके-बहवः ये निर्गमा:-निर्गमद्वाराणि आदिशन्दात् प्रदेशद्वाराणि च तेषां वर्जन-अकरणम्, अनेकेषु हि निर्गमादिषु अनुपलक्ष्यमाणनिर्गमप्रदेशानां तथावलोकानामापाते सम्यगृहरक्षाऽभावेन स्यादिजनस्य विभवस्य च वि
Page #20
--------------------------------------------------------------------------
________________
धर्मविन्दु
सामान्य हिषम
॥८॥
प्लव एव स्यात्, निविडतरगृहद्वाररक्षयैव तेऽनवकाशा भवति, परिमितप्रवेशनिर्गमं च गृहं सुखरक्ष भवतीति ॥२३॥
तथा-विभवाद्यनुरूपो वेषो विरुडत्यागेनेति १० ॥ २४ ॥ विभवादीनां-वित्तवयोऽवस्थान निवासस्थानादीनामनुरूपः-होकपरिहासाधनास्पदतया योग्यः 'वेषः' - खादिनेपथ्यलक्षणा, विरुडस्य-जङ्घार्दोद्घाटनशिरोवेष्टनाश्चलदेशोर्ध्वमुखन्यसनात्य-तगादाङ्गिकालक्षणस्य विटचेष्टास्पष्टतानिमित्तस्य वेषस्यैव त्यागेन-अनासेवनेन, प्रसन्ननेपथ्यो हि पुम न मङ्गलमूर्तिर्भवति मङ्गलाच्च श्रीसमुत्पत्तिः, यथोक्तम्"श्रीर्मङ्गलात्मभवति, प्रागल्भ्याच प्रवर्द्धते । दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति ॥ १७ ॥" मूलमित्यनुबन्धं, पतितिष्ठतीति प्रतिष्ठां लभते ॥ २४ ॥
तथा-आयोचितो व्यय इति ११ ॥२५॥ __ आयस्य-वृद्धयादिप्रयुक्तधनधान्याद्युपचयरूपस्य उचित:-चतुर्भागादितया योग्यः वित्तस्य 'व्ययः' भर्तव्यभरणस्वभोगदेवातिथिपूजनादिप्रयोजनेषु विनियोजनम, तथा च नीतिशास्त्रम-“पादमायान्निधिं कुर्यात्पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं, पादं भर्तव्यपोषणे ॥ १८ ॥ आयादर्द्ध नियुंजीत, धर्म समधिकं ततः। शेषेण शेष कुर्वीत, यनतस्तुच्छमैहिकम् ॥ १९ ॥" आयानुचितो हि व्ययो रोग इव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं करोति, पठ्यते च"आयव्ययमनालोच्य, यस्तु वैश्रवणायते । अचिरेणैव कालेन, सोऽत्र वै श्रवणायते ॥२०॥" २५॥
तथा-प्रसिद्धदेशाचारपालनमिति १२ ॥२६॥
160
Page #21
--------------------------------------------------------------------------
________________
प्रसिद्धस्य - तथाविधापर शिष्टसंमततथा दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजनाच्छादनादिचित्र क्रियात्मकस्य पालनं - अनुवर्त्तनं, अन्यथा तदाचाशतिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेना कल्याणलाभः स्यादिति, पठन्ति चात्र लौकिकाः - यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् । तथापि लौकिकाचारं, मनसाऽपि न लङ्घयेत् ।। २१ ।। " इति ॥ २६ ॥
तथा - ग हितेषु गाढमप्रवृत्तिरिति १३ ॥ २७ ॥
'गहिंतेषु' लोकलोकोत्तरयोरनादरणीय निन्दनीयेषु मद्यमांससेवनपरदाराभिगमनादिषु गाढम् - अत्यर्थं अप्रवृत्तिः - मनोवाक्कायानाम नवतारः, आचारशृद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य महन्माहात्म्यमुत्पद्यते, यथोक्तम्- "न कुलं वृत्तहीनस्य, प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥५२॥ यतः 'निपानमिवे' त्यादि ० (५) २७ ॥ तथा - सर्वेष्ववर्णवाद त्यागो विशेषतो राजादिष्विति १४ ॥ २८ ॥
' सर्वेषु ' जघन्योत्तममध्यमभेदभिन्नेषु प्राणिषु अवर्णवादस्य अप्रसिद्धिप्रख्यापनरूपस्य 'त्याग' परिहारः कार्यः, ‘विशेषतः' अतिशयेन 'राजादिषु' राजामात्य पुरोहितादिषु बहुजनमान्येषु, सामान्यजनापवादे हि स्वस्य द्वेष्यभावो भूयानाविर्भा वितो भवति, यत उच्यते - " न परपरिवादादन्यद् विद्वेषणे परं भैषजमस्ति, " राजादिषु तु वित्तप्राणनाशादिरपि दोषः स्यादिति ॥ २८ ॥
तथा - असदाचारैरसंसर्ग इति ॥ २९ ॥
(69) ***** (6
Page #22
--------------------------------------------------------------------------
________________
सामान्य
कारहिवनः
॥९॥
'असदाचारी' इहलोकपरलोकयोः अहितत्वेन असन्-असुन्दरः आचारः-प्रवृत्तिर्येषां ते तथा ते च युतकारादयः तैः 'असंसर्गः' असंबन्धः, प्रदीपनकाशिवदुर्भिक्षोपहतदेशादीनामिव तेषां दूरतो वर्जनमित्यर्थः॥२९॥ एतदेव व्यतिरेकत आह
संसर्गः सदाचारैरिति ॥ ३०॥ प्रतीतार्थमेव, असदाचारसंसर्गवर्जनेऽपि यदि सदाचारसंसर्गों न स्यात्तदान तथाविधा गुणवृद्धिः संपद्यते इत्येतत्सूत्रमुपन्यस्तम, उक्तं चैतदर्थानुवादि-"यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि । अथासज्जनगोष्ठापु, पतिष्यसि पतिध्यसि ॥ २३ ॥ ३० ॥ इति ॥
तथा-मातापितृपूजेति १६ ॥३१॥ मातापित्रो:-जननीजनकयोः पूजा-त्रिसन्ध्यं प्रणामकरणादि, यथोत्तम्-" पूजनं चास्य विज्ञेय, त्रिसन्ध्यं नमनक्रिया। तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥२४॥ (योग. १११) अस्येति-'माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा।। वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः॥२५॥ (योग, ११०) इति श्लोकोक्तस्य गुरुवर्गस्य, "अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् । नामग्रहश्च नास्याने, नावर्णश्रवणं क्वचित ॥२६॥” (योग. ११२) ३१॥ अथ मातापितृविषयमेवान्य विनयविशेषमाहआमुष्मिकयोगकारणं तदनुज्ञया प्रवृत्तिःप्रधानाभिनवोपनयनं तद्भोगे भोगोऽन्यत्र तदनुचितादिति ॥३२॥
आमुष्मिका:-परलोकप्रयोजना योगा-देवतापूजरादयो धर्मव्यापारा आमुष्मिकयोगारतेषां कारण-स्वयमेवामुष्मिकयोगान्मातापित्रोः कुवतीतिकर्तभावेन नियोजनम, यथा नातः परं भवद्भ्यां कुटुम्बकायषु किश्चिदुत्साहनीयं, केवलं धर्मकर्मपति
Page #23
--------------------------------------------------------------------------
________________
बद्धमानसान्यामनवरतं भाव्यमिति, तथा 'तदनुज्ञया' मातापितृजनानुमत्या 'प्रवृत्तिः' सकलैहिकामुष्मिकव्यापारक रणं, तथा प्रधानस्य-वर्णगन्धादिभिः सारस्य अभिनवस्य च-तत्काल संपनरय पुष्पफलवस्त्रादेवस्तुनः 'उपनयनं' दौकनं मातापित्रोरेव, तथा 'तद्भोगे' मातापितृभोगे अन्नादीनां ‘भोगः ' स्वयमासेवन, अत्रापवादमाह-'अन्यत्र' अन्तरेण 'तनुचितात् ' तयोः-प्रकृतयोरेव मातापित्रोरनुचितात् कुतोऽपि व्रता दिविशेषादिति ॥ ३२॥
तथा-अनुद्वेजनीया प्रवृत्तिरिति ॥ ३३ ॥ स्वपक्षपरपक्षयोः 'अनुवैजनीया' अनुद्वेगहेतु: 'प्रवृत्तिः' कायवाङ्मनश्चेष्टारूपा कार्या, परोदेगहेतोहि पुरुषस्य न कापि समाधिलाभोऽस्ति, अनुरूपफलप्रदत्वात्सर्वप्रवृत्तीनामिति ॥ ३३ ॥
श-मध्यभरणमिति १७॥ ३४ मतच्याना-भर्तु शक्यानां मातापितृसमाश्रित जनलोकतथाविधभृत्यप्रभृतीनां 'भरण' पोषणं भर्तव्यभरणं, तत्र त्रीणि अवश्य भर्तव्यानीति-मातापितरौ सतो भार्या उलब्धवलानि चापत्यानि, यत उक्तम्-“डौ च मातापितरौ, सती भाया सुतान् शिशून अप्यकर्मशतं कृत्वा, भर्तव्यान् मनुरवीत ॥२७॥" विभवसंपत्तौ चान्यान्यपि, अत्राप्युक्तम्-"चत्वारि ते तात ! गृहे वसन्तु, श्रियाभिजुष्टस्य गृहस्थधर्म । सखा दरिद्रो भगिनी व्यपत्या, ज्ञातिश्च वृद्धो विधनः कुलीन: |॥ २८ ॥३४॥ इति
तथा-तस्य यथोचितं विनियोग इति ॥ ३५॥
Page #24
--------------------------------------------------------------------------
________________
धर्मबिन्दु
सामान्य गृहिधर्म
अ.१ ॥१०॥
'तस्य' भर्तव्यस्य भृतस्य सतः 'यथोचितं' यो यत्र धर्म कर्मणि वा समुचितः तस्य तत्र 'विनियोगः' व्यापारणं, अव्यापारिता हि परिवारः समुचितानुष्ठानेषु निर्विनोदतया द्यूतादिव्यसनमप्यभ्यस्येत् निष्फलशक्तिक्षयाचाकिचित्करत्वेनावस्त्वपि स्यात् , एवं चासौ नानुगृहीतः स्यादपि तु विनाशित इति ॥५॥
तथा-तत्प्रयोजनेषु बद्धलक्षतेति ॥३६॥ तस्य-भर्तव्यस्य प्रयोजनेषु-धर्मार्थकामगोचरेषु चित्ररूपेषु 'बद्धलक्षता' नित्योपयुक्तचित्तता, ते हि तस्मिंश्चिन्ताकरे नित्यं निक्षिप्तात्मानः तेनाचिन्त्यमानप्रयोजनाः सीदन्तोऽप्रसन्नमनस्कतया न स्वनिरूपितकार्यकरणक्षमाःसंपद्यन्ते इति ॥३६॥
तथा-अपायपरिरक्षोद्योग इति ॥३७॥ तस्यैव भतव्यस्य अपायेभ्यः-अनर्थेभ्यः ऐहिकामुष्मिकेभ्यः परिरक्षा-सर्वतस्त्राणं तत्र 'उद्योगो' महानुद्यमः, | एवं हि भर्तव्यान प्रति तस्य नाथत्वं स्याद् याद सोऽलब्धलाभलक्षणं भरणं [योग] लब्धरक्षारूपं च क्षेमं कर्तुं क्षमः स्यात, योगक्षेमकरस्यैव नाथत्वादिति ॥ ३७॥
तथा-गये ज्ञानस्वगौरवरक्षे इति ॥ ३८॥ 'गाँ' गर्हणीये कुतोऽप लोकविरद्धाद्यनाचारासेबनाचिन्द नीयता प्राप्ते भर्तव्ये सामान्यतो वा सर्वस्मिन् जने कि विधेय मित्याह-'ज्ञान' संशयविपर्ययानध्यबसायपरिहारेण यथावत्स्वरूपनिश्चयः, [इदमित्थमिदमित्थं न वेति परस्परविरुडार्थतया द्विविधं ज्ञानं सश्यः, 'यथाऽमात्मा किंवा शरीरं' इत्यादि, इदमिरथमेवेति वस्तुस्वरूपाविरुद्धतयैकरूपज्ञानं विपर्यय:,
॥१०॥
Page #25
--------------------------------------------------------------------------
________________
'यथाऽहं शरीरमेव' इत्यादि, इदं किमप्यस्तीति निर्धाररहित विचारणेत्यनध्यवसाय:, 'यथाऽहं कोऽप्यस्मि' इत्यादि, स्वगौरवरक्षा-स्वेन-आत्मना गौरव-पुरस्करणं स्वगौरवं तस्य रक्षा-निवारणं, ततो ज्ञानं च स्वगौरवरक्षा च ज्ञानस्वगौरवरक्षे कर्तव्ये, गयो ह्यर्थः सम्यग् ज्ञातव्यः प्रथमतः, ततोऽनुमति दोषपरिहाराय सर्वप्रकारैर्न पुरस्कारस्तस्य कर्तव्य इति ॥३८॥
तथा-देवातिथिदीनप्रतिपत्तिरिति १८॥ ३९॥ दीव्यते-स्तूयते भक्तिभर निर्भरामरप्रभुप्रभृतिभिर्भध्यैरनवरतमिति देवः, स च क्लेशकर्मविपाकशतैरपरामृष्टः पुरुषविशेषः, तस्यवैतानि नामानि-"अर्हनजोऽनन्तः शम्भुर्बुद्धरतमोऽन्तकः” इति, न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादि दिनविभागो येषां ते अतिथयः, यथोक्तम्-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागत विदुः॥२९॥" दीनाः पुनः “दीङ्क्षये " इति वचनात् क्षीणसकलधर्मार्थकामाराधनशक्तयः, ततः देवातिथिदीना नां प्रतिपत्ति:-उपचारः पूजान्नपानदानादिरूपः देवातिथिदीनप्रतिपत्तिः॥ ३९॥ तत्र च
तदौचित्यायाधनमुत्तमनिदर्शनेनेति ॥४०॥ तेषां-देवादीनामौचित्यं-योग्यत्वं यस्य देवादेरुत्तममध्यमजघन्यरूपा या प्रतिपत्तिरित्यर्थः तस्य 'अबाधनं' अनु-| लङ्घन, तदुल्लङ्घने शेषाः सन्तोऽपि गुणा असन्त इव भवन्ति, यत उत्तम्-"औचित्यमेकमेकत्र, गुणानां राशिरकतः। विषायते गुणग्राम, औचित्यपरिवाजतः॥३०॥” इति, कथं तदौचित्यावाधनमित्याह-'उत्तमनिदर्शनेन' अतिशयेन शेषलोका_ वन्त इत्युक्तमाः ते च प्रकृत्यैव परोपकरणप्रियभाषणादिगुणर्माणमकराकरोपभाना मानवाः तेषां निदर्शनम्-उदाहरणं तेन,
पादिगणपत्याबायनमिक भौचित्याचरित्यर्थः ।
Page #26
--------------------------------------------------------------------------
________________
धर्मविन्द
सामान्य
अ.१
पहिधर्म
उत्तमनिदर्शनानुसारिणो हि पुरुषा उदासात्मतया न रवमेऽपि विकृतप्रकृतयः संभवन्ति, इय च देवादिप्रतिपत्तिनित्यमेवोचिता | विशेषतश्च भोजनावसर इति ॥ ४०॥
तथा-सात्म्यतः कालभोजनमित्ति १९ ॥४१॥ _ 'पानाहारादयो यस्य, विरुद्धाः प्रकृतेरपि । मुख्खिायावलोक्यन्ते, तत्सात्म्यमिति गीयते ॥३१॥ इत्येवलक्षणात सात्म्यात् काले-बुभुक्षोदयावसरलक्षणे भोजन-अन्नोपजीवनं कालभोजनं, अयमभिप्राय:-आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति, परम सात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्य, सर्व बलवतः पथ्यमिति मत्वा न कालकूट खादेव, सुशिक्षितो हि विषतन्त्रज्ञो म्रियते एव कदाचिद्विषात, तथा अक्षुधितेनामृतमप्युपभुक्तं भवति विष, वथा क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति, विध्यातेऽनौ किं नामेन्धनं कुर्यादिति ॥४१॥
तथा-लौल्यत्याग इति २०॥ ४२ ॥ सात्म्यतः कालभोजनेऽपि लौल्यस्य-आकाङ्क्षातिरेकादधिकभोजनलक्षणस्य त्यागः, यतः यो मितं भुङ्क्ते स बहु भुक्ते, अतिरिक्तभुक्तं हि उद्वामनहादनमारणानामन्यतमदसंपाद्य नोपरमं प्रतिपद्यते, तथा भुञ्जीत यथा सायमन्येधुश्च न विपद्यते वहुनिः, न भुक्तः परिमाणे सिद्धान्तोऽस्ति, वहनथभिलाषायत्तं हिभोजनं, अतिमात्रभोजी देहमग्निं च विधुरयति, तथा दीप्तोऽग्निर्ल घुभोजना देहपलं क्षपयति, अत्यकिदुःखेन परिणामः, श्रमार्गस्य पानं भोजनं वा नियमात् ज्वराय छर्दिषे वा स्यात् ॥४२॥
Page #27
--------------------------------------------------------------------------
________________
* 169) ***16)*%* 169) ***#*#469004
तथा - अजीर्णे अभोजनमिति २१ ॥ ४३ ॥
मागुपभुक्तस्य आहारस्य
'अजीर्णे' अजरणे जीर्णे वा तत्र परिपाकमनागते ' अभोजनं ' सर्वथा भोजनपरिहारः, अजीर्णभोजने हि अजीर्णस्य सर्वरोगमूलस्य वृद्धिरेव कृता भवति, पठ्यते च - "अजीर्णप्रभवा रोगास्तत्राजीर्ण चतुर्वि धम् । आम विदग्धं विष्टब्धं, रसशेषं तथापरम् ॥३२॥ आमे तु द्रवगन्धिलं, विदग्धे धूमगन्धिता । विष्टब्धे गात्रभङ्गोऽत्र, रसशेषे तु जाता ॥ ३३ ॥ द्रवगन्धित्वमिति द्रवस्य- गूथस्य कुथिततक्रादेरिव गन्धो यस्यास्ति तत्तथा तद्भावस्तत्वमिति, मलवाartist fast गात्रगौरवमरुच्यम् । अविशुद्धवोद्गारः षडजीर्णव्यक्त लिङ्गानि ॥ ३४ ॥ मूर्च्छा मलापो वमथुः प्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते, मरणं वाऽप्यजीर्णतः ॥३५॥ प्रसेक इति - अधिकनिष्ठीवनमवृत्तिः, सदनमिति - अङ्गग्लानिः इति ॥ ४३ ॥
तथा - बलापाये प्रतिक्रियेति २२ ॥ ४४ ॥
बलस्य - शरीरसामर्थ्यलक्षणस्य अपाये -कथंचिद् हासे सति ' प्रतिक्रिया' तथाविधात्यन्तपरिश्रमपरिहारेण स्निग्धाल्पभोजनादिना च प्रकारेण प्रतिविधानं बलापायस्यैव, " बलमूलं हि जीवन" मितिवचनाद, बलमुचितमपातयता स सर्वकाय यतितव्यम्, अथ कथंचित् कदाचिद्वलापेतोऽपि कश्चिद् भवेत्तदा " विष व्याधिरूपेक्षित " इति वचनात् सद्य एवासौ प्रतिविधेयो न पुनरुपेक्षितव्य इति ॥ ४४ ॥
तथा - अदेशकालचर्यापरिहार इति २३ ॥ ४५ ॥
Page #28
--------------------------------------------------------------------------
________________
धर्मविन्दु अ. १ ॥१२॥
सामान्य हिषय
देशकाल:-प्रस्तावः तत्र चर्या देशकालचर्या तत्पतिषेधात् अदेशकालचर्या तस्याः परिहार, अदेशकालचर्यापरो हि नर तयाविधचौरायुपद्रवजातविषयतया इहपरलोकानर्थयोनियमादास्पदीभवति ॥ ४५ ॥
तथा-यथोचितलोकयात्रेति २४ ॥ ४६॥ - यथोचित-या यस्योचिता लोकयात्रा-लोकचित्तानुवृत्तिरूपो व्यवहारः सा वि ., ययोचितलोकयात्रातिक्रमे हि लोकचित्तविराधनेन तेषामात्मन्यनादेयतापरिणामापादनेन स्वलाघवमेवोत्पादितं भवति, एवं चान्यस्यापि सम्यगाचारस्य स्वगतस्य लघुत्वमेवोपनीतं स्यादिति, उक्तं च-"लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्ध च संत्याज्यम् ॥ ३६” (प्रशम० ५३१) ॥४६॥
तथा-हीनेषु हीनक्रम इति ॥४७॥ होनेषु' जातिविद्यादिभिः गुणः स्वकर्मदोषान्नीचतां गतेषु लोकेषु 'हीनक्रमः' लोकयात्राया एव तुच्छताकरणरूपः, हीना अपि लोकाः किंचिदनुवर्तनीया इत्यर्थः, ते हि हीनगुणतयाऽऽत्मानं तथाविधप्रतिपत्तेरयोग्यं संभावयन्तो यया कयाचिदपि उत्तमलोकानुवृत्त्या कृतार्थ मन्यमानाः प्रमुदितमानसा भवन्तीति ॥ ४७॥
तथा-अतिसङ्गवर्जनमिति २५॥४८॥ अतिसङ्गस्य-अतिपरिचयलक्षणस्य सर्वैरेव सार्दै वर्जन-परिहरणं, यतः अतिपरिचयाद् भवति गुणवत्यप्यनादरः, पठ्यते च-"अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः। लोकः प्रयागवासी कूपे स्नानं सदा कुरुते ॥३७॥ ४८॥
॥१२॥
Page #29
--------------------------------------------------------------------------
________________
(69) 130** (69) 696004
तथा - वृत्तस्थज्ञानवृद्धसेवेति २६ ॥ ४९ ॥
वृत्तं - असदाचारनिवृत्तिः सदाचारप्रवृत्तिश्र, ज्ञानं पुनः - हेयोपादेयवस्तु विभागनिश्रयः ततः वृत्ते तिष्ठन्तीति वृत्तस्था: ज्ञानेन वृद्धा - महान्तः ज्ञानवृद्धाः वृत्तस्थाथ ते ज्ञानवृद्धाथ वृत्तस्थज्ञानवृद्धाः तेषां सेवा - दरिद्रेश्वरसेवाज्ञातसिद्धाऽऽराधना, सम्यग्ज्ञानक्रियागुणभाजो हि पुरुषाः सम्यक् सेव्यमाना नियमात्सदुपदेशादिफलैः फलन्ति यथोक्तम्- "उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् ॥ ३८ ( शास्त्रवार्त्ता. ८ ) ४९ ॥
तथा - परस्परानुपघातेनान्योऽन्यानुबद्ध त्रिवर्गप्रतिपत्तिरिति २७ ॥ ५० ॥
इह धर्मार्थकामार्गः, तत्र यतोऽभ्युदयनिःश्रेयस सिद्धिः स धर्मः, यतः सर्वप्रयोजन सिद्धिः सोऽर्थः यतः आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः, ततः परस्परस्य - अन्योऽन्यस्य अनुपघातेन - अपीडनेन, अत एव अन्योऽन्यानुबद्धस्य - परस्परानुबंधप्रधानस्य त्रिवर्गस्य प्रतिपत्तिः- आसेवनं, तत्र धर्मार्थयोरुपघातेन तादाखिकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् ?, धर्मातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधाद् बीजभोजिनः कुटुम्बिन इव, नास्त्यधार्मिकस्यायत्यां किमपि कल्याणं, स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवति, तस्माद्धर्माबाधनेन कामार्थयोर्मतिमता यतितव्यम्, यस्त्वर्थकामावुपहत्य धर्ममेवोपास्ते तस्य यतित्वमेव श्रेयो न तु गृहवास इति, तस्यार्थकामयोरप्याराधनं श्रेय इति, तथा तादाविकमूलहरकदर्याणां नासुलभः प्रत्यवायः, तत्र यः किमप्यचिन्त्योत्पन्नमर्थमपव्येति स तादाखिकः, यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः, यो भृत्यात्मपीडाभ्या
森本 ** 本品 本章众安中
Page #30
--------------------------------------------------------------------------
________________
वर्मबिन्दु अ.१||
सामा राहिधर्म:
॥रशा
मर्थ संचिनोति न तु कचिदपि व्ययते स कदर्यः, तादात्विकमूलहरयोरायत्यां नास्ति कल्याणं, किंत्वर्थभ्रंशेन धर्मकामयोविनाश एव, कदर्यस्य त्वर्थसंग्रहो राजदायादतस्कराणामन्यतमस्य निधिः, न तु धर्मकामयोहतुः, अत एतत्पुरुषत्रयप्रकृतिपरिहारेण मतिमता अर्थोऽनुशोलनीयः, तथा-नाजितेन्द्रियस्य कापि कार्यसिद्धिरस्ति, न कामासक्तस्य समस्ति चिकित्सितं, न तस्य धनं धर्मः शरीरं वा यस्य स्त्रीष्वत्यन्तासक्तिः, विरुद्ध कामवृत्तिनं स चिरं नन्दति, अतो धर्मार्थावाधनेन कामे प्रवर्तितव्यमिति पर्यालोच्य परस्पराविरोधेन धर्मार्थकामासेवनमुपदिष्ट मति ॥५०॥
तथा अन्यतरबाधासंभवे मूलाबाधेति ॥५१॥. अमोषां धर्मार्थकामानां मध्ये अन्यतरस्य-उत्तरोत्तरलक्षणस्य पुरुषार्थस्य बाधासंभ कुतोऽति विषमप्रघ- | दृकवाद्विरोधे संपद्यमाने सति, किं कर्तव्यमित्याह-'मूलायाधा' यो यस्य पुरुषार्थस्य "धर्मार्थकामाः त्रिवर्गः" इति क्रममपेक्ष्य मूल-आदिमस्तस्य अबाधा-अपीडनं, तत्र कामलक्षणपुरुषार्थवाधायां धर्मार्थयोर्वाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् , कामार्थयोस्तु बाधायां धर्म एव रक्षणीयः, धर्ममूलत्यादर्थकामयोः, अत एवोक्तम्-"धर्मश्चेन्नावसोदेत, कपालेनापि जोवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ ३९ ॥" ५१ ॥ इति ।
तथा-बलाबलापेक्षणमिति २८ ॥५२॥ इह बुद्धिमता मनुजेन सर्वेष्वपि कार्येषु प्रवृत्तिमादधता सता बलस्य-द्रव्यक्षेत्रकालभावकृतस्य आत्मसामर्थ्यस्य अबलस्य च-तद्विलक्षणस्य अपेक्षणं-आलोचनं अङ्गीकर्तव्यं, अयथावलमारम्भस्य क्षयसंपदेकनिमित्तत्वाद्, अत एव पठ्यते च-"क:
|॥१॥
Page #31
--------------------------------------------------------------------------
________________
भवपरिणामेन कार्यस्यारम्भोऽभिनिवेशः, नीचलक्षणं चेदं यत्नोतिमतीतस्यापि कार्यस्य चिकीर्षणं, पठन्ति च-"दर्पः श्रमयति नीचानिष्फलनयविगुणदुष्करारम्भैः । स्रोतोविलोमतरणैर्व्यसनिभिरायास्यते मत्स्यैः॥४३॥"५६॥
तथा-गुणपक्षपातितेति ३२॥५७॥ गुणेषु-दाक्षिण्यसौजन्यौदार्यस्थैर्यपियपूर्वाभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपातिता-बहुमानतत्पशंसासाहाय्यकरणादिनाऽनुकूला प्रवृत्तिः, गुणपक्षपातिनो हि जीवा बहुमानद्वारोपजातावन्ध्यपुण्य प्रबन्धसामर्थ्या नियमादिहामुत्र च शरच्छशधरकरनिकरगौरं गुणग्राममवश्यमवाप्नुवन्ति, तद्बहुमानाशयस्य चिन्तारत्नादप्यधिकशक्तियुक्तत्वात् ॥५७॥
तथा-ऊहापोहादियोग इतीति ३३ ॥५८॥ जहचापोहच आदिशब्दात्तत्त्वाभिनिवेशलक्षणो बुद्धिगुणः शुश्रूषाश्रवणग्रहणधारणाविज्ञानानि च गृह्यन्ते इत्यष्टौ बुद्धिगुणा:, तत ऊहापोहादिभिर्योगः-समागमोऽनुष्ठेय इति, तत्र प्रथमतस्तावच्छ्रोतुमिच्छा शुश्रूषा, श्रवणमाकर्णनं, ग्रहण-शास्त्रार्थोपादान, धारणा-अविस्मरणं, मोहसंदेह विपर्यासव्युदासेन ज्ञानं विज्ञान, विज्ञातमर्थपालम्ब्यान्येषु व्याप्त्या तथाविधेषु वितर्कणमूहः, उक्तियुक्तिभ्यां विरुद्धादर्थादिसादिकात्मत्यपायसंभावनया व्यावर्तनमपोहः, अथवा-सामान्यज्ञानमूहः विशेषज्ञानमपोहा, विज्ञानोहापोहविशुद्धमिदमित्यमेवेति निश्चयः तचाभिनिवेशः, एवं हिशुश्रूषादिभिर्बुद्धिगुणैरुपतिप्रज्ञाप्रकर्षः पुमान्न कदाचिदकल्याणमामोति, यदुच्यते-"जीवन्ति शतशः पाज्ञाः, प्रज्ञया वित्तसंक्षये । न हि प्रज्ञाक्षये कश्चिद्वित्ते सत्यपि जीवति ॥४४" इति ॥ इतिशब्दः प्रस्तुतस्य सामान्यतो गृहस्थधर्मस्य परिसमाप्त्यर्थ इति ॥५८॥ इत्यं सामान्यतो गृहस्थधर्म
Page #32
--------------------------------------------------------------------------
________________
॥१४॥
कालः कानि मित्राणि, को देश को व्ययागमौ ? | कश्चाई का च मे शक्तिरिति चिन्त्यं मुहर्मुहुः॥४०॥" ५२॥
तथा-अनुबन्धे प्रयत्न इति ॥५३॥ 'अनुबन्धे' उत्तरोत्तरवृद्धिरूपे धर्मार्थकामानां 'प्रयत्न' यत्नातिरेका कार्यः, अनुबन्धशून्यानि हि प्रयोजनानि वन्ध्याः स्त्रिय इव न किञ्चिद् गौरवं लभन्ते अपि तु हीलामेवेति ॥ ५३॥
तथा-कालोचितापेक्षेति २९ ॥५४॥ यद्यत्र काले वस्तु हातमुपादातुं वोचितं भवति तस्यात्यन्तनिपुणबुद्धया पर्यालोच्य 'अपेक्षा' अङ्गीकारः कर्त्तव्या. 10 दक्षलक्षणत्वेनास्याः सकलश्रीसमधिग महेतुत्वात् , अत एव पट यते च-"य: काकिणीमध्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । कालेन कोरोष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः॥४१॥" मुत्कहस्त इति मुत्कलहस्तः ॥ ५४॥
तथा-प्रत्यहं धर्मश्रवणमिति ३० ॥५५॥ 'प्रत्यहं प्रतिदिवस धर्मस्य-इहैव शास्त्रे वक्तं प्रस्तावितस्य कान्तकान्तासमेतयुवजनकिन्नरारब्धगीताकर्णनोदाहरणेन श्रवणम्-आकर्णनं, धर्मशास्त्रश्रवणस्यात्यन्तगुणहेतुत्वात् , पठ्यते च-"क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुध्यते मृढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः॥ ४२ ॥"५५॥ .
तथा-सर्वानभिनिवेश इति ३१ ॥५६॥ सर्वत्र कार्य प्रवर्त्तमानेन बुद्धिमता 'अनभिनिवेश:' अभिनिवेशपरिहारः कार्यः, नीतिमार्गमनागतस्यापि पराभि- ॥१४॥
Page #33
--------------------------------------------------------------------------
________________
उक्तः, अथास्यैव फलमाहएवंस्वधर्मसंयुक्तं, सद्गार्हस्थ्यं करोति यः। लोकदयेऽप्यसौ धीमान्, सुखमाप्नोत्यनिन्दितम् ॥४॥
एवम्-उक्तन्यायेन यः स्वधर्म:-गृहस्थानां संबन्धी धर्मः तेन संयुक्त-समन्वितं अत एव सत्-सुन्दरं गार्हस्थ्यगृहस्थभावं 'करोति' विदधाति यः कश्चित्पुप्यसंपन्नो जीवः 'लोकद्वयेऽपि' इहलोकपरलोकरूपे, किं पुनरिहलोक एवेत्यपिशब्दार्थः, 'असौ' सद्गाईस्थ्यकर्ता धीमान् ' प्रशस्तबुद्धिः 'सुखं 'शर्म 'आप्नोति' लभते 'अनिन्दितं' शुभानुबन्धितया मुधियामगईणीयमिति ॥ ४॥ यत एवं ततोऽत्रैव यत्नो विधेय इति श्लोकद्वयेन दर्शयन्नाह
दुर्लभं प्राप्य मानुष्यं, विधेयं हितमात्मनः। करोत्यकाण्ड एवेह, मृत्युः सर्व न किञ्चन ॥५॥ सत्येतस्मिन्नसारासु, संपत्स्वविहिताग्रहः । पर्यन्तदारुणासूच्चैधर्मः कार्यों महात्मभिः॥६॥ इति ॥
'दुर्लभ' दुरापं प्राप्य' समासाद्य 'मानुष्यं' मनुष्यजन्म, किमित्याह--'विधेयं' अनुष्ठेयं सर्वावस्थासु 'हितं' अनुकूलं कल्याणमित्रयोगादि 'आत्मनः' स्वस्य, यतः करोति 'अकाण्डे एव'मरणानवसरे एव बाल्ययौवनमध्यमवयोऽवस्थारूपे 'इह' मर्त्यलोके 'मृत्युः' यमः, 'सर्व' पुत्रकलत्रविभवादि न किचन' मरणत्राणाकारणत्वेनावस्तुरूपमिति ॥५॥'सति' विद्यमाने जगत्रितयवर्तिजन्तुजनितोपरमे 'एतस्मिन् ' मृत्यावेव 'असारासु' मृत्युनिवारणं प्रति अक्षमासु 'संपत्सु' धनधान्यादिसंपत्तिलक्षणामु 'अविहिताग्रह' अकृतमूर्छ:, कीदृशीषु संपत्स्वित्याह'पर्यन्तदारुणासु' विरामसम यसमर्पितानेकव्यसनशतामु ' उच्चैः' अत्यर्थं 'धर्म' उक्तलक्षणः 'कार्यः' विधेयः, कैरि
Page #34
--------------------------------------------------------------------------
________________
धर्मविन्दु
अ.२ |
त्याह-'महात्मभिः' महान्-प्रशस्य आत्मा येषां ते तथा तैरिति ॥६॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुमकरणविवृत्ती सामान्यतो गृहस्थधर्मविधिर्नाम प्रथमोऽध्यायः समाप्तः ॥१॥
व्याख्यातः सामान्यगृहस्थधर्मस्वरूपनिवेदकः प्रथमोऽध्यायः।
विशेषविधर्म
अथ द्वितीयोऽध्यायः। साम्पतं द्वितीयो व्याख्यायते, विशेषसंबन्धश्चास्य स्वयमेव शास्त्रकृता भणिष्यत इति नेह दर्श्यते, एवमन्येष्वप्यध्यायेविति, तस्य चेदमादिसूत्रम्प्रायः सद्धर्मबीजानि, गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि, यथा बीजानि सक्षितौ ॥७॥ इति ॥
'प्रायो' बाहुल्येन 'सद्धर्मबीजानि' सद्धर्मस्य-सम्यगज्ञानदर्शनचारित्ररूपस्य बीजानि-कारणानि, तानि चामूनि-'दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यासेवनं चैव, सर्वत्रवाविशेषतः॥ ४५ ॥ इति ॥ 'गृहिषु' गृहस्थेष 'एवंविधेषु' कुलक्रमागतानिन्द्यन्यायानुष्ठानादिगुणभाजनेषु 'अलं' स्वफलावन्ध्यकारणत्वेन अत्यर्थं 'रोहन्ति' धर्मचिन्तादिलक्षणाङ्करादिमन्ति जायन्ते, उक्तं च-"वपनं धर्मबीजस्य, सत्पशंसादि तद्गतन। तच्चिन्ताद्यङ्करादि स्यात्फलसिद्धिस्तु | निवृतिः॥४६॥ चिन्तासच्छ्रत्यनुष्ठानदेवमानुषसंपदः। क्रमेणाङ्कुरसत्काग्डनालपुष्पपमा मता॥४७॥" (ललित.) कीदृशानि
Page #35
--------------------------------------------------------------------------
________________
सन्ति रोहन्तोत्याह-विधिना' देशनाईबालादिपुरुषौचित्यलक्षणेन 'उतानि' निक्षिप्तानि 'यये ति दृष्टान्तार्थः 'बीजानि' शालिगोधमादीनि 'सत्क्षितो' अनुपहतभूमौ विधिनोप्तानि सन्ति, पायोग्रहणादकस्मादेव पक्कतथाभव्यत्वे कचिन्मरुदेव्यादौ अन्यथाभावेऽपि न विरोध इति ॥७॥ अमुमेवार्थ व्यतिरेकत आहबीजनाशो यथाऽभूमौ, प्ररोहो वेह निष्फलः । तथा सद्धर्मबोजानामपात्रेषु विदुर्बुधाः॥८॥
'बीजनाशो' बीजोच्छेदो यथा 'अभूमौ' उपरादिरूपायां'प्ररोहः' अङ्करायुभेदः बीजस्यैव 'वा' इति पक्षान्तरसूचका 'इह' जगति 'निष्फलो' न्यादिनिष्पत्तिलक्षणफलविकलः तथा 'सद्धर्मबीजानां' उक्तलक्षणानां गुरुणा अनाभोगादिभिर्निक्षिप्यमाणानां 'अपात्रेषु' अनीतिकारिषु लोकेषु 'विदुः' जानते बुधाः नाशं निष्फलं वा प्ररोहमिति ॥८॥ किमित्यपात्रेषु धर्मबोजनाशो निष्फलो वा प्ररोहः संपद्यते इत्याहन साधयति यः सम्यगज्ञः स्वल्पं चिकीर्षितम् । अयोग्यत्वात्कथं मूढः, स महत्साधयिष्यति?॥९॥ इति।
'न' नैव 'साधयति' निर्वतयति 'यो' जोवः 'सम्यग्' यथावत् 'अज्ञा' हिताहितविभागाकुशलः 'स्वल्पं" तुच्छं 'चिकीर्षितं ' कर्तुमिष्टं निर्वाहाधनुष्ठानाद्यपि, कस्मान्न साधयतीत्याह-'अयोग्यत्वात्' अज्ञत्वेनानधिकारित्वात् , यथोक्तं-" मूर्खस्य कचिदर्थे नाधिकार" इति, 'कथं ' केन प्रकारेण 'मूढो' वैचित्यमागतः 'स' पूर्वोक्तो जीवः 'महत्' परमपुरुषार्थतया बृहद्-धर्मबीजारोहणादि साधयिष्यति ?, सर्पपमात्रधरणासमर्थस्य मेरुगिरिधरणासमर्थत्वादिति ॥९॥
इति सहर्मदेशनाई उक्तः, इदानीं तद्विधिमनुवर्तयिष्याम इति ॥१॥(५९)
Page #36
--------------------------------------------------------------------------
________________
नि
धर्यबिन्द
ब.२ ॥१६॥
_ 'इति एवं पूर्वोक्तगृहस्थधर्मनिरूपणेन 'सडर्मदेशनाहाँ' लोकोत्तरधर्मप्रज्ञापनायोग्यः 'उक्त' भणिवा, 'इदानीं सम्पति 'तविधि' सद्धर्मदेशनाक्रमं 'वर्णयिष्यामः' निरूपयिष्यामो वयमिति ॥ १॥ तद्यथा
तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति ॥२॥ (६०) तरय-सद्धर्मदेशनाईस्य जन्तोः प्रकृति:-रवरूपं गुणवल्लोकसङ्गपियत्वादिका देवताधिमुक्तिश्च-युद्धकपिलादिदेवताविशेषमुक्तिः तयोनि प्रथमतो देशवेन कार्य, ज्ञातप्रकृतिको हि पुमान रक्तो विष्टो मूढः पूर्वव्युद्ग्राहितश्च चेन भवति तदा कुशलैस्तथाऽ नुवयं लोकोत्तरगुणपात्रतामानीयते, विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीत मार्गानुसारिवचनोपदर्शनेन तपणेन च सुखमेव मार्गेऽवतारयितुं शक्यते इति ॥२॥
तथा-साधारणगुणप्रशंसेति ॥३॥ (६१) साधारणानां-लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा-पुरस्कारः देशनाईरय अग्रतः विधेया, यथा-"प्रदान | प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्या निरभिभवसाराः परकयाः, श्रते चासंतोषः कथमनभिजाते निवसति ? ॥४८॥ (शिखरिणीवृत्तम् )॥३॥
तथा-सम्यक् तदधिकाख्यानमिति ॥४॥ (६२) सम्यग्-अविपरीतरूपतया तेभ्यः-साधारणगुणेन्यः अधिका-विशेषवन्तः ये गुणाः तेषामाख्यान-कथनम्, यथा"पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् अहिंसा सत्यमरदेयं, त्यागो मैथुनवर्जनम् ॥ ४८ ॥” (अष्टकेषु) ४॥
॥१६॥
Page #37
--------------------------------------------------------------------------
________________
040-459) 4000412469) ****#4659100*400-100
तथा - अबोधेऽप्यनिन्देति ॥ ५ ।। (६३)
'अबोधेऽपि ' अनवगमेऽपि सामान्यगुणानां विशेषगुणानां वा व्याख्यातानामप्यनिन्दा - अहो मन्दबुद्धिर्भवान् य इत्थमाचक्षाणेष्वपि अस्मासु न बुध्यते वस्तुतच्वमित्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किञ्चिद् बुभुत्सुः अपि सन् दूरं विरज्यत इति ॥ ५ ॥ तर्हि किं कर्तव्यमित्याह
शुश्रूषाभावकरणमिति ॥ ६ ॥ (६४)
धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा तल्लक्षणो भावः परिणामः तस्य करणं - निर्वर्तनं श्रोतुस्तैस्तैर्वचनैरिति, शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युत अनर्थं संभवः, पठ्यते च - " स खलु पिशाचकी बातकी वा यः परेऽनर्थिनि वाचमुदीरयते " ॥ ६ ॥
भूयो भूयः पुनः पुनः दृढसंनिपात रोगिणां पुनः पुनः
तथा - भूयो भूय उपदेश इति ॥ ७ ॥ (६५)
उपदिश्यते इत्युपदेशः- उपदेष्टुमिष्टो वरतृविषयः कथञ्चिदनवगमे सति कार्यः, किं न क्रियन्ते क्रियाः विक्तादिकाथपानोपचारा इति ॥ ७ ॥ तथा - बोधे प्रज्ञोपवर्णनमिति ॥ ८ ॥ (६६)
' बोधे ' सकृदुपदेशेन भूयो भूय उपदेशेन वा उपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः 'प्रज्ञोपवर्णनं ' बुद्धिप्रशंसनं, यथा नालघुकर्माणः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति ॥ ८ ॥
3- 40*409) 120234691-80954001 2000 19
Page #38
--------------------------------------------------------------------------
________________
धर्मविन्द
अ. २ ॥१७॥
तथा - तन्त्रावतार इति ॥ ९ ॥ (६७)
तन्त्रे-आगमे अवतारः-प्रवेशः आगमबहुमानोत्पादनद्वारेण तस्य विधेयः, आगमबहुमानश्चैवमुत्पादनीयः- “ परलोकविधौ शास्त्रात्मायो नान्यदपेक्षते । आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः ॥ ४९ ॥ उपदेशं विनाऽप्यर्थकामौ प्रति पदुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ||५०॥ अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात्परः ॥५१॥ तस्मात्सदैव धर्मार्थी, शास्त्रयत्नः प्रशस्यते । लोके मोहान्धकारेऽस्मिन्, शास्त्रालोकः प्रवर्तकः ॥५२॥ 'शास्त्रयत्न' इति शास्त्रे यत्नो यस्येति समासः । पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥ ५३॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । अन्धमेक्षाक्रियातुल्या, कर्मदोषादसत्फला ॥५४॥ यः श्राद्धो मन्यते मान्यान्, अहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥ ५५ ॥ यस्य त्वनादरः शास्त्रे, तस्य श्रद्धादयो गुणाः। उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥ ५६ ॥ मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शाधनम् । अन्तःकरणरत्नस्यतथा शास्त्रं विदुर्बुधाः ॥ ५७ ॥ शास्त्रे भक्तिर्जगद्वन्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः ॥ ५८ ॥ (योग. २२१-३०) [ अत्रैव इति मुक्तौ एव । इयमिति शास्त्रभक्तिः । तत्प्राप्त्यासन्नभावत इति - मुक्तिप्राप्तिसमीपभावात् ॥] ९ । तथा - प्रयोग आक्षेपण्या इति ॥ १० ॥ (६८)
प्रयोगो - व्यापारणं धर्मकथाकाले आक्षिप्यन्ते - आकृष्यन्ते मोहात्तवं प्रति भव्यप्राणिनः अनयेत्याक्षेपणी तस्याः कथायाः, सा च आचारव्यवहारप्रज्ञप्तिदृष्टिवादभेदाच्चतुर्धा, तत्राचारो - लोचास्नानादिसाधु क्रियारूपः व्यवहारः - कथञ्चिदाप
विशेषगृहधर्मः
॥१७॥
Page #39
--------------------------------------------------------------------------
________________
ज्ञानाद्याचारकरचारित्राचारस्तव्यजनार्थतदुभ
नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिः-संशयापन्नस्य मधुरवचनैः प्रज्ञापनं दृष्टिवादश्च--श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनमिति ॥१०॥
तथा-ज्ञानाद्याचारकथनमिति ॥११॥ (६९) ज्ञानस्य-श्रुतलक्षणस्य आचारःज्ञानाचारः, आदिशब्दाद्दर्शनाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, ततो ज्ञानाद्याचाराणां कथन-प्रज्ञापनमिति समासः, तत्र ज्ञानाचारोऽष्टधा-कोलविनयबहुँमानोपानानिह्नवव्यजनार्थतदुर्भयभेदलक्षणः, तत्र काल इति यो यस्य अगाविष्टादेः श्रुतस्य काल उक्तः तस्मिन्नेव तस्य स्वाध्यायः कर्तव्यो नान्यदा तीर्थकरवचनात् , दृष्टं च कृध्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति १, तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्य:, विनयो ह्यभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति २, तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः३, एतस्मिसत्यक्षेपेणाविकलं श्रुतं भवति, अत्र च विनयबहुमानयोश्चतुर्भङ्गी भवति-एकस्य विनयो न बहुमानः १, अपरस्य बहुमानो न विनयः२ अन्यस्य विनयोऽपि बहुमानोऽपि ३, अन्यतरस्य न विनयो नापि बहुमान ४ इति ३, तथा श्रुतग्रहणमभोप्सतो. पधान कार्य, उपदधाति-पुष्णाति श्रुतमित्युपधान-तपा, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य, तत्पूर्वश्रुतग्रहणस्यैव सफलत्वात् ४, 'अनिदव ' इति गृहीतश्रुतेनानियः कार्यः, यद्यत्सकाशेऽधीते तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति ५, तथा श्रुतग्रहणप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्यः, तत्र व्यञ्जनभेदो यथा-" धम्मो मंगलमुक्टुिं” इति वक्तव्ये "पुनो कल्लाणमुक्कोसं " इत्याह, अर्थभेदस्तु यया-" आवंती केयावतो लो
Page #40
--------------------------------------------------------------------------
________________
अ.२
हिया
॥१॥
गंसि विप्परामुसति” इत्यत्राचारसूत्रे “यावन्तः केचन लोके-अस्मिन्पापन्डिलोके विपरामशन्ति" इत्यर्थाभिधाने "आवंतीजनपदे केयावती-रजून्तिा लोकः विपरामशति कू" इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमः यथा “धर्मो मंग- लमुत्कृष्ट अहिंसा पर्वतमस्तके " इत्यादि, दोषधात्र व्यञ्जनभेदादर्थभेतभेदे क्रियायाः क्रियाभेदे च मोक्षाभावः तदभावे च निरथिका दीक्षेति।
दर्शनाचारोऽपि निःशङ्कितनिष्फाक्षितनिर्विचिकित्सअमृदृष्टिउपवहास्थिरीकरणासल्यतीर्थप्रभवनाभेदादष्टधैव, तत्र निःशङ्कित इति शङ्कनं शङ्कित निर्गतं इङ्कितं यतोऽसौ निशङ्कितः, देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जोवत्वे कथमेको भव्यः अपरस्तु अभव्य इति शङकते, सर्वशङ्का तु प्राकृत निबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा भाषा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अ| स्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तं च-"बालस्लीमूढमूर्खाणां, नृणां चारित्रकाक्षिणाम् । अनुग्रहाथै तत्त्वज्ञैः, सिद्धान्त: प्राकृतः स्मृतः ॥ ५९॥"
दृष्टेष्टाविरुद्धत्वाच्च नायं परिकल्पनागोचरः, ततश्च निःशक्कितो जीव एवाईच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते, अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे खदर्शनिन इव फलाभावान्मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्या१, तथा निष्काक्षितो-देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एक दर्शनं काझते दिगम्बरदर्शनादि, सर्वकाक्षातु सर्वाण्येवेति, नालोकयति पड्जोवनिकायपीडामसत्यरूपणां चेति २, विचिकित्सा-मतिविभ्रमो निर्गता विचि कित्सा यस्मादसौ निर्विचि
॥१८॥
Page #41
--------------------------------------------------------------------------
________________
कित्सः, साध्वेव जिनदर्शनं, किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति वा न वा, कृषीवलादिक्रियामूभयथाऽप्युपलब्धे| रिति कुविकल्परहितः, न ह्यविकल उपाय उपेयवस्तुपरिप्रापको न भवतीति सातनिश्चय इत्यर्थः, यद्वा निर्विज्जुगुप्सः-साधुजुगुप्सारहितः३, तथा 'अमूढदृष्टिः' बाल तपस्वितपोविद्यातिशयन मूढा-स्वभावान्न चलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधान:-उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तवृद्धिकरणं ५, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनं ६, वात्सल्यं-समानधार्मिकजनोपकारकरणं ७, प्रभावना
धर्मकथादिभिस्तीर्थख्यापनेति ८, गुणप्रधानश्चायं निर्देशो गुणगुणिनाः कथञ्चिद्भेदख्यापनार्थम, एकान्ताभेदे गुणनिवृत्तौ | गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति ।
चारित्राचारोऽष्टधा पञ्चसमिति त्रिगुप्तिभेदाद , समितिगुप्तिस्वरूपं च प्रतीतमेव । तपआचारस्तु द्वादशविधः बाह्याभ्यन्तरतपाषट्कद्वयभेदात्, तत्र 'अनशन १ मूनोदरता २ वृत्तेः संक्षेपणं ३ रसत्यागः ४ । कायक्लेशः ५ संलीनतेति बाह्यं तपः प्रोक्तम् ॥६० ॥ प्रायश्चित्तध्याने वैयावृत्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्मकारमाभ्यन्तरं भवति ॥ ६१॥" (पशम. १७५-१७६) वीर्याचारः पुनः अनिद्रुतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तपशिद्विधे ज्ञानदर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणं प्रतिपत्तौ च यथावलं पालनेति ॥ ११ ॥
तथा-निरीहशक्यपालनेति ॥१२॥ (७०) निरीहेण-ऐहिकपारलौकिकफलेषु राज्यदेवत्वादिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य-ज्ञानाचारादेः विहितमिदमि
Page #42
--------------------------------------------------------------------------
________________
धर्मदेव
नाविधिः
धर्मबिन्दु | तिबुद्धया पालना कार्येति च कथ्यते इति ॥१२॥ अ.२ |
तथा-अशक्ये भावप्रतिपत्तिरिति ॥ १३ ॥ (७१) ॥१९॥
| 'अशक्ये' ज्ञानाचारादिविशेष एव कर्तुमपार्यमाणे कुतोऽपि धृतिसंहननकालबलादिवैकल्याद् 'भावप्रतिपत्तिः, * भावेन-अन्तःकरणेन प्रतिपत्तिा-अनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आध्यानत्वादिति॥१३॥
तथा-पालनोपायोपदेश इति १४ ॥ ७२ ॥ एतस्मिन् ज्ञानाद्याचारे प्रतिपन्ने सति पालनाय उपायस्य-अधिकगुणतुल्यगुणलोकमध्यसंवासलक्षणस्य निजगुण| स्थानकोचित क्रियापरिपालनानुस्मरणस्वभावस्य चोपदेशो दातव्य इति ॥ १४ ॥
तथा-फलप्ररूपणेति ॥ १५ ॥ (७३) अस्याचारस्य सम्यक्षरिपालितस्य सतः फलं-इव तावदुरप्लवहासो भावैश्वर्यवृद्धिर्जनप्रियत्वं च परत्र च सुगति| जन्मोत्तमस्थानलाभः परम्परया निर्वाणावाप्तिश्चेति यत्कार्य तस्य प्ररूपणा-प्रज्ञापना विधेयेति ॥ १५ ॥ अत्रैव विशेषमाह
देवदिवर्णनमिति ॥ १६ ॥ (७४) देवानां-वैमानिकानां ऋद्धेः-विभृतेः रूपादिलक्षणाया वर्णनं-प्रकाशन, यथा तत्रोत्तमा रूपसंपत् सस्थितिप्रभाव| सुखद्युतिलेश्यायोगः विशुद्धेन्द्रियावधित्वं प्रकृष्टानि भोगसाधनानि दिव्यो विमाननिवह इत्यादि वक्ष्यमाणमेव ॥१६॥
तथा-मुकुलागमनोक्तिरिति ॥ १७॥ (७५)
合於本整本合字於帶个字於
॥१९॥
Page #43
--------------------------------------------------------------------------
________________
देवस्थानाच्च्युतावपि विशिष्टे देशे विशिष्टे कुले निष्कलके अन्वये उदग्रे सदाचारेणाख्यायिकापुरुषयुक्ते अनेकमनोर| थावपूरक अत्यन्तनिरवद्यं जन्मेत्यादिक्ष्यमाणलक्षणेवोक्तिः ॥१७॥
तथा-कल्याणपरम्पराख्यानमिति ॥ १८॥ (७६) ततः सुकुलागमनादनन्तरं कल्याणपरम्पराया:-तत्र सुन्दरं रूपं आलयो लक्षणानां रहितं आमयेन इत्यादिरूपायाः * अत्रैव धर्मफलाध्याये वक्ष्यमाणायाः आख्यान-निवेदनं कार्यमिति ॥ १८ ॥
तथा-असदाचारगति ॥ १९॥ (७७) असदाचारः-सदाचारविलक्षणो हिसानृतादिदश विधपापहेतुभेदरूपः, यथोक्तम्-"हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥६२॥ (शास्त्रवार्ता. ४) तस्य गर्दा असदाचारगहीं, यथा-"न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः ॥६३॥ द्विषद्विषतमोरोगे?ःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ॥६४॥ वरं ज्वालाऽऽकुले क्षिप्तो, देहिनाऽऽत्मा हुताशने । न तु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन ॥६५॥” इति तत्वाश्रद्धानगर्दा, एवं हिंसादिष्वपि गर्हायोजना कार्या ॥ १९॥
तथा-तत्स्वरूपकथनमिति ॥२०॥ (७८) तस्य-असदाचारस्य हिंसादेः स्वरूपकथनं, यथा “प्रमत्तयोगात् प्राणिव्यपरोपणं हिंसा," "असदभिधानं मृषा" | (मन्तं) “अदत्तादाने स्तेयं" "मैथुनमब्रह्म" "मूर्छा परिग्रह" (त० अ०७ सू०८.९-१०-११-१२) इत्यादि ॥२३॥
Page #44
--------------------------------------------------------------------------
________________
धर्मदेश
तथा-स्वयं परिहार इति ॥ २१ ॥ (७९) 'स्वयम् ' आचारकथकेन परिहारः असदाचारस्य संपादनीयः, यतः स्वयमसदाचारमपरिहरतो धर्म3 कथनं नटवैराग्यकथनमिवानादेयमेव स्यात् , न तु साध्यसिद्धिकरभिति ॥२१॥
तथा-ऋजुभावाऽऽसेवनमिति ।। २२ ॥ (८०) ऋजुभावस्य-कौटि ल्यत्यागरूपस्य आसेवनम्-अनुष्टानं देशकेनैव कार्य, एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति ॥२२॥
तथा-अपायहतुत्वदेशनेति ॥ २३ ॥ (८२) अपायानां-अनर्थानां इहलोकपरलोकगोचराणां हेतुत्वं-प्रस्तावादसदाचारस्य यो हेतुभावः तस्य देशना विधेया, यथा-"यन्न प्रयान्ति पुरुषाः स्वगै यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥६६॥" प्रमा| दश्वासदाचार इति ॥ २३ ॥ अपायानेव व्यक्तीकुर्वन्नाह
नारकदुःखोपवर्णन मिति ॥२४॥ (८२) नरके भवा नारकाः तेषां उपलक्षणत्वार्यिगादीनां च दुःखानि-अशर्माणि तेषामुपवर्णन विधेयं, यथा -"तीक्ष्णैरसिभिर्दीप्तः कुन्तैर्विपमैः परश्वधश्चकैः । परशृत्रिशूलतोमरमुद्गरवासीमुषाढीभिः ॥६७॥ संभिन्नतालुशिरसश्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्न हृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्ताः॥ ६८ ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः ।
॥२०॥
Page #45
--------------------------------------------------------------------------
________________
泰语 态 *本*态辛
नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥ ६७ ॥ क्षुत्तृ द्दिमात्युष्णभयार्दितानां पराभियोगव्यसनातुराणाम् । अहो तिरवामभिदुःखितानां सुखानुषङ्गः किल वार्त्तमेतत् ॥ ७० ॥ मानुष्यकेऽपि दारिद्र्यरोगदौर्भाग्यशोक मौर्याणि । जातिकुलावयवादिन्यूनत्वं चाशुते प्राणी ॥ ७१ ॥ देयेषु च्यवन वियोगदुःखितेषु क्रोधेष्यमिदमदनातितापितेषु । आर्या ! नस्तदिह विचार्य संवदन्तु यत्सौख्यं किमपि निवेदनीयमस्ति ॥ ७२ ॥ " इति ॥ २४ ॥
तथा - दुष्कुलजन्मप्रशस्तिरिति ॥ २५ ॥ ( ८३ )
दुष्कुले - शकय वन शवरबरा दिसंबंधिषु यज्जन्म - असदाचाराणां प्राणिनां प्रादुर्भावः तस्य प्रशस्तिः- प्रज्ञापना कार्या ॥ २५ ॥ तत्र चोत्पन्नानां किमित्याह
दुःखपरम्परा निवेदन मिति ॥ २६ ॥ ( ८४ )
दुःखानां - शारीरमानस शर्मलक्षणानां या परम्परा - प्रवाहः तस्या निवेदनं प्ररूपणं, यथा असदाचारपारवश्यात् जीवा दुष्कुलेषूत्पद्यते, तत्र चासुन्दरवर्णरसगन्धस्पर्शशरीरभाजां तेषां दुःखनिराकरणनिबन्धनस्य धर्मस्य स्वमेऽप्यनुपलम्भात् हिंसानृतस्याशुद्धकर्मकरण वणानां नरकादिप.लपापकर्मोपचय एव संपद्यते तदभिभूतानामिह परत्र चाव्यवच्छिम्नानुबन्धा दुःखपरम्परा प्रसूयते, यदुच्यते- "तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्तते बहुशः ॥ ७३ ॥ " ॥ २६ ॥ तथा - उपायतो मोहनिन्देति ॥ २७ ॥ ( ८५ )
Page #46
--------------------------------------------------------------------------
________________
धर्मबिन्दु
धर्म देश नाविधिक
॥२१॥
'उपायतः उपायेन अनर्थप्रधानानां मूढपुरुषलक्षणानां प्रपश्नरूपेण मोहस्य-मृढताया निन्दा-अनादरणीयताख्यापनेति, यथा-"अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्ट, तमाह Lढरेतसम् ॥ ७४ ॥ अर्थवन्त्युपपन्नानि, वाक्यानि गुणवन्ति च । नैव मूढो विजानाति, मुमूर्षुरिव भेषजम् ॥७॥ संप्राप्तः पण्डितः कृच्छं, प्रज्ञया प्रतिबुध्यते । मूढस्तु कृच्छमासाद्य, शिलेवाम्भसि मज्जति ॥७६॥ अथवोपायतो-मोहफलोपदर्शनद्वारलक्षणात् मोहनिन्दा कार्येति, “जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतम् । वीक्षमाणा अपि भवं, नदिजन्यपि मोहतः ।। ७७ ।। धर्मवीजं परं प्राप्य, मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः ।। ७६ ॥ अस्येति-धर्मबीजस्य । बडिशामिषवत्तरछे, कुसूखे दारुणोदये । सत्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः ।। ७९ ॥” इति ॥२७॥
• तथा-सज्ज्ञानप्रशंसनमिति ॥ २८ ॥ (८६) सद्-अविपर्यस्तं ज्ञानं यस्य स सज् ज्ञान:-पडितो जनः तरय सतो वा ज्ञानस्य-विवेचनलक्षणस्य प्रशंसन-पुरस्कार इनि, यथा-" तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः, स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च । सम्भूयापि जगत्त्रयस्य नयनस्तबस्तु नो वीक्ष्यते, प्रत्याहृत्य दृशः समाहितधियः पश्यन्ति यत् पण्डिताः॥८॥" तथा "नापाप्यमभिवाञ्छन्ति, नष्ट नेच्छन्ति शोचितुम । आपत्सु च न मुह्यन्ति, नराः पण्डितबुद्धयः॥८१॥ न हृष्यत्यात्मनो माने, नापमाने च रुष्यति । गाङ्गो हूद इवाक्षोभ्यो, यः स पण्डित उच्यते ।। ८२ ॥"
तथा-पुरुषकारसत्कथेति ॥ २९॥ (८७)
॥२१॥
Page #47
--------------------------------------------------------------------------
________________
पुरुषकारस्य - उत्साहलक्षणस्य सत्कथा-माहात्म्यमशंसनं, यथा- "दुर्गा तावदियं समुद्रपरिखा तावन्निरालम्बनं, व्योमैतननु तावदेव विषमः पातालयात्रागमः । दत्त्वा मूर्द्धनि पादमुद्यमभिदो देवस्य कीर्तिप्रियैः, वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम् ॥८३॥” तथा “विहाय पौरुषं कर्म, यो दैवमनुवर्त्तते । तद्धि शाम्यति तं प्राप्य, क्लीवं पतिमिवाङ्गना ॥८४॥” २९॥ तथा - वोर्थडिवर्णनमिति ॥ ३० ॥ ( ८८ )
वीर्य - प्रकर्षरूपायाः शुद्धाचारवल्लभ्यायाः तीर्थकरवीर्यपर्यवसानायाः वर्णनमिति, यथा-" मेरुं दण्डं घरां छत्रं, यत्केचित्कर्तुमीशते । तत्सदाचारकल्पद्रुफलमाहुर्महर्षयः ॥ ८५ ॥ ३० ॥
तथा - परिणते गम्भीरदेशनायोग इति ॥ ३१ ॥ ( ८९ )
अस्मिन् पूर्वमुद्दिष्टे उपदेशजाले श्रद्धानज्ञानानुष्ठानवत्तया ' परिणते' सात्मीभावमुपगते सति उपदेशार्हस्य जन्तोः गम्भीरयाः- पूर्वदेशनापेक्षया अत्यन्तसूक्ष्माया आत्मास्तित्वतद्वन्धमोक्षादिकाया देशनायाः योगः - व्यापारः कार्यः, इदमुक्तं भवति यः पूर्वं साधारणगुणप्रशंसादिः अनेकधोपदेशः प्रोक्त आरते स यदा तदावार ककर्म हासा तिशयादङ्ग। ङ्गीभावलक्षणं परिणाममुपागतो भवति तदा जीर्णे भोजनमिव गम्भीरदेशनायामसौ देशनार्दोऽवतार्यते इति ॥ ३१ ॥ अयं च गम्भीर देशना - योगो न श्रुतधर्मकथनमन्तरेणोपपद्यते इत्याह
धर्मकथनमिति ॥ ३२ ॥ (९० )
श्रुतधर्मस्य - वाचनाच्छना परावर्तनानुप्रेक्षाधर्मकथन लक्षणस्य सकलकुशल कलापकल्पद्रुमविपुलाssलवालकल्पस्य क
**469 **46) ***46*****
Page #48
--------------------------------------------------------------------------
________________
धर्मविन्दु
कपच्छेद तापाः
अ. २|| २२॥
साम्येऽपि विचित्रभेदार कार्यः, अन्यत्रायवादसमानत या विमलब्ध
थन, तथा-" चक्षुप्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा। सम्यक् सदैव पश्यन्ति, भावान् हेयेतरानराः॥८६॥" ३२ ॥ | अयं च श्रुतधर्मः प्रतिदर्शनमन्यथाऽन्यथा प्रत इति नासावद्यापि तत्सम्यग्भावं विवेचयितुमलमित्याह
बहुत्वात्परीक्षावतार इति ॥ ३३ ॥ (९१) तस्य हि बहुत्वाच्छू तधर्माणां श्रुतधर्मः श्रुतधर्म इति शब्दसमानत या विपलब्धबुद्धेः परीक्षायां-त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसम्बन्धिन्याम वतारः कार्य:, अन्यत्राप्यवाचि-"तं शब्दमात्रेण वदन्ति धर्म, विश्वेऽपि लोका न विचारयन्ति । स शब्दसाम्येऽपि विचित्रभेदै विभिद्यते क्षीरमिवाचनीयः॥ ८७ ॥ लक्ष्मी विधातुं सकलां समर्थ, सुदुर्लभं विश्वजनीनमेनम् । परीक्ष्य गृह्णन्ति विचारदक्षाः, सुवर्णवदश्चनभीतचित्ताः ।। ८८ ॥” इति ॥ ३३ ॥ परीक्षोपायमेवाह
कषादिप्ररूपणेति ॥ ३४ ॥ (९२) __यथा सुवर्णमात्रसाम्येन तथाविधमुग्धलोकेप्यविचारणेव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कपच्छेदतापाः परीक्षणाय विचक्षणैराद्रियन्ते तथाऽत्रापि श्रुतधर्म परीक्षणीये कषादीनां प्ररूपणेति ॥ ३४ ॥ कषादीनेवाह
विधिप्रतिषेधो कष इति ॥ ३५ ॥ (९३) विधिः-अविरुद्ध कर्तव्यार्थोपदेशक वाक्यं, यथा स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्य समितिगुप्तिशुद्धा क्रिया इत्यादि, प्रतिषेधः पुनः-न हिस्यात्सर्वभूतानि नानृतं वदेत् इत्यादि, ततो विधिश्च प्रतिषेधश्च विधिप्रतिषेधौ, किमित्याह-कष | सुवर्णपरीक्षायामिव कषपट्टके रेखा, इदमुक्तं भवति-यत्र धर्म उक्तलक्षणो विधिः प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते स
॥२२॥
Page #49
--------------------------------------------------------------------------
________________
धर्मः कषशुद्धः, न पुनः “ अन्यधर्मस्थिताः सच्चा, असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ॥ ८९ ॥” इत्यादिवाक्यगर्भ इति ॥ ३५ ॥ छेदमाह–
तत्सम्भवपालनाचेष्टोक्तिश्छेद इति ॥ ३६ ॥ (९४ )
तयोः - विधिप्रतिषेधयोः अनाविर्भूतयोः सम्भवः प्रादुर्भावः प्रादुर्भूतयोश्च पालना-रक्षारूपा ततः तत्सम्भवपालनाया चेष्टा - भिक्षाटनादिबाह्यक्रियारूपा तस्या उक्तिः छेदः, यथा कषशुद्धावप्यन्तरामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिका छेदमाद्रियन्ते तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते स च छेदा विशुद्धबाह्यचेष्टारूप:, विशुद्धा च चेष्टा सा यत्रास|न्तावपि विधिप्रतिषेधाववाधितरूपौ स्वात्मानं लभेते, लब्धात्मानौ चातीचारलक्षणापचारविरहितौ उत्तरोत्तरां दृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्मश्छेदशुद्ध इति ॥ ३६ ॥ यथा कषच्छेदशुद्धमपि सुवर्णं तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्रुते, एवं धर्मोऽपि सत्यामपि कषच्छेदशुद्धौ तापपरीक्षामनिर्वहमाणो न स्वभावमासादयत्यतः तापं
प्रज्ञापयन्नाह -
उभयनिबन्धनभाववादस्ताप इति ॥ ३७ ॥ ( ९५ )
उभयोः - कषच्छेदयोः अनन्तरमेवोक्तरूपयोः निबन्धनं परिणामिरूपं कारणं यो भावो - जीवादिलक्षणः तस्य वादःप्ररूपणा, किमित्याह - तापोऽत्र तधर्मपरीक्षाधिकारे, इदमुक्तं भत्रति यत्र शास्त्रे द्रव्यरूपतया अमच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिक्षणमपरापरस्वभा वारकन्दनेन अनित्यस्वभावो जीवादिररुस्थाप्यते स्यात्तत्र तापशुद्धिः, यतः परिणामिन्येवात्मादौ
***%*469)****
Page #50
--------------------------------------------------------------------------
________________
धर्मबिन्दा अ.२7
तापा
IRशा
善本字投影本本白髮%左
तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते, न पुनरन्यथेति ॥ ३७॥ एतेषां मध्यात्को बलीयान् इतरो वा इति प्रश्ने यत्कर्तव्यं तदाह
अमीषाम-तरदर्शन मिति ॥ ६८॥ (९६) 'अमीषां' त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य-विशेपस्य समर्थासमर्थत्वरूपस्य दर्शनं कार्यमुपदेशकेन ॥३८॥ तदेव दर्शयति
___ कषच्छेदयोरयत्न इति ॥ ६९ ॥ (९७) कषच्छेदयोः परीक्षाक्षमत्वेन आदरणीयतायाम् 'अयत्नः' अतात्पर्य मतिमतामिति ॥ ३९ ॥ कुत इत्याह
तद्भावेऽपि तापाभावेऽभाव इति ॥ ४०॥ (९८) तयो:-कपच्छेदयोः भाव:-सत्ता तद्भावः तस्मिन् , किं पुनरतद्भाव इत्यपिशब्दार्थः, किमित्याह-तापाभावे' उक्तलक्षणतापविरहे 'अभावः' परमार्थतः असत्तेव परीक्षणीयस्य, न हि तापे विघटमानं हेम कषच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलं, जातिसुवर्णत्वात्तस्य ॥ ४० ॥एतदपि कथमित्याह
तच्छुद्धौ हि तत्साफल्यमिति ॥ ४१ ॥ (९९) 'तच्छुडौ' तापशुद्धौ ‘हिः' यरमात् 'तत्साफल्यं' तयोः-कषच्छेदयोः सफलभावः, तथाहि-ध्यानाध्ययनादिकोऽर्यों विधीयमानः प्रागुपातकर्मनिर्जरणफल:, हिसादिकश्च प्रति पिध्यमानो नवकर्मोपादाननिरोधफलः, बाह्यचेष्टाशु
॥२३॥
Page #51
--------------------------------------------------------------------------
________________
द्विश्वानयोरेवानाविर्भूतयोः आविर्भवनेनाविर्भूतयोश्च परिपालनेन फलवती स्यात्, न चापरिणामिन्यात्मन्युक्तलक्षणों कषच्छेद स्वकार्यं कर्तुं प्रभविष्णू स्यातामिति तयोः तापशृद्धादेव सफलत्वमुपपद्यते न पुनरन्यथेति ॥ ४१ ॥ ननु फलविकला वपि तौ भविष्यत इत्याह
फलवन्तौ च वास्तवाविति ॥ ४२ ॥ (१००)
उक्तलक्षणफलभाजी सन्तौ पुनः या कपच्छेदौ तौ वास्तवौ कपच्छेदौ भवतः, स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः ॥ ४२ ॥ विपक्षे बाधामाहअन्यथा याचितकमण्डनमिति ॥ ४३ ॥ (१०१)
' अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनं वर्त्तते इति, परकीयत्वसम्भावनोपहतत्वात् कुत्सितं याचितं याचितकं तच्च तन्मण्डनं च कटककुण्डलादि आभरणविशेषो याचितकमण्डनम्, द्विविधं ह्यलङ्कारफलं - निर्वाहे सति परिशुद्धाभिमानिकसुखजनिका स्वशरीरशोभा कथञ्चिनिर्वहणाभावे च तेनैव निर्वाहः, न च याचितकमण्डने एतद्विनयमप्यस्ति परकीयत्वात्तस्य, ततो याचितकमण्डनमिव याचितकमण्डनं इदमुक्तं भवति - द्रव्यपर्यायोभयस्वभावे जीवे कपच्छेदौ निरुपचरिततया स्थाप्यमानौ स्वफल प्रत्यवन्ध्य सामर्थ्यावेव स्यातां, नित्याद्येकान्तवादे तु स्ववादशोभा तद्वादिभिः कल्प्यमानावप्येतौ याचितकमण्डनाकारौ प्रतिभासेते न पुनः स्वकार्यकराविति ॥ ४३ ॥ आह- अवगतं यथा कषच्छेदताशुद्धः श्रुतधर्मो ग्राह्यः परं किम्मतृकोऽसौ प्रमाणमिति व्यतिरेकतः साधयन्नाह -
泰亨、众* 众举众指卓中
Page #52
--------------------------------------------------------------------------
________________
धर्मबिन्दु
॥२४॥
六字令》診会》全》
नातत्त्ववेदिवादः सम्यग्वाद इति॥४४॥ (१०२) 'न' नैव अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वज्ञातुं शीलस्य पुरुषविशेषस्य अर्वाग्दर्शिन इत्यर्थः 'वाद: वस्तुपणयन अतत्ववेदिवादः, किमित्याह-'सम्यग्वादो' यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्धचि
करनरालिखितचित्रकर्मपद्यथावस्थितरूपविसंवादेन असमञ्जसमेव शास्त्रं स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपता प्रतिपत्तुमुत्सहते ? इति । ४४ ॥ सम्यग्वादताया एवोपायमाइ
बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति ॥ ४२ ॥ (१०३) बन्धो-मिथ्यात्वादिहेतुभ्यो जोवस्य कापुद्गलानां च वड्ययःपिप्डयोरिव क्षीरनीरयोरिव वा परस्परमविभागपरिणामेनावस्थानं मोक्षः-पुनः सम्यग्दर्शनज्ञानचारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धश्च मोक्षश्च बन्धमोक्षौ | तयोः उपपत्तिः-घटना तस्याः सकाशात् तच्छुद्धिः-वस्तुवाद निर्मलता चिन्तनोया, इदमुक्तं भवति-यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तै विशेषनिरूप्यते स सर्ववेदिपुरुषप्रतिपादित इति कोविदैनिश्चीयते इति ॥४५॥ इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह
इयं बमानबन्धनभाव इति ॥ ४६॥ (१०४) 'इयं' बन्धमोक्षोपपत्तिः बध्यमान य वन्धनस्य च-वक्ष्यमाणस्य भावे-सद्भावे सति भवति ॥ ४६॥ कुत इत्याह
कल्पनामात्रमन्यथेति ॥४७॥ (१०५)
॥२४॥
Page #53
--------------------------------------------------------------------------
________________
यस्मात्कारणादियं कल्पनैव केवला वितथार्थप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोऽर्थोऽपीति, कल्पनामात्रमन्यथामुख्यवध्यमानवन्धनयोरभावे वर्त्तते इति ॥ ४७ ॥ बध्यमानबन्धने एव व्याचष्टे
बध्यमान आत्मा बन्धनं वस्तुसत् कर्मेति ॥४८॥ (१०६) तत्र 'बध्यमानः' स्वसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, क इत्याह-'आत्मा' चतुर्दशभूतग्रामभेदभिन्नो जीव: प्रतिपाद्यते, तथा-बध्यते मिथ्यात्वादिभिर्हेतुभिरात्मा अनेनेति बन्धनं, किमित्याह-वस्तुसत्' परमार्थती विद्यमान 'कर्म' ज्ञानावरणादि अनन्तानन्तपरमाणुपचयस्वभावमत एव मूर्नप्रकृतीति । अत्रात्मग्रहणेन सांख्यमनिरासमाह, यनस्तत्रोच्यते'आत्मा न बध्यते नापि मुच्यते नापि संसरति कश्चित् . संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः । वस्तुसद्ग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते-"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिमुक्तं, भवान्त इति कथ्यते ॥९०॥" 'रागादिक्लेशवासित मिति रागादिक्तेशैः सर्वथा चित्तादव्यतिरिक्तैर्वासित-संस्कृतं, एवं हि बध्यमानान्न भिन्न वस्तुपत्कर्मत्यभ्युपगतं भवति । तत्र प्रकृतेरेव बन्धमोक्षाभ्युपगमे आत्मनः संसारापवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यमनियमाद्यनुष्ठानं मुक्तिफलतयोक्तं यद् योगशास्त्रेषु तद् व्यर्थमेव स्यात् , बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसच्चमेव कर्मणः स्यात् , यतो यद्यतोऽव्यतिरिक्तस्वरूपं तत्तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, वध्यमानबन्धनयोः पुरुषनिगडादिरूपयोः भिन्नस्वभावयोरेव लोके व्यवह्रियमाणत्वात् , किंच-चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारापवर्गयोभंदो न पामोति, चित्तमात्रस्योभयत्राप्यविशेषात् ॥ ४८ ॥ बन्धमोक्षहेतूनेवाह
Page #54
--------------------------------------------------------------------------
________________
धर्मचिन्दु ब.२ ॥२५॥
बन्धमोक्ष का स्वरूपम्
हिंसादयस्तद्योगहेतवः, तदितरे तदितरस्येति ॥४९॥ (१०७) _ 'हिंसादय' इति हिंसानृतादयो जीवपरिणामविशेषाः, किमित्याह-'तद्योगहेतवः तस्य-बन्धस्य संसारफलत्वेन परमार्थचिन्तायां पापात्मकस्यैव हेतवः-आत्मना सह बन्धकारणभावमापन्ना वर्तन्ते, यदवापि-"हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥९१॥" (शास्त्रवा०४) तथा तदितरे' तेभ्यो-हिंसादिभ्य इतरे-- अहिंसादय एव 'तदितरस्य' तस्माद्-बन्धादितरो-मोक्षः तस्य, अनुरूपकारणप्रभवत्वात्सर्वकार्याणामिति ॥ ४९ ॥ बन्धस्यैव स्वरूपमाइ
प्रवाहतोऽनादिमानिति ॥५०॥ (१०८) 'प्रवाहतः' परम्परात: 'अनादिमान् ' आदिभूतबन्धकालविकलः ॥५०॥ अत्रैवार्थे उपचयमाह
कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति ॥५१॥ (१०९) 'कृतकत्वेऽपि' स्वहेतुभिनिष्पादितत्वेऽपि बन्धस्यातीतकालस्येवोपपत्तिः-घटना अनादिमत्त्वस्य वक्तव्या, किमुक्तं भवति?-प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्षयाऽतोतकालबदनादिमानेव ॥५१॥ अथ यतोऽशादनयोदृष्टान्तदासन्तिकभावोऽभूत् तं साक्षादेव दर्शयन्नाह
वर्तमानताकल्पं कृतकत्वमिति ॥५२॥ (११०) याशी अतीतकालसमयानां वर्तमानता-साम्पतरूपता तादृशं बन्धस्य 'कृतकत्वं' क्रियमाणत्वं, क्रियाकालनिष्ठा
Page #55
--------------------------------------------------------------------------
________________
कालयोश्च निश्चयनयाभिप्रायेणाभेदादेवमुपन्यस्तं, अन्यथा वर्त्तमानताकल्पं क्रियमाणत्वमित्युपन्यसितुं युक्तं स्यात् ॥ ५२ ॥ यादृशि चात्मनि प्रागुपन्यस्ता बन्धहेतवः उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह -
परिणामिन्यात्मनि हिंसादयो, भिन्नाभिन्ने च देहादिति ॥ ६८ ॥ ( १११ )
परिणमनं परिणामः - द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः, यथोक्तम् - " परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ ९२ ॥ " परिणामो नित्यमस्यास्तीति परिणामी तत्र आत्मनि - जीवे हिंसादयः - प्राग् निरूपिता उपपद्यन्ते, तथा भिन्ने पृथगुरूपे अभिन्ने च तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह-' देहात् ' शरीरात् ॥ ५३ ॥ अत्रैवार्थे विपक्षे बाघामाह
अन्यथा तदयोग इति ॥ ५४ ॥ ( ११२ )
यदि हि परिणामी आत्मा भिन्नाभिन्नव देहान्नेष्यते तदा तेषां हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगः - अ टना ॥ ५४ ॥ कथमित्याह -
नित्य एवाविकारतोsसंभवादिति ॥ ५५ ॥ ( ११३ )
'नित्य एव ' अमच्युतानुत्पन्नस्थिरैकस्वभावे आत्मनि, न तु पर्यायनयावलम्बनेनानित्यरूपेऽपीत्येवकारार्थः, अभ्युपगम्यमाने द्रव्यास्तिकनयावष्टम्भतः 'अविकारतः ' तिलतुपत्रिभागमात्रमपि पूर्वस्वरूपादप्रच्यवमानत्वेन 'असंभवाद्' अघटनात् हिंसायाः, यतो विवक्षित हिंसा विवक्षितपर्यायविनाशिस्वभावा शास्त्रेषु गीयते, ययोक्तम् - " तत्पयार्यविनाशो
Page #56
--------------------------------------------------------------------------
________________
नित्यानि त्यभिलामिलात्मा
दुखोत्पादस्तथा च संक्तशः । एष वधो जिनभणितो वर्यजितव्यः प्रयत्नेन ॥१३॥"
तथा-अनित्ये चापराहिंसनेनेति ॥५६॥ (११४ ) 'अनित्ये च ' सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मनि अभ्युपगम्यमाने सति अपरेण-केनचित् लुब्धकादिना अहिंसनेन-अव्यापादनेन कस्यचिच्छूकरादेहिसाऽसंभवः, प्रतिक्षणं भङ्गुरत्वाभ्युपगमे हि सर्वेष्वात्ममुस्वत एव स्वजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति ॥५६॥
तथा-भिन्न एव देहान्न स्पृष्टवेदनमिति ॥ ५७॥ (११५) यदि हि भिन्न एव' विलक्षण एव सर्वथा देहादात्मा तदा 'न' नैव स्पृष्टस्य-योपिच्छरीरशयनासनादेः कण्टकज्वलनज्वालादेश्च इष्टानिष्टरुपस्य स्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनम्-अनुभवनं प्रामोति भोगिनः पुरुषस्य, न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति ॥ ५७ ॥
तथा-निरर्थकश्चानुग्रह इति ॥५८॥ (११६) 'निरर्थकः' पुरुषसंतोषलक्षणफलविकला, चः समुच्चये, अनुग्रहः-स्रक्चन्दनाङ्गनावसनादिभिर्भोगाङ्गरुपष्टम्भो भवेद्देहस्य, देहादात्मनोऽत्यन्त भिन्नत्वात् , निग्रहस्याप्युपलक्षणमेतत् ॥५८॥ एवं भेदपक्षं निराकृत्याभेदपक्षनिराकरणायाह
___ अभिन्न एवामरणं वैकल्यायोगादिति ॥ ५९॥ (११७) 'अभिन्न एव' देहात् सर्वथा नानात्वमनालम्बमाने आत्मनि सति 'चैतन्यविशिष्टः कायः पुरुष' इति मतावलम्बिना
॥२॥
Page #57
--------------------------------------------------------------------------
________________
सुरगुरुशिष्याणामभ्युपगमेन, किमित्याह-'अमरण' मृत्योरभावः आपद्यत आत्मनः, कुत इत्याह-वैकल्यस्यायोगाद्-अघटनात् । यतो मृतेऽपि देहे न किञ्चित्पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते, वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उच्छ्नभावायोगात् , तर्हि तेजसः तत्र वैकल्पमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति ॥ ५९॥ प्राक्तनावस्थयोर्वायुतेजसोस्तत्राभावान् मरणमुपपद्यते इति चेदुच्यते
मरणे परलोकाभाव इति ॥६० ॥ (११८) ___ मरणे अभ्युपगम्यमाने परलोकस्याभावः प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित्परलोकयायी | सिद्धयति, देहस्यात्रैव तावत् पातदर्शनात् तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात् , न च वक्तव्यं-परलोक एव तहि नास्ति, तस्य सर्वशिष्ट प्रमाणोपष्टम्भोपपन्नत्वेनाभीष्टत्वात् , प्रमाणं चेदं-यो योऽभिलाषः स सोऽभिलाषान्तरपूर्वको दृष्टा, यथा यौनकालाभिलाषो बाल कालीनाभिलाषपूर्वकः, अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः, यच्च तदभिलाषान्तरं तन्नियमाद्भवान्तरभावोति ॥ ६॥
तथा-देहकृतस्यात्मनाऽनुपभोग इति ॥ ६१॥ (११९) एकान्तभेदे देहात्मनोरभ्युपगते सांख्येन देहेन कृतस्य-परेषां ताडनतर्जनहिंसनादिना देवतानमनस्तवनादिना चोपायेनोपात्तस्य शुभाशुभरूपस्य कर्मणः आत्मना 'अनुपभोगः' मुखदुःखानुभवद्वारेणावेदनमापद्यते, न हि कश्चिदन्यकृतं शुभमशुभं वा वेदयितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति ॥ ६३ ॥
तथा देहायन देहेन कृतनाग मुरूदुःखान
Page #58
--------------------------------------------------------------------------
________________
बमबिन्दु
अ.२] ॥२७॥
नित्यानि त्यभिलाभिला
ला
तथा-आत्मकृतस्य देहेनेति ॥ ६२॥ (१२०) यदि च देहाद भिन्न एव आत्मेत्यभ्युपगमः तदा 'आत्मकृतस्य कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कर्नाऽनुपभोगः-अवेदन प्रसज्यते, अन्यकृतत्वात् ॥ ६२॥ यदि नामैवमापद्यते तथापि को दोष इत्याह
दृष्टेष्टबाधेति ॥६३॥ (१२१) दृष्टस्य-सर्वलोकमतीतस्य देहकृतस्यात्मना आत्मकृतस्य च देहेन यः सुखदुःखानुभवः तस्य इष्टस्य च-शास्त्रसिद्धस्य बाधा-अपहनवःप्राप्नोति, तथाहि-दृश्यत एवात्मा देहकृताचौर्यपारदार्याधनार्यकार्याचारकादौ चिरं शोकविषादादोनि दुःखानि समुपलभमानः शरीरं च तथाविधमन संक्षोभादापन्नज्वरादिजनितव्यथामनुभवति, न च दृष्टेष्टापलापिता युक्ता सतां, नास्तिकलक्षणत्वात्तस्याः॥ ६३ ॥ इत्थं सर्वथा नित्यमनित्यं च तथा देहाद भिन्नमभिन्न चात्मानमङ्गीकृत्य हिसादीनामसम्भवमापाद्योपसंहरन्नाह
अतोऽन्यथैतत्सिद्धिरिति तत्त्ववाद इति ॥ ६४॥ (१२२) 'अतः' एकान्तवादाद् 'अन्यथा' नित्यानित्यादिस्वरूपे आत्मनि समभ्युपगम्यमाने 'एतसिद्धिः' हिंसादिसिद्धिा, तत्सिद्धौ च तन्निबन्धना बन्धमोक्षसिद्धिः, 'इति' एष तत्ववाद इति प्रतिज्ञायते, योऽतत्ववादिना पुरुषेण वेदित न पार्यते इति ॥ ६४ ॥ तत्त्ववादे निरूपिते किं कार्यमित्याह
अन्यथा' नित्यानियवाद इति ॥३४॥
सो च तन्निव
॥२७॥
Page #59
--------------------------------------------------------------------------
________________
परिणामपरीक्षेति॥६५॥ (१२३) परिणामस्य-नत्त्ववादविषयज्ञानश्रद्धानलक्षणस्य परीक्षा-एकान्तवादारुचिमुचनवचनसंभाषणादिनोपायेन नियन विधेयम् ॥६५॥ ततोऽपि किं कार्यमित्याह
शुद्ध बन्धभेदकथनमिति॥६६॥ (१२४) 'शुद्ध' परमां शुद्धिमागते परिणामे 'बन्धभेदकथन' बन्धभेदस्य-मूलप्रकृतिवन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धस्वभावस्य च सप्तनवतिप्रमाणस्य (६-९-२-२८-४२-४-२-५) कयनं-प्रज्ञापनं कार्य, बन्धशतकादिग्रन्थानुसारेणेति॥६६॥
तथा-वरबोधिलाभप्ररूपणेति ॥ ६७॥ (१२५) वरस्य-तीर्थकरलक्षणफलकारणतया शेषबोधिलाभेभ्योऽतिशायिनो बोधिलाभस्य प्ररूपणा-प्रज्ञापना, अथवा वरस्य* द्रव्यबोधिलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतः स्वरूपतः फलतश्चेति ॥ ६७॥ तत्र हेतुतस्तावदाह
तथाभव्यत्वादितोऽसाविति ॥ ६८ ॥ (१२६) भव्यत्वं नाम-सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः आत्मसतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वमेव कालादिभेदेनात्मनां बीजसिद्धिभावात् नानारूपतामापन्नं, आदिशब्दात्कालनियतिकर्मपुरुषपरिग्रहः, तत्र कालो विशिष्टपुद्गलपरावर्तीत्सर्पिण्यादिः तथाभव्यत्वस्य फलदानाभिमुख्यकारी, वसन्तादिवद् वनस्पतिविशेषस्य, कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशं नानाशुभाशयसंवेदनहेतुः कुशलानुबन्धि कर्म, समुचितपुण्यसंभारो महाक
Page #60
--------------------------------------------------------------------------
________________
सम्यक्त्व लाभादि
॥२८||||
धर्मबिन्द स्याणाशयः प्रधानपरिज्ञानवान् प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः, ततस्तथाभव्यत्वमादौ रेषां ते तथा तेभ्यः असौ-वरबोअ. २४ धिलाभः प्रादुरस्ति, स्वरूपं च जीवादिपदार्थश्रद्धानमस्य ।। ६८ ॥ अथ फलत एनमेवाह
ग्रन्थिभेदे नात्यन्तसंक्लंश इति ॥ ६९॥ (१२७) इह ग्रन्थिरिव ग्रन्थिः-दृढो रागद्वेषपरिणामः तस्य ग्रन्थे भेदे-अपूर्वकरणवज्रसूच्या विदारणे सति लब्धशुद्धतत्वश्रद्धानसामर्थ्यानात्यन्तं-न प्रागिवातिनिबिडतया संक्लशो-रागद्वेषपरिणामः प्रवर्त्तते, न हि लब्धवेधपरिणामो मणिः कथंचिन्मलापूरितरन्ध्रोऽपि पागवस्थां प्रतिपद्यत इति ॥ ६९ ॥ एतदपि कुत इत्याह
न भूयस्तद्वन्धनमिति ॥ ७० ॥ (१२८) यतो न भूयः-पुनरपि तस्य ग्रन्थेबन्धनं-निष्पादनं भेदे सति संपद्यते इति, किमुक्तं भवति ?-यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वर्जानां स्थितिरन्तःसागरोपमकोटाकोटिलक्षणाऽवशिष्यति, तावत्पमाणामेवासौ सम्यगुपलब्धसम्यग्दर्शनो जीवः कथञ्चित् सम्यक्त्वापगमात्तीबायामपि तथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं बन्धेनातिक्रामतीति ॥ ७० ॥
तथा-असत्यपाये न दुर्गतिरिति ॥७२॥ (१२९) 'असति' अविद्यमाने 'अपाये' विनाशे सम्यग्दर्शनस्य परिशुद्धभव्यत्वपरिपाकसामर्थ्यान्मतिभेदादिकारणानवाप्ती 'न' व 'दुर्गतिः' कुदेवत्वकुमानुषत्वतिर्यक्त्वनारकलप्राप्तिः संपद्यते, किंतु मुदेवत्वमुमानुषत्वे एव स्याताम, अन्यत्र पूर्वबद्धायुष्केभ्य इति ॥७१।।
每个教会学本享受器》
॥२८.
Page #61
--------------------------------------------------------------------------
________________
तथा-विशुद्धेश्चारित्रमिति ॥ ७२ ॥ (१३०) 'विशुद्धे' परिशुद्धनिःशङ्कितत्वाददर्शनाचारवारिपूरपक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शनसत्कायाः सकाशात् , किमित्याह-'चारित्रं' सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं संपद्यते, शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात् , तथा चाचारसूत्रम्-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा तं मोणंति पासह "त्ति
भावनातो रागादिक्षय इति ॥ ७३ ॥ (१३१) भाव्यन्ते-मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेता इति भावनाः, ताश्चानित्यत्वाशरणत्वादयो द्वादश, यथोक्तम्-" भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ न्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवरविधिश्च ८॥९४॥ निर्जरण ९| लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ताश्च ११ । बोधेः सुदुर्लभत्वं १२ च भावना द्वादश विशुद्धाः ॥१५॥” (प्रशम.१४९१५०) ताभ्यो 'रागादिक्षयः' रागद्वेषमोहमलप्रलयः संजायते, सम्यचिकित्साया इव वातपित्तादिरोगापगमः प्रचण्डपबनाद्वा यथा मेघमण्डलविघटनं, रागादिप्रतिपक्षभूतत्वाद् भावनानामिति ॥ ७३ ॥ ततोऽपि किमित्याह
तद्भावेऽपवर्ग इति ॥ ७४ ॥ (१३२) तस्य-रागादिक्षयस्य भावे सकललोकालोकविलोकनशालिनोः केवलज्ञानदर्शनयोः लब्धौ सत्यां निस्तीर्णभवार्णवस्य | सतो जन्तोः 'अपवर्ग' उक्तनिरुक्त उद्भवतीति ॥ ७४ ॥ किंलक्षण इत्याह
स आत्यन्तिको दुःखविगम इति ।। ७५ ॥ (१३३)
Page #62
--------------------------------------------------------------------------
________________
चर्मबिन्द
अ.२ ॥२९॥
'स' अपवर्गः अत्यन्त-सकलदुःखशक्तिनिर्मूलनेन भवतीति आत्यन्तिको 'दुःखविगमः सर्वशारीरमानसाशर्मविरहः
देशनावि
युप संसर्वजीवलोकासाधारणानन्दानुभवश्चेति ॥ ७७ ॥इत्थं देशनाविधि प्रपञ्च्योपसंहरन्नाहएवं संवेगकृद्धर्म, आख्येयो मुनिना परः। यथाबोधं हि शुश्रूषो वितेन महात्मना ॥१०॥
'एवम्' क्तिन्यायेन 'संवेगकृत्' संवेगकारी देशनाईमाणिनः, संवेगलक्षणं चेदम्-" तथ्ये धर्म ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसंदर्भहोने, संवेगोऽसौ निश्चलो योऽनुरागः"॥९६॥ (शालिनीत्तम् ) (योगवि. कृ. २९०) 'धर्म' उक्तलक्षणः 'आख्येयः प्रज्ञापनीयो 'मुनिना' गोतार्थन साधुना, अन्यस्य धर्ममुपदेष्टुमनधिकारित्वात् , यथोक्तं निशीथे-"संसारदुक्खमहणो विवोहणो भवियपुंडरोयाणं । धम्मो जिणपन्नत्तो पकप्पजइणा कहेयव्यो॥९७॥" प्रकल्पयतिना इति-अधीतनिशीथाध्ययनेनेति । 'परः' शेषतीर्थान्तरीयधर्मातिश्चायितया प्रकृष्टा, कथमाख्येय इत्याह-'यथाबोधं ही' ति यथावबोधमेव, अनवबोधे धर्माख्यानस्योन्मार्गदेशनारूपत्वेन प्रत्युतानर्थसंभवात् . पठितं च-'न ह्यन्धनान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत' इति, कीदृशस्य सत इत्याइ-'शुश्रूषो' श्रोतुमुपस्थितस्य, कीदृशेन मुनिनेत्याह"भावितेन' आख्यायमानधर्मप्रतिबद्धवासनावासितेन, 'भावाद् भावप्रसूति' रिति वचनात् , भाविताख्यानस्य श्रोतुः तथाविधश्रद्धानादिनिबन्धनत्वात् , पुनरपि कीदृशेनेत्याह-'महात्मना' तदनुग्रहैकपरायणतया महान्-प्रशस्य आत्मा यस्य स तथा तेनेति ॥१०॥ आह-धर्माख्यानेऽपि यदि तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानमित्याह
अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः॥११॥ |M२९॥
Page #63
--------------------------------------------------------------------------
________________
'अबोधेऽपि' अनवगमेऽपि सम्यग्धर्मस्य 'फलं' क्लिष्टकर्मनिर्जरालक्षणं प्रोक्तं, केषामनवबोधे इत्याह-'श्रोतणां' श्रावकाणां, कैरुक्तमित्याह-'मुनिसत्तमैः' भगवद्भिरर्हद्भिः 'कथकस्य' धर्मदेशकस्य साधोः 'विधानेन' बालमध्यमबुद्धिबुधरूपश्रोतृजनापेक्षालक्षणेन 'नियमाद्' अवश्यंत या, कीदृशस्य कथकस्येत्याह-'शुद्धचेतसः' परानुग्रहप्रवृत्तिपरिणामस्येति ॥११॥ आह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशझ्याहनोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् । यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना ॥१२॥
'न' नैव'उपकारः'अनुग्रहो 'जगति' भुवने 'अस्मिन्' उपलभ्यमाने तादृशो 'विद्यते' समस्ति 'कचित्' काले क्षेत्रे वा 'यादृशी' याहग्रूपा 'दुःखविच्छेदात्' शारीरमानसदुःखापनयनात् 'देहिनां' देशनार्हाणां 'धर्मदेशने ति धर्मदेशनाजनितो मार्गश्रद्धानादिर्गुणः, तस्य निःशेषक्लेशलेशाकलकमोक्षाक्षेपं प्रत्यवन्ध्यकारणखादिति ॥ इति श्रीमुनिचन्द्रमूरिविरचितायां धर्मबिन्दुवृत्तौ देशनाविधिर्नाम द्वितीयोऽध्यायः समाप्तः॥१२॥
अथ तृतीयः अध्यायः
व्याख्यातो द्वितीयोऽध्यायः, अथ तृतीय आरभ्यते, तस्य चेदमादिसूत्रम्
सहर्मश्रवणादेवं, नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥१३॥
Page #64
--------------------------------------------------------------------------
________________
धर्मविन्द
धमदान विधिः
धर्मोपादेयतां ज्ञात्वा, संजातेच्छोऽत्र भावतः। दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते ॥ १४॥
'सद्धर्मश्रवणात् पारमार्थिकधर्माकर्णनात् 'एवम्' उक्तरीत्या 'नर' श्रोता पुमान् 'विगतकल्मषः' व्यावृत्ततस्वप्रतिपत्तिबाधकमिथ्यात्वमोहादिमालिन्यः सन् , अत एव 'ज्ञाततत्त्वः' करकमलतलकलितनिस्तलस्थूलामलमुक्ताफलाच्छास्त्रलोचनबलेनालोकितसफलजीवादिवस्तुवादः तथा महत्-शुद्धश्रद्धानोन्मीलनेन प्रशस्यं सत्व-पराक्रमो यस्य स तथा 'परं' प्रकृष्टं 'संवेगम्' उक्तलक्षणमागतः-अवतीर्णः ॥ अवतीर्णः सन् कि करोतोत्याह-'धर्मोपादे' इत्यादि,
'धर्मोपादेयतां' " एक एव सुहृद्धर्मों, मृतमप्यनुयाति यः। शरीरेण समं नाशं, सवमन्यत्तु गच्छति ॥९८॥ इत्या|| दिवचनात् धर्मोपादेयभावं 'ज्ञात्वा' अवगम्य 'संजातेच्छः' लब्धचिकीर्षापरिणामः 'अत्र' धर्मे ' दृढम् ' अतिसूक्ष्मा
भोगेन 'स्वशक्तिं' स्वसामर्थ्यमालोच्य-विमृश्य 'ग्रहणे' वक्ष्यमाणयोगवन्दनादिशुद्धिविधिना प्रतिपत्तावस्यैव धर्मस्य 'संप्रर्वत्तते' सम्यक्प्रवृत्तिमाधत्ते, अदृढालोचने हि अयथाशक्ति धर्मग्रहणप्रवृत्तौ भङ्गसंभवेन प्रत्युतानर्थभाव इति दृढग्रहण कृतमिति ॥ ननु किमर्थमस्यैव धमग्रहणसंप्रवृत्तिर्मण्यते इत्याशङ्कयाह-- योग्यो ह्येवंविधः प्रोक्तो, जिनः परहितोद्यतैः । फलसोधनभावेन, नातोऽन्यः परमार्थतः ॥१५॥
'योग्यो' अर्हो भव्य इति योऽर्थः 'हि' यस्माद् ‘एवंविधःसद्धर्मश्रवणादित्यादि (१३-१४ ) ग्रन्थोक्तविशेषण- | | युक्तः पुमान् धर्मप्रतिपत्तेः प्रोक्तः, कैरित्याह-'जिनैः' अर्हद्भिः 'परहितोद्यतैः सकलजीवलोककुशलाधानधनैः, केन कारणेनेत्याह-'फलसाधनभावेन' 'योग्यरयव धर्मग्रहणफलं प्रति साधकभावोपपत्तेः, व्यतिरेकमाह-'न' नैव 'अतः' धर्मग्रहीतु:
॥३०॥
Page #65
--------------------------------------------------------------------------
________________
* 本辛 * 本 * 众非瓜产经
' अन्यः ' पूर्वश्लोकद्वयोक्तविशेषणविकलः ' परमार्थतः ' तत्ववृत्या योग्य इनि ॥
इति सद्धर्मग्रहणाई उक्तः, साम्प्रतं तत्प्रदान विधिमनुवर्णयिष्याम इति ॥ १ ॥ (१३४) एतत्सुगममेव ॥ १ ॥ ननु धर्मः स्वचित्तपरिशुद्धयधीनः तत्किमस्यैवं ग्रहणेनेत्याशंक्याह
धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकारणमिति ॥ २ ॥ (१३५) 'धर्मग्रहणम्' उक्तलक्षणं 'हिः यस्मात् 'सत्प्रतिपत्तिमत्' दृढशक्तिपर्यालोचनादिना शुद्धाभ्युपगमवत्, किमि - त्याह-' विमलभावकारणं' स्वफलमसाधनावन्ध्यपरिणामनिमित्तं संपद्यते इत्येवमस्य ग्रहणविधिर्वक्तुमुपक्रम्यते इति ॥२॥ तदेव कथं संपद्यते इत्याह
तच्च प्रायो जिनवचनतो विधिनेति ॥ ३ ॥ (१३३)
' तच्च' तत्पुनः सत्प्रतिपत्तिमद्धग्रहणं 'प्रायो' बाहुल्येन, मरुदेव्यादौ क्वचिदन्यथापि संभवात्, aarद्धान्तात् यो विधिर्वक्ष्यमाणः तेन संपद्यत इति ॥ ३ ॥ एवं सति यत् संजायते तदाहइति प्रदानफलवन्त्तेति ॥ ४ ॥ (१३७)
'जिनवचनतो'
'इति' एवं सत्प्रतिपत्तिमतो विधिना धर्मग्रहणस्य विमलभावनिबन्धनवायां सत्यां प्रदानस्य वितरणस्य धर्मगोचरस्य गुरुणा क्रियमाणस्य शिष्याय फलवत्ता - शिष्यानुग्रहरूपफलयुक्तत्वमुपपद्यते, अन्यथोषर वसुन्धराबीजवपनमिव निष्फलमेव स्यादिति ॥ ४ ॥ प्रागविशेषतो धर्मो ग्राह्यतयोक्तः, तत्र च प्रायोऽभ्यस्तश्रावकधर्मो यतिधर्मयोग्यो भवतीति गृहस्थधर्मग्रह
*本*本*本辛费贵 孟
Page #66
--------------------------------------------------------------------------
________________
धर्मबिन्दु प्राध माध्यायः३ ॥३१॥
सम्पन्दशिंनस्याॐावश्यकतालक्षणं
णविधिमेवादौ बिभणिषुरिदमाह
सति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणं, नान्यथेति ॥५॥ (१३८) __ 'सति' विद्यमाने 'सम्यग्दर्शने' सम्यक्त्वलक्षणे 'न्याय्यं' उपपन्नं 'अणुव्रतादीनां' अणुव्रतगुणवतशिक्षाव्रतानां 'ग्रहण' अभ्युपगमः, 'न' नैव 'अन्यथा' सम्यग्दर्शने असति, निष्फलत्वप्रसङ्गात् , यथोक्तम्-" सस्यानीवोपरे क्षेत्रे, निक्षितानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते ॥९९ ॥ संयमा नियमाः सर्वे, नाश्यन्तेऽनेन पावनाः । क्षयकालानलेनेव, पादपाः फलशालिनः॥१०॥" सम्यग्दर्शनमेव यथा स्यात्तथाऽऽह--
जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शन मिति ॥६॥ (१३९) जिनवचनश्रवणं-प्रतीतरूपमेव, आदिशब्दात्तथाभव्यत्वपरिपाकापादितो जीववीर्यविशेषलक्षणो निसर्गों गृह्यते, ततो जिनवचनश्रवणादेः सकाशात् यः 'कर्मक्षयोपशमादिः कर्मणः-ज्ञानावरणदर्शनावरणमिथ्यात्वमोहादेः क्षयोपशमोपशमक्षयलक्षणो गुणः तस्मात् 'सम्यग्दर्शनं ' तत्त्वश्रद्धानलक्षणं विपर्ययव्यावृत्तिकारि असदभिनिवेशशून्य शुद्धवस्तुमज्ञापनानुगतं निवृत्ततोत्रसंक्लेशं उत्कृष्टबन्धाभावकृत् शुभात्मपरिणामरूपं समुज्जम्भते, कर्मक्षयादिरूपं चेत्यमवसेयं-" खीणो निद्यायहुआसणो व छापिहियच उवसंता। दरविज्झायविहाडियजलणोवम्मा खोवसमा ॥१०१॥ 'विघाटित' इति इतस्ततो विप्रकीर्ण इति ॥ ७॥ कीदृशमित्याह
प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तदिति ॥ ७॥ (१४०)
दिशब्दात्तथानणा -ज्ञानावरार असदभिान
खी
॥३२॥
Page #67
--------------------------------------------------------------------------
________________
प्रश्नमः-स्वभावत एव क्रोधादिकरकषायविषविकारकटुफलावलोकनेन वा तनिरोधः संवेगो-निर्वाणाभिलाषः निदो-भवादुद्वेजनं अनुकम्पा-दुःखितसत्त्वविषया कृपा आस्तिक्यं-'तदेव सत्यं निःशंकं यजिनैः प्रवेदित मिति प्रतिपत्तिलक्षणं ततः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानामभिव्यक्तिः-उन्मोलनं लक्षणं-स्वरूपसत्ताख्यापकं यस्य तत्तथा 'तदिति सम्यग्दर्शनम् ॥ ७॥ एवं सम्यग्दर्शनशुद्धौ यद् गुरुणा विधेयं तदाह
उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानमिति ॥८॥ (१४१)
इह भव्यस्य भवभीरोधर्मग्रहणोद्यममवलम्बमानस्य गुरुणा प्रथमं क्षमामार्दवादियतिधर्मः सप्रपञ्चमुपवर्ण्य प्रदानुमुपस्था- | पनीयः, तस्यैव सर्वकर्मरोगविरेचकत्वात् , यदा चासावद्यापि विषयसुखपिपासादिभिरुत्तमस्य क्षमामार्दवादेयतिधर्मस्य पतिपत्तिः-अभ्युपगमः तस्यामसहिष्णुः-अक्षमः तदा तस्य 'तत्कथनपूर्व' स्वरूपभेदादिभिस्तेषाम्-अणुव्रतादीनां कथनं-काशनं पूर्व-प्रथमं यत्र तत्तथा, क्रियाविशेषणमेतत्, ‘उपस्थितस्य' गृहीतुमभ्युद्यतस्य, किमित्याह-'विधिना' वक्ष्यमाणेनाणुव्रतादिदानं कर्त्तव्यमिति ॥ ८॥ अन्यथा प्रदाने दोषमाह
सहिष्णोः प्रयोगेऽन्तराय इति ॥९॥ (१४२) 'सहिष्णोः ' उत्तमधर्मप्रतिएत्तिसमर्थस्य 'प्रयोगे' अणुव्रतादिप्रदानव्यापारणे अन्तरायः चारित्रप्रतिपत्तेः कृतो गुरुणा भवति, स च भवान्तरे आत्मनश्चारित्रदुर्लभत्वनिमित्तमिति ॥ ९॥ अत्रैवोपचयमाह
अनुमतिश्चेतरत्रेति ॥ १० ॥ (१४३)
Page #68
--------------------------------------------------------------------------
________________
धर्मबिन्दु
बादध-] मांध्या
अणुव्रतदानेदोवाभाव:
यः३
॥३२॥
'अनुमतिः' अनुज्ञादोषः चकारो दूषणान्तरसमुच्चये 'इतरत्र' अणुव्रतादिप्रतिपत्तौ प्रत्याख्यातसावधांशात् योऽन्यः अप्रत्याख्यातः सावद्यांशः तत्रापद्यते, तथा च यावज्जीवं सर्वथा सावधपरिहारपतिज्ञाया मनाग् मालिन्यं स्यादिति तत्कथनपूर्वकमित्युक्तम् ॥१०॥अथैतव्यतिरेके दोषमाह
अकथन उभयाफल आज्ञाभङ्ग इति ॥११॥ (१४४) यदि उत्तमधर्मप्रतिपत्त्यसहिष्णोः अणुव्रतादिलक्षणं धर्म न कथयति गुरु तदा अकयने उभय-यतिश्राद्धधर्मलक्षणं न फलं यस्यासौ उभयाफल: 'आज्ञाभङ्गः' भगवच्छासनविनाशनमत्यन्तदुरन्तं जायत इति । भगवदाज्ञा चेयम्-"श्रममविचिन्त्यात्मगतं तस्माच्छ्रेयः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टाऽनुगृह्णाति ॥१०२॥” इति ॥ ननु सर्वसावधयोगप्रत्याख्यानाक्षमस्याणुव्रतादिपतिपत्तौ सावद्यांशप्रत्याख्यानप्रदाने कथमितरत्रांशे नानुमतिदोषप्रसङ्गो गुरोः इत्याशक्याह
भगवद्वचनप्रामाण्यादुपस्थितदाने दोषाभाव इति ॥ १२॥ (१४५) उपासकदशादौ हि भगवता स्वयमेवानन्दादिश्रमणोपासकानामणुव्रतादिप्रदानमनुष्ठितमिति श्रूयते, नच भगवतोऽपि तत्रानुमतिप्रसङ्ग इति प्रेये, भगवदनुष्ठानस्य सर्वाङ्गसुन्दरत्वेनैकान्ततो दोषविकलत्वात् , भगवतो वचनस्य प्रामाण्यादुपस्थिततस्य-ग्रहीतुमुद्यतस्य जन्तोरणुव्रतादिप्रदाने साक्षिमात्रभावमवलम्बमानस्य सावधांशानिरोधेऽपि नानुमतिप्रसङ्गो गुरोः, मागेव | तस्य स्वयमेव तत्र प्रवृत्तत्वादिति ॥ १२ ॥ कुन एतदिति चेदुच्यते
गृहपतिपुत्रमोक्षज्ञातादिति ॥ १३-१४६ ॥
॥३२॥
Page #69
--------------------------------------------------------------------------
________________
गृह पतेः-वक्ष्यमाण कथानकाभिधास्यमाननामधेयस्य श्रेष्टिनः राजग्रहाद् यः पुत्राणां मोक्षो-विमोचनं तदेव ज्ञातदृष्टान्तः तस्मात, भावार्थश्च कथानकगम्यः, तच्चेद-समस्ति सकल सुरसुन्दरीमनोहरविलासोपहासप्रदानप्रवणसीमन्तिनीजनकटाक्षच्छटाक्षेपोपलक्ष्यमाणनिखिलरामणीयकप्रदेशो देशो मगधाभिधानः, तत्र च तुषारगिरिशिखरधवलप्रासादमालाविमलकूटकोटिभिरकालेऽपि शरदभ्रलोलां कुर्वाणमिव बभूव वसन्तपुरं नाम नगरं, तस्य च पालयिता सेवावसररभसप्रणतनिखिल भूपाल विमलमौलिमुकुटकोटीविलग्नमाणिक्यमयूखवाताभिरश्रितक्रमकमलयुगः चण्डदोर्दण्डव्यापारितमण्डलानखण्डितारातिमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलपकरप्रसाधिताशेपसंग्राममहीमण्डलः समजायत जितशत्रुनामा नृपतिः, तस्य च सकलजननपनमनोहारिणी पूर्वभवपरम्परोपार्जितपुण्यप्राग्भारनिर्मापितफलसंबन्धानुकारिणी विबुधबधविलासावलेपापहारिणी बभूव प्रेयसी धारिणो, तया च सार्द्धमसौ महीपतिः प्रणताशेषक्षितिपतिः दूरतो निराकृनिकृतिर्मनोहरपञ्चप्रकारभोगान् भुनानो महान्तमनेहासमनैषीत् । इतश्च तत्रैव पुरे प्रचुरतरद्विपदचतुष्पदापदहिरण्यसुवर्णधनधान्यशलशिलामुक्तापवालपद्मरागवैडूर्यचन्द्रकान्तेन्द्रनीलमहानीलराजपदृप्रभृतिप्रवरपदार्थसार्थपरिपूर्णसमृद्धिसमुपहसितश्रीकण्ठसखदर्पोद्रेको दीनानाथान्धप१प्रमुखप्राणिप्रणाशिताशेषशोकः समजनि समुद्रदत्ताभिधानो निखिलबणिग्वर्गप्रधानो गुणगणगरिष्ठः श्रेष्ठी, तस्य चाश्रय इव लावण्यगुणानां उदाहरणमिव सर्वश्रेयोवरतूनां महानिधानमिव पुर यरत्नानां भूषणमिव स्वकुलसंततेः पादप इव सौकुमार्यवनलतायाः समभवत् सुमङ्गलाभिधाना सधर्मचारिणी, तस्यामसौ निबिडबद्धानुरागो जीवलोकोद्भवप्राज्यवैषयिकशर्मसागरोदरमध्यमग्नोऽनल्पं कालमतिवाहयांचकार, प्रस्तावे च समजनिषत तयो विशदसमाचारसमाचरणपवित्राः पुत्राः क्रमेण प्रियङ्कर-क्षेमङ्कर-ध
Page #70
--------------------------------------------------------------------------
________________
यहिपुत्रमोक्षज्ञातम्
धर्मबिन्दु
नदेव-सोमदेव-पूर्णभद्र-माणिभद्रनामानः षट् , ते च निसर्गतः एव गुरुजनविनयपरायणाः परमकल्याणप्रदानप्रवणपरिशुद्धश्रादध-IAL
त्रिवर्गबद्धानुरागाः अनुरागभरसमाकृष्यमाणकीर्तिकामिनोब,ढोपगूढाः सकलसज्जनमनःसंतोषकातुच्छसमुच्छलद्दयादाक्षिण्यमाध्या
पायप्राज्यगुणालङ्कृतशरीराः शरीरसौन्दर्योत्कर्षतिरस्कृतमकरकेतनलावण्यदर्पातिरेकाः वणिग्जनोचितव्यवहारसारतया पियः३ ॥३३॥
तरमतिदूरमतिक्रान्तकुटुम्बचिन्ताभारमकार्षः। अन्यदाच धारिणी देवी अन्तःपुरान्तः नरपतौ पटुपटहमवादनप्रवृत्ते अनेककरणभङ्गसङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधि व्यधात् , ततः संतोषभरतरलितमनाः महीपतिः प्रियायै वरंपायच्छत् , सा चोवाच-यथा देव ! अद्यापि तवान्तिक एव वरस्तिष्ठत, प्रस्तावे याचिष्यत इति. एवं च गच्छति काले समाययौ अन्यदा कामुकलोकविलासोल्लाससाहाय्यकारो कौमुदीदिवसः,विज्ञप्तश्च देव्या वसुन्धराधिपतिः-देव! क्रियतां वरेण प्रसादः यथाऽद्य कर्पूरपूरप्रतिभशशधरकरनिकरपरिपूरितनिखिलाशायां निशायामिमां नगरी गरीयसा स्वपरिवारेण शेषान्तःपुरेण च परिकरिता सती | त्रिकचतुष्कादिरमणीयप्रदेशसौन्दर्यावलोकनकुतूहलेनास्खलितप्रसरा परिभ्रमामीति, तदन्वेष राजा सर्वत्र नगरे पटहपदानपूवैकं सकलपुरुषव्यक्तीनां रजनीनगर निर्वासनाज्ञामुद्घोषयामास, ततः प्रातःक्षणादारभ्य यथासंवाई सर्वेष्वपि पुरुषेषु नगराद्वहिर्गन्तुं प्रवृत्तेषु समुचितसमये स्वयमेव महीपतिर्मन्त्रिप्रमुखनगरप्रधाननरपरिकरितो नगराद्वहिरैशानदिग्भागवर्तिनि मनोरमोद्याने जगाम, ते च षडपि श्रेष्ठिमूनवो लेख्यककरणव्यग्रा एते व्रजाम एते बजाम इति निबिडबद्धाभिसन्धयोऽपि सन्ध्यासमयं यावदापण एव तस्थुः । इतश्चास्ताचलचूडामलश्चकार सहस्रकरः, ते च त्वरापरिगता यावदायान्ति मोपुरसमीपे तावत्तजीविताशयेव सहोभयकपाटपुटसङ्घटनेन निरुद्धानि प्रतोलीद्वाराणि, तदनु चकितचकिताः केनाप्यलक्ष्यमाणास्ते प्रत्यावृत्य
Page #71
--------------------------------------------------------------------------
________________
0***45*346) ****%* 4G 4500-400 650% 44
हृद्यान्तर्गत गुप्तभूमि हैकदेशे निलिल्यिरे, धारिण्यपि रात्रौ कृतोदारशृङ्गाराऽन्तः पुरेण सह निर्गतनरे नगरे यथाभिप्रायमभिरेमे, संजाते च प्रातः समये समुत्थिते कमलखण्डमबोधप्रदानप्रवणे किंशुककुसुमसच्छाया तुच्छोच्छलद्रागरञ्जित दिग्मण्डले जगदेकनेत्रे मित्रे नगराभ्यन्तरमप्रविष्टेष्वेव पुरुषेषु महीपालो नगरारक्षकानादिदेश यथा-निभालयत नगरं मा न कचिदस्मदाज्ञाभङ्गकारी मानवः समजनीति, सम्यग्गवेषयद्भिश्च तैः कृतान्तदूतैरिव प्रापिरे श्रेष्ठिनन्दनाः निवेदिताश्च तत्समयमेव राज्ञः, ततोऽसौ कुपित कृतान्तभीषणभृकुटिभङ्गसङ्गिललाटपट्टमाधाय तच्छ्रेष्ठिपुत्रवधाय तान् व्यापारयांचकार, अत्रान्तरे समाकर्ण्यकाण्डे एव मुद्गराघातपातसदृशमेनं वृत्तान्तं श्रेष्ठी शान्त इव भ्रान्त इव पीडित इव करिमकरनिकरकरास्फालनसमुच्छलद्बहलकल्लोलाकुलितमहाजलनिधिमध्यसंभिन्नयानपात्रान्तर्लीयमानमानव इव किंकर्त्तव्यतामूढः क्षणं कामप्यवस्थां दारुणामन्वभूत्, तदनु निराकृत्य कतरनरविलसितं अपास्य स्त्रीजनोचितं शोकावेगं समालम्ब्य धीरनरोचितं धैर्ये अवगणय्य दीनभावं नगर प्रधानलोकसहायः प्रवररत्नभृतभाजनव्यग्रपाणिः सहसैव राज्ञो विज्ञापनायोपतस्थौ, विज्ञतवांश्च यथा-देव! न कुतोऽपि चित्तदोषादमी मत्पुत्रा नग
निर्गमभाजो बभ्रुवुः, किंतु तथाविधलेख्यव्यग्रतया निर्गन्तुमपारयतामादित्यास्तमयसमयागमे च प्रचलितानामप्यमीषां तोलीद्वारपिधानवशेन निर्गमो नाभूत्, अतः क्षम्यतामेकोऽपराधः क्रियतां प्रियपुत्रजीवितव्यप्रदानेन प्रसादः एवं च पुनः पुनः भण्यमानोऽपि राजा अवन्ध्यकोपमात्मानं मन्यमानो यदा न मोक्तुमुत्सहते तदा तत्कोपनिर्यापणायैकपुत्रोपेक्षणेन पञ्च मोचयितुमारब्धाः यदा तानपि न मुञ्चति तदा द्वयोरुपेक्षणेनैव चत्वारः, एवं तदमोचनेऽपि त्रयो द्वौ यावच्छेषोपेक्षणेन एको ज्येष्ठ इति, ततः संनिहितामात्यपुरोहिताद्यत्यन्ताभ्यर्थनेन निर्मूलकुलोच्छेदो महते पापायेति पर्यालोचनेन च मनाग् मन्दी
Page #72
--------------------------------------------------------------------------
________________
धर्यविन्दु श्राद्धधसध्या
॥३४॥
भूतकोपोद्रेको महीपतिज्येष्टपुत्रमेक मुमोचेति । अयमत्रार्थोपनयः-यथा तद्वसन्तपुरं नगरं तथा संसार: यया राजा तथा श्रावका
योगवन्द यथा श्रेष्ठी तथा गुरुः यथा च षट् पुत्रास्तथा षट् जीवनिकायाः, यथा च तस्य पितुः शेषपुत्रोपेक्षणेनैकं पुत्रं मोचयतोऽपि
नादिशुन शेषपुत्रवधानुमतिः एवं गुरुर्निजपुत्रप्रायान् षडपि जीवनिकायस्तैस्तैः प्रव्रज्योत्साहनोपार्यगृहस्थतया तद्धप्रवृत्तात् श्रावका द्धिावता मोचयति, यदा चासौ नाद्यापि तान् मोक्तुमुत्सहते तदा ज्येष्ठपुत्रप्रायं त्रसकायं शेषोपक्षणेन मोचयतोऽपि गुरोर्न शेषकायव- निच. धानुमतिदोष इति ॥ १३ ॥ विधिनाऽणुव्रता दिप्रदानमित्युक्तं प्रागतस्तमेव दर्शयति
योगवंदननिमित्तदिगाकारशुडिविधिरिति ॥ १४ ॥ (१४७) इह शुद्धिशब्दः प्रत्येकमभिसंबध्यते, ततो योगशुद्धिर्वन्दनशुद्धिनिमित्तशुद्धिर्दिकशुद्धिराकारशुद्धिश्च विधिः अणुव्रतादिप्रतिपत्तौ भवति, तत्र योगा:-कायवाङमनोव्यापारलक्षणाः तेषांशुद्धिा-सोपयोगान्तरगमननिरवद्यभाषणशुभचिन्तनादिरूपा वन्दनशुद्धिः-अस्खलितामिलितप्रणिपातादिदण्डकसमुच्चारणासंभ्रान्तकायोत्सर्गकरणलक्षणा निमित्तशुद्धिः-तत्कालोच्छलि-* तशङ्खपणवादिनिनादश्रवणपूर्णकुम्भभृङ्गारच्छत्रध्वजचामराद्यवलोकनशुभगन्धाघ्राणादिस्वभावा दिशुद्धिः-प्राच्युदीचीजिनजिनचैत्याधिष्ठिताशासमाश्रयणस्वरूपा आकारशृद्धिस्तु-राजाद्यभियोगादिप्रत्याख्यानापवादमुक्तीकरणात्मिकेति ॥१४॥
तथा उचितोपचारश्चेति ॥ १५॥ (१४८) उचितो-देवगुरुसार्मिकस्वजनदीनानाथादीनामुपचारार्हाणां यो यस्य योग्य उपचारो-धूपपुष्पवस्त्रविलेपनासनदा| नादिगौरवात्मकः, स च विधिरित्यनुवर्तत इति ॥ १५ ॥ अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह
|॥३४॥
Page #73
--------------------------------------------------------------------------
________________
स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्चेति ॥१६॥ (१४९) इह प्राणातिपातः-प्रमत्तयोगात् माणिव्यवरोपणरूपः, स च स्थूलः सूक्ष्मश्च, तत्र सूक्ष्मः पृथिव्यादिविषयः, स्थूलश्च दीन्द्रियादित्रसगोचरः, स्थूलश्चासौ प्राणातिपातश्चेति स्थूलप्राणातिपातः,आदिशब्दात् स्थूलमृषावादादत्तादानाब्रह्मपरिग्रहाः परिगृह्यन्ते, ते च प्रायः प्रतीतरूपा एव, ततस्तेभ्यः स्थूलपाणातिपातादिभ्यः पश्चभ्यो महापातकेभ्यो विरतिः-विरमणं, किमित्याह-साधुव्रतेभ्यः सकाशात् अणूनि-लघूनि व्रतानि-नियमरूपाणि अणुव्रतानि, कियन्तीत्याह-'पञ्चे' ति पञ्चसंख्यानि पश्चाणुव्रतानि, बहुवचननिर्देशेऽपि यद्विरतिरित्येकवचननिर्देशः स सर्वत्र विरतिसामान्यापेक्षयेति ॥ ७॥
तथा-दिग्व्रतभोगोपभोगमानानर्थदण्डविरतयस्त्रीणि गुणव्रतानीति ॥१७॥ (१५०) दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः सप्त नया ऊर्ध्वमधश्च द्वे, एवं दशसु दिक्षु विषये गमनपरिमाणकरण लक्षणं व्रत-नियमो दिग्वतं, मुज्यते-सकृदेवासेव्यते यदशनादि तद्भोगः, पुनः पुनर्भुज्यते वसनवनितादि यत्तदुपभोगः, भोगश्चोपभोगश्च भोगोपभोगौ तयोर्मानं-परिमाणं भोगोपभोगमानं, अर्थ:-प्रयोजनं धर्मस्वजनेन्द्रियगतशुद्धोपकारस्वरूपं तस्मै अर्थाय दण्ड:-सावद्यानुष्ठानरूपस्तत्पतिषेधादनर्थदण्डः, स च चतुर्दा-अपध्यानाचरितप्रमादाचरितहिंस्रमदानपापकर्मोपदेशे भेदात , तस्य विरतिरनर्थदण्ड विरतिः, ततः दिखतं च भोगोपभोगमानं चानर्थदण्डविरतिश्चेति समासः, किमित्याह-'त्रीणि त्रिसंख्यानि 'गुणव्रतानि गुणाय-उपकाराय व्रतानि भवन्ति, गुणवतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्धयभावदिति । १७॥
Page #74
--------------------------------------------------------------------------
________________
धर्मविन्दु
श्राद्धमध्यिायः३
एकानेक वतारोप णम.
॥३५॥
तथा-सामायिकदेशावकाशिकपोषधोपवासातिथिसंविभागाश्चत्वारि शिक्षापदानोति ॥१८॥ (१५१) ___ समानां-मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शनज्ञानचारित्राणामायो-साभः समायः समस्य वा-रागद्वेषांतरालवर्तितया मध्यस्थस्य सतः आयः सम्यग्दर्शनादिलक्षणः समयः साम्नो वा-सर्वजीवमैत्रीभावलक्षणस्य आयः समायः, सर्वत्र स्वार्थिकेकमत्ययोपादानात् सामायिक-सावद्ययोगपरिहारनिरवद्ययोगानुष्ठानरूपो जीवपरिणामः, देशे-विभागे प्रामतिप्रन्नदिग्व तस्य योजनशतादिपरिमाणरूपस्य अवकाशो-गोचरो यस्य प्रतिदिनं प्रत्याख्येयतया तत्तथा, पोषं धत्ते पोषधःअष्टमीचतुर्दश्यादिपर्वदिवसः उपेति-सह उपावृत्तदोषस्य सतोगुणैराहारपरिहारादिरूपैर्वासः उपवासः, यथोक्तम्-"उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम्॥१०॥ ततः पोषधेषूपवासः पोषधोपवासः, अतिथयो-वीतरागधर्मस्याः साधवः साध्व्यः श्रावका श्राविकाच तेषां न्यायागतकल्पनीयादिविशेषणानामन्नपानादीनां संगतवृत्त्या विभजन-वितरणं अतिथिसंविभागः, तथा च उमास्वातिवाचकविरचितश्रावकमज्ञप्तिसूत्रं-यथा-"अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाच, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थानासनदानपादप्रमार्जननस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदानेन संविभागः कोर्य" इति, ततः सामायिकं च देशावकाशिकं च पोषधोपवासश्चातिथिसंविभागश्चेति समासः, 'चत्वारि' चतुःसंख्यानि, किमित्याह-'शिक्षापदानि' शिक्षासाधुधर्माभ्यासः तस्य पदानि-स्थानानि भवन्ति ॥९॥
ततश्च-एतदारोपणं दानं यथाऽहें, साकल्यवैकल्याभ्यामिति ॥ १९॥ (१५२)
Page #75
--------------------------------------------------------------------------
________________
इहैतेषामणुव्रतादीनां प्रागुक्तलक्षणे यथा-धर्माहे प्राणिनि यदारोपण-उक्तविधिनैव निक्षेपणं, तत्किमित्याह-दानं पागुपन्यस्तमभिधीयते, कथमित्याह-'साकल्यवकल्याभ्यां' साकल्येन-समस्ताणुव्रतगुणवतशिक्षापदाध्यारोपलक्षणेन वैकल्येन वा-अणुव्रतादीनामन्यतमारोपणेनेति ॥१९॥ एवं सम्यक्त्वमूलकेष्वणुव्रतादिषु समारोपितेषु यत्करणीय तदाह
गृहीतेष्वनतिचारपालनमिति ॥२०॥ (१५३) 'गृहीतेषु' प्रतिपन्नेषु सम्यग्दर्शनादिषु गुणेषु, किमित्याह-'अनतिचारपालन 'मिति अतिचारो-विराधना देशभङ्ग इत्येकोऽर्थः अविद्यमानोऽतिचारो येषु तानि अनतिचाराणि तेषां अनुपालन-धरण कार्य, अतिचारदोषोपघातेन हि कुवातोपहतसस्यानामिव स्वफलप्रसाधनं प्रत्यसमर्थत्वादमीषामिति अनतिचारपालनमित्युक्तम् ॥२०॥ अथातिचारानवाहशका १ काङ्क्षा २ विचिकित्सा ३ऽन्यदृष्टिप्रशंसासंस्तवाः४.५ सम्यग्दृष्टेरतिचारा इति ॥२१॥ (१५४)
इह शङ्का काङ्क्षा विचिकित्सा च 'ज्ञानाद्याचारकथन मिति सूत्रव्याख्यानोक्तलक्षणा एव, अन्यदृष्टीनां-सर्वज्ञपणीतदर्शनव्यतिरिक्तानां शाक्यकपिलकणादाक्षपादादिप्रणीतमतवर्तिनां पापण्डिनां प्रशंसासंस्तवौ अन्यदृष्टिप्रशंसासंस्तवौ, तत्र'पुण्यभाज एते' सुलब्धमेषां जन्म' 'दयालव एते' इत्यादिका प्रशंसा, संस्तवश्वेह संवासजनितः परिचयः वसनभोजनदानालापादिलक्षणः परिगृह्यते न स्तवरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचये, 'असंस्तुतेषु प्रसभं भयेष्वि'त्या| दाविवेति, ततः शङ्का च काङ्क्षा च विचिकित्सा च अन्यदृष्टिप्रशंसासंस्तवौ चेति समासः, किमित्याह- सम्यग्दृष्टे' सम्यग्दर्शनस्य 'अतिचारा' विराधनाप्रकाराः संपद्यन्ते, शुद्धतत्त्वश्रद्धानबाधाविधायित्वादिति ॥२१॥
Page #76
--------------------------------------------------------------------------
________________
बर्मबिन्दु
श्राध-IA
सम्यक्त्व तशीलानामतिचारा
संध्या-1
यः३
॥३६॥
तथा-व्रतशीलेषु पञ्च पञ्च यथाक्रममिति ॥ २२ ॥ (१५५) व्रतेषु-अणुव्रतेषु शीलेषु च-गुणवतशिक्षापदलक्षणेषु पञ्च पञ्च 'यथाक्रम' यथापरिपाटि, अतिचारा भवन्तीति सर्वत्रानुवर्त्तते इति ॥२२॥ तत्र प्रथमाणुव्रते
बन्ध ? वध २ च्छविच्छेदा ३ तिभारारोपणा ४ नपाननिरोधा ५ इति ॥ २३॥ (१५६)
स्थूलपाणातिपातविरति लक्षणस्याणुव्रतस्य बन्धो वधः छविच्छेदोऽतिभारारोपणमन्नपाननिरोधश्चेत्यतिचाराः, तत्र बन्धो-रज्जुदामनकादिना संयमनं वधः-कशादिभिर्हननं छवि:-त्वक् तद्योगाच्छरीरमपि छविः तस्य छेदः-असिपुत्रिका- | दिभिः पाटन तथाऽतीव भारोऽतिभारः-प्रभृतस्य पूगफलादेवादिपृष्ठादावारोपणं तथा अन्नपानयोः-भोजनोदकयोनिरोधःव्यवच्छेदः अन्नपाननिरोधः, एते च क्रोधलोभादिकषायमलकलङ्कितान्त:करणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोरतिचारा भवन्ति, सापेक्षस्य तु बन्धादिकरणेऽपि सापेक्षत्वान्नातिचारत्वमेषामिति । अत्र चायमावश्यकचूायुक्तो विधिःबन्धो द्विपदानां चतुष्पदानां वा स्यात् , सोऽप्यर्यायानर्थाय वा, तत्रानर्थाय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविधः स्यात्-सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्षः पुनर्यद्दामग्रन्थिना यश्च बद्धः सन् | शक्यते प्रदीपनकादिषु विमोचयितुं वा छेत्तुं वा, एवं तावच्चतुष्पदानां बन्धः। द्विपदानां पुनरेवं-दासो वा दासी वा चौरो वा पाठादिप्रमत्तः पुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति, तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्रहीतव्याः ये अबद्धा एवासत इति १, वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना,
॥३६॥
Page #77
--------------------------------------------------------------------------
________________
| सापेक्षवधः पुनरेवम्-आदित एव भीतपर्षदा श्रावकेण भवितव्यं, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति २, छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपादकर्णनासिकादि यन्निर्दयं छिनत्ति, सापेक्षः पुनर्यद् गण्डं वाऽरुर्वा छिन्द्याद्वा दहेद्वेति ३. तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका | सा श्राद्धन मोक्तव्या, अथान्याऽसौ न भवेत्तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारादसौ किञ्चिदूनः क्रियते, हलशकटादिषु पुनरुचितवेलायामसौ मुच्यत इति ४, तथा भक्तपानव्यवच्छेदो न कस्यापि कर्तव्यः, तीक्ष्णबुभुक्षो ह्यन्यथा म्रियते, सोऽप्यानदिमेदो बन्धवत् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्साथै स्यात् , अपराधकारिणि च वाचैव वदेत् यद् अद्य ते न दास्यते भोजनादि, शान्तिनिमित्तं चोपवासं कारयेत् ५। किं बहुना ?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति ॥ ननु प्राणातिपात एव वतिना | प्रत्याख्यातः, ततो बन्धादिकरणेऽपि न दोषो, विरतेरखण्डितत्वात्, अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्, किंच-बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्यंत, प्रतिव्रतं पश्चानामतिचारव्रतानामाधिक्यादित्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते, सत्यं प्राणातिपात एव प्रत्याख्यातो न बन्धादयः, केवलं तत्पत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता एव द्रष्टव्याः तदुपायवात्तेषां, नच बन्धादिकरणेऽपि व्रतभङ्गः, किं त्वतिचार एव, कथम् ?, इह द्विविध व्रत-अन्तर्वृत्त्या बहिवृत्त्या च, तत्र मारयामीतिविकल्पाभावेन यदा कोपाद्यावेशात्परमाणपहाणमवगणयन् बन्धादौ प्रवर्तते न च प्राणघातो भवति तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तत्त्वेनान्तवृत्त्या व्रतस्य भङ्गः, प्राणिघाताभावाच बहिर्वत्त्या
Page #78
--------------------------------------------------------------------------
________________
धर्मबिन्दुमा
श्रावक व्रताति चारा
श्राद्धमध्यिायः३ ॥३७॥
पालनमिति देशस्य भानाद्देशस्यैव च पालनादतिचारव्यपदेशः प्रवर्तते, तदुक्तम्-"न मारयामीति कृतव्रतस्य, विनैव मृत्यु क इहातिचारः? । निगद्यते यः कुपितो वधादीन् , करोत्यसौ स्यानियमानपेक्षः ॥१०४॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाहयाहीनतया तु भग्नः । देशस्य भवादनुपालनाच, पूज्या अतोचारमुदाहरन्ति ॥१०॥" यच्चोक्तं 'व्रतेयत्ता विशीर्येत' इति, तदयुक्तं, विशुद्धहिंसादिविरतिसद्भावे हि बंधादीनामभाव एवेति, तदेवं बन्धादयोऽतिचारा एवेति, बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्येवमत्रातिचारतया दृश्या इति ॥ २३ ॥ अथ द्वितीयस्य
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारस्वदारमन्त्रभेदा इति ॥२४॥ (१५७)
मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यासापहारश्च स्वदारमन्त्रभेदश्चेति समासः, तत्र मिथ्योपदेशो नाम अलीकवादविषय उपदेशः-इदमेवं चैवं च ब्रूहीत्यादिकमसत्याभिधानशिक्षणं १ 'रहस्याभ्याख्यानं ' रहः-एकान्तस्तव भवं रहस्य-रहोनिमित्त तच्च तदभ्याख्यानं चेति समासः, एतदुक्तं भवति-रहसि मन्त्रयमाणानवलोक्याभिधत्ते ' एते हि इदं चेदं च राजादिविरुद्धं मन्त्रयन्ते' इति २ कूटलेखस्य-असद्भूतार्थसूचकाक्षरलेखनस्य करणं कूटलेखक्रिया ३ 'न्यासापहार' इति न्यास:-परगृहे रूपकादेनिक्षेपः तस्य अपहार:-अपलापः ४ 'स्वदारमन्त्रभेद' इति स्वदाराणां उपलक्षणार्थत्वान्मित्रादीनां च मन्त्रस्य-गुप्तभाषितस्य भेदो-बहिः प्रकाशनं इति ५ । अत्र च मिथ्योपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भंग एव, न वदामीति व्रतान्तरे तु न किश्चन तथापि सहसात्कारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकयनद्वारेण मृषोपदेशं यच्छतोऽ
Page #79
--------------------------------------------------------------------------
________________
众李#众 众诺
तिचारोऽयं व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च, भग्न भग्नरूपत्वाद् व्रतस्येति । ननु रहस्याभ्याख्यानमसद्दोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव, न त्वतिचार इति, सत्यं, किंतु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतस्य भङ्गः परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीत्रसंक्लेशादभ्याख्याति तदा भो व्रतनिरपेक्षत्वात्, आह च - " सहसऽब्भक्खाणाई जाणं तो जइ करेइ तो भंगो। जइ पुणणाभोगाईहिंतो तो होड़ अइयारो ॥ | ॥१०६ ॥ कूटलेखकरणं तु यद्यपि कायेन मृषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्य वा व्रतस्य भङ्ग एव, व्रतान्तरे रे तु न किञ्चन, तथापि सहसात्कारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं तु पुनर्लेखनमिति भावनया मुग्धबुद्धेर्व्रतसव्यपेक्षस्यातिचार इति । न्यासापहारे पुनरदत्तादानं साक्षादेव भवति, मृषावादवतातिचारत्वं चास्य न त्वदीयं मम समीपे किञ्चिदपीत्यनाभोगादिनाऽपढुवानस्य स्यादिति । स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारो घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितः स्वदारादेर्मरणादि संभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिद् भङ्गरूपत्वादतिचार एवेति ॥ २४ ॥ अथ तृतीयस्य
स्तेनप्रयोग तदाहृतादा न विरूद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहारा इति ॥ २५ ॥ (१५८) स्तेनप्रयोगश्च तदाहृतादानं च विरुद्धराज्यातिक्रमथ हीनाधिकमानोन्मानानि च प्रतिरूपकव्यवहारश्चेति समासः, तत्र स्तेना:- चौरास्तेषां प्रयोगो-व्यापारणं 'हरत यूयं इत्यनुज्ञाप्रदानं १ तथा तैराहृतस्य कुङ्कुमादिद्रव्यस्यादानं - संग्रहः २ विरुद्धः - स्वकीयस्य राज्ञः प्रतिपन्थी तस्य राज्यं - कटकं देशो वा तत्रातिक्रमः - स्वराजभूमिसीमातिलङ्घनेन क्रमणं - प्रवेशः
3989) 4004 (60) 4000469) 10000 18*
Page #80
--------------------------------------------------------------------------
________________
श्रावक
अवाति
चारा
कर्मबिन्दु
विरुद्धराज्यातिक्रमः ३ हीने-स्वभावापेक्षाया न्यूने अधिक वा मानोन्माने-कुडवादितुलारूपे भवतो हीनाधिकमानोन्माने ४ | श्राद्ध
शुद्धेन ब्रोह्यादिना घृतादिना वा प्रतिरूपक-सदृशं पलञ्ज्यादि वसादि वा द्रव्यं तेन व्यवहारो-विक्रयरूपः स प्रतिरूपकसध्या-16
व्यवहार इति ५ । इह स्तेनप्रयोगो यद्यपि चौर्य न करोमि न कारयामीत्येवंप्रतिपन्नव्रतस्य भङ्ग एव तथापि किमधुना यूयं यः३ ॥३८॥
निर्व्यापारास्तिष्ठथ ? यदि वो भक्तकादि नास्ति तदाऽहं ददामि भवदानीतमोषस्य च यदि विक्रायको न विद्यते तदाऽहं विक्रेष्यामि इत्येवंविधवचनैश्चौरान व्यापारयतः स्वकल्पनया तव्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः१ तथा स्तेनाहृतं काणक्रयेण लोभदोषात् प्रच्छन्नं गृह्णचौरो भवति, यदाह-" चौरश्चौरापको मन्त्री, भेदज्ञःक्राणकक्रयी। अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥ १०७॥” ततश्चौर्यकरणाद् व्रतभङ्गः वाणिज्यमेव मया विधीयते न चौरिकेत्यध्यवसायेन च व्रतानपेक्षत्वाभावाद् न भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः२। विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनोऽननुज्ञातस्य परकटकादि| प्रवेशस्य “सामी जीवादत्तं तित्थयरेणं तहेव य गुरूहि " इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणांच चौर्यदप्डयोगेनादत्तादानरूपत्वाद् भङ्ग एव तथापि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षखात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति तथा हीनाधिकमानोन्मानव्यवहार प्रतिरूपकव्यवहारश्च परव्यसनेन परधनग्रहणरूपत्वाद् भङ्ग एव, केवलं क्षात्रखननादिकमेव चौर्य कूटतुलादिव्यवहारतत्पतिरूपकव्यवहारौ तु वणिक्कलैवेति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति ४-५ । अथवा स्तेनप्रयोगादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतित्र मव्यतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते इति । न चैते राज
॥३८॥
Page #81
--------------------------------------------------------------------------
________________
सेवकादीनां न संभवन्ति, तथाहि-आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमरतु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुदस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमय कारयति तदा राज्ञोऽप्यतिचाराः स्युरिति ॥२५॥अथ चतुर्थाणुव्रतस्य स्वदारसंतोपलक्षणस्य परदारपरिहारस्य चातीचाराःपरविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीव्रकामाभिलाषा इति ॥२६॥ (१५९)
इत्वरपरिगृहीता चापरिगृहीता च इत्वरपरिगृहीतापरिगृहीते तयोर्गमने इत्वरपरिगृहीतापरिगृहीतागमने ततः परविवाहकरणं च इत्वरपरिगृहोतापरिगृहीतागमने चानङ्गक्रीडा च तीव्रकामाभिलाषश्चेति समासः, इह परेषां-स्वापत्यव्यतिरिक्तानां जनानां विवाहकरणं-कन्या फललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं परविवाहकरणं, इह च स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः, तथा इत्वरी-अयनशीला भाटीपदानेन स्तोककालं परिगृहीता इत्वरपरिगृहीता-वेश्या, तथा अपरिगृहीता-वेश्यैव अगृहीतान्यसत्कभाटिः कुलाङ्गना वाऽनाथेति तयोर्गमनं-आसेवनं इत्वरपरिगृहीतापरिगृहीतागमनं, तथा अङ्ग-देहावयवोऽपि मैथुनापेक्षया योनिर्मेहनं वा तद्व्यतिरिक्तानि अनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडा-रमणं अनङ्गक्रीडा अथवा अनङ्ग:कामः तस्य तेन वा क्रीडा अनङ्गक्रीडा स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननोषिदवाच्यदेशासेवनमित्यर्थः, तथा कामे-कामोदयजन्ये मैथुने अथवा 'सूचनात्सूत्र मिति न्यायात् कामेषु-कामभोगेषु, तत्र कामौ-शब्दरूपे भोगा-गन्धरसस्पर्शाः तेषु तीव्राभिलापः-अत्यन्ततदध्यवसायित्वं यतो वाजीकरणादिनाऽनवरतसुरतमुखा) मदनमुद्दीपयति, एतान् समाचरन्नतिचरति चतुर्थाणुव्रतमिति । इह च द्वितीयतृतीयातिचारौ स्वदारसंतोषिण एव नेतरस्य, शेषास्तु द्वयोरपीति,
Page #82
--------------------------------------------------------------------------
________________
धर्मबिन्दु
श्रावक प्रतावि
माध्या
चारा:
यः३
॥३९॥
एतदेव च सूत्रानुपाति, यदाह-"सदारसंतोसस्स इमे पंच अइयारा" इत्यादि, भावना चेयमत्र-भाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुभानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न व्रतभङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं बनाभोगादिनाऽतिक्रमादिना वाऽतिचारः, परदारवजिनो नैतावतिचारी, इखरकालपरिगृहीतापरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनायतयैवापरदारत्वादिति ॥ अपरे त्वाःइत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवं-अपरीगृहीता नाम वेश्या तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवाकञ्चित् परदारत्वाच भगो वेश्यात्वाचाभङ्गो भङ्गाभग इत्यतिचारः । अन्ये पुनरन्यथा माहुर-“परदारवजिणो पंच होन्ति तिनि उ सदारसंतुटे । इत्यीए तिन्नि पंच व भंगविगप्पेहि नायबा ॥ १०८॥" इह भावनापरेण इत्वरकालं या परिगृहीता वेश्या तद्गमनमतिचारः परदारवर्जिनः, कथञ्चित्तस्याः परदारत्वात् , तथा अपरिगृहीतायाः अनायकुलाङ्गनाया एव यद् गमनं तदपि तस्यैवातिचारो, लोके परदारत्वेन तस्या रूढत्वात् , तत्कामुककल्पनया च परस्य भ देरभावेनापरदारत्वात् । शेषास्तूभयोरपि स्युः, तथाहि-स्वदारसंतोषिणः स्वकलत्रेऽपि तदितरस्य तु वेश्यास्वकलत्रयोरपि यदनगरतं तत्साक्षादप्रत्याख्यातमपि न विधेयं, यतोऽसावत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्राथै स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनाया:संभवादनगरतमर्थतः प्रत्याख्यातमेव, एवं परविवाहतीव्रकामाभिलाषावपीति, अतः कथञ्चित् प्रत्याख्यातेषु प्रवृत्तेरतिचारता तेषां । अन्ये त्वनक्रीडामेवं
॥३९॥
Page #83
--------------------------------------------------------------------------
________________
भावयन्ति स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत्परिहरन् स्त्रदारसंतोषी वेश्यादौ परदारवर्जकस्तु परदारेवालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति, तथा स्वदार संतोषवता स्वकलत्राद् इतरेण च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायै मैथुनं न कार्ये न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणतः तत्कारणमर्थतोऽनुष्ठितं भवति, तद्वती च मन्यते विवाह एवायं मया विधीयते न मैथुनमिति ततो व्रतसापेक्षत्वाद विचार इति । ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिर्वा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरवतानि भवन्त्येवेति कथं सा पर विवाहकरणलक्षणाविचारकारणमिति, सत्यं, केवलमव्युत्पन्नावस्थायां साऽपि संभवति, किंच यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथा आर्यसुहस्तो रङ्कस्य सर्वविरतिं दत्तवान् इदं च परविवाहवर्जनं स्वापत्यव्यतिरिक्तेsar न्याय्यमन्यथाsपरिणीता कन्या स्वच्छन्दचारिणी स्यात् ततः शासनोपघातः स्याद् विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं ' स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे सुतसंख्यापूर्त्तं वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति । अपरे पुनराहुः - परः - अन्यो यो विवाहः - आत्मन एव विशिष्टसंतोषाभावात् योषिदन्तराणि प्रति विवा हान्तरकरणं तत् पर विवाहकरणम्, अयं च स्वदार संतोषिण इति, स्त्रियास्तु स्वपुरुषसंतोषपरपुरुषवर्जनयोर्न मेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततः परविवाहकरणानङ्गक्रीडातीत्रकामाभिलाषाः स्वदार संतोषिण इव स्वपुरुषविषये स्युः, द्वितीयस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिशुआनाया अतिचारः,
(39) ***** 160) 4**041469) **0*469) *
Page #84
--------------------------------------------------------------------------
________________
श्रावक
श्राद्धधमध्यिा
व्रताति
चाराः
यः३
॥४०॥
तृतीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयः, ब्रह्मचारिणस्त्वतिक्रमादिनाऽतिचार इति ॥२६॥ अथ पञ्चमाणुव्रतस्य
क्षेत्रवास्तु १ हिरण्यसुवर्ण २ धनधान्य ३ दासीदास ४ कुप्यप्रमाणातिकमा ५ इति ॥२७॥ (१६०)
क्षेत्रवास्तुनोः१ हिरण्यसुवर्णयोः २ धनधान्ययोः३ दासीदासयोः ४ कुप्यस्य ५ च प्रमाणातिक्रमा इति समासा, तत्र क्षेत्रं-सस्योत्पत्तिभूमिः, तच्च सेतुकेतूभयभेदात् त्रिविधं, तत्र सेतुक्षेत्र-अरघट्टादिसेवयं केतुक्षेत्रं तु आकाशोदकनिष्पाद्यं उभयक्षेत्रंतु तदुभयनिष्पाद्यं, वास्तु पुनरगारं ग्रामनगरादि च, तत्रागारं त्रिविध-खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं-भूमिगृहादि उच्छ्रितंउच्छ्येण कृतं उभयं-भूमिगृहस्योपरि प्रासादः, एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य क्षेत्रान्तरादिमीलनेन अतिक्रमोऽतिचारो भवति, तथाहि-किलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात्माक्त नक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात्कथश्चिद्विरतिबाधनाचातिचार इति १ तथा हिरण्यरजतं सुवर्ण-हेम एतत्परिमाणस्य अन्यवितरणेनातिक्रमोऽतिचारो भवति, यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिपरिमाण विहितं, तत्र च तेन तुष्टराजादेः सकाशाचदधिकं तल्लब्धं, तच्चान्यस्मै व्रतभङ्गभयात् प्रददाति पूर्णेऽवधौ गृहीष्यामीति भावनयेति व्रतसापेक्षत्वात्कयश्चि द्विरतिबाधनाच्चातिचार इति २ तथा धनं-गणिमरिममेयपरिच्छेद्यभेदाच्चतुर्विधं, तत्र गणिमं पूगफलादि धरिमं गुडादि मेयं घृतादि परिच्छेद्यं माणिक्यादि धान्य-व्रीह्यादि एतत्प्रमाणस्य बन्धनतोऽतिक्रमोऽतिचारो भवति, यथा हि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभङ्गभयाचातुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते गृहीष्यामीति भावनया बन्धनेन नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यङ्कारदानादिरूपेण वा स्वीकृत्य तद्रोह
Page #85
--------------------------------------------------------------------------
________________
एव स्थापयतीत्यतोऽतिचार:३ तथा दासीदासप्रमाणातिक्रम इति सर्वद्विपदचतुप्पदोपलक्षणमेतत् , तत्र द्विपद-पुत्रकलत्रदासीदासकर्मकरशुकसारिकादि चतुष्पदं-गवोधादि तेषां यत्परिमाणं तस्य गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराधवधिना द्विपदचतुष्पदानां परिमाणं कृतं तेषां च संवत्सरमध्य एव प्रसवे अधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्मस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः ४ तथा कुप्यम्-आसनशयनादिगृहोपरकर तस्य यन्मानं तस्य पर्यायान्तरारोपणेनातिक्रमोऽतिचारो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतं, ततस्तेषां कयश्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात्तेषां द्वयेन द्वयेन एकैकं महत्तरं कारयत: पर्यायान्तरकरणेन संख्यापूरणात्स्वाभाविकसंख्याबाधनाचातिचारः, अन्ये त्वाः-तदर्थत्वेन विवक्षितकालावधेः परतोऽहमेतस्करोटकादि कुप्यं गृहीष्याम्यतो नान्यस्मै देयमिति परामदेयतया व्यवस्थापयत इति । यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थ मीलनवितरणादिना भावना दर्शितेति । यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वे नवसंख्यातिचारप्राप्तौ पञ्चसंख्यत्वमुक्तं तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात् , शिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगते विवक्षितत्वात् पश्चकसंख्ययैवातिचारपरिगणनं, अतः क्षेत्रवास्त्वादिसंख्ययाऽतिचाराणामगणनमुपपन्नमिति ॥ २७ ॥ अथ प्रथमगुणवतस्य
अधिस्तिर्यग्व्यतिक्रमक्षेत्रवृडिस्मृत्यन्तर्धानानीति ॥२८॥ (१६१) ऊर्ध्वाधस्तियगृव्यतिक्रमाश्च क्षेत्रवृद्धिश्च स्मृत्यन्तर्धानं चेति समासः, तत्र अधिस्तियक्षेत्रव्यतिक्रमलक्षणास्त्रयोs
Page #86
--------------------------------------------------------------------------
________________
धर्मबिन्दु
श्रावक
व्रताति
श्राद्धमध्यिायः३ ॥४१॥
चारा
तिचाराः, एते च आनयने-विवक्षितक्षेत्रात्परतः स्थितस्य वस्तुनः परहस्तेन स्वक्षेत्रप्रापणे प्रेषणे वा ततः परेण उभये वा आनयनप्रेषणलक्षणे सति संपद्यन्ते, अयं चानयनादावतिक्रमो न कारयामीत्येवं विहितदिग्वतस्यैव संभवति, तदन्यस्य तु आनयनादावनतिक्रम एव, तथाविधप्रत्यारव्यानाभावादिति १-२-३ तथा क्षेत्रस्य पूर्वादिदेशस्य दिखतविषयस्य इस्वस्य सतो वृदि:वर्द्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः, किल केनापि पूर्वापरदिशोः प्रत्येक योजनशतं गमनपरिमाण कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः ४ । तथा कथञ्चिदतिव्याकुलत्वप्रमादिलमत्यपाटवादिना स्मृतेः-स्मरणस्य योजनशतादिरूपदिकपरिमाणविषयस्यान्तर्धान-भ्रंशः स्मृत्यन्तर्धानमिति ५। इह वृद्धसंप्रदाय:-ऊर्च यत्प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कट: पक्षी वा वस्त्रमाभरणं वा गृहीत्वा ब्रजेत , तत्र तस्य न कल्पते गन्तुं, यदा तु तत्पति तमन्येन वाऽऽनीतं तदा कल्पते ग्रहीत, एतत्पुनरष्टापदोजयन्तादिषु भवेत् , एवमधापादिषु विभाषा, तथा यत्तिर्यममाणं गृहीतं तत्रिविधेन करणेन नातिक्रमितव्यं, क्षेत्रवृश्चि न कर्त्तव्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत्परिमाणं, ततः परतो भाण्डमध लभते इतिकृत्वा अपरेण यानि योजनानि तानि पूर्वदिपरिमाणे क्षिपति, यदि च स्मृत्यन्तर्धानात्परिमाणमतिक्रान्तो भवेत्तदा बाते निवर्तितव्यं परतश्च न गन्तव्यं, अन्योऽपि न विसर्जनीयः, अयानाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते इति ॥ २८ ॥ अय द्वितीयस्य
सचित्तसंबसंमिश्राभिषवदुष्पक्काहारा इति ॥ २९ ॥ (१६२)
| ॥४१॥
Page #87
--------------------------------------------------------------------------
________________
सचित्तं च संवत्रं च संमिश्रं च अभिषवश्च दुष्पक्काहारश्चेति समासः, इह च सचित्तादौ निवृत्तिविषयीकृतेऽपि प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिक्रमादि निबन्धनप्रवृत्त्या द्रष्टव्यम्, अन्यथा भङ्ग एव स्यात् , तत्र सचित्तं कन्दमूलफलादि, तथा संबद्ध-प्रतिबद्धं सचित्तवृक्षेषु गुन्दादि पक्कफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति, तथा | संमिश्रम्-अर्द्धपरिणतफलादि सद्यःपिष्टकणिक्कादि वा अभिषवः-सुरासन्धानादि दुष्पक्काहारश्च-अर्द्धस्विन्नपृथुकादि, एतेऽपि |
अतिचारा अनाभोगादतिक्रमादिना वा सम्मिश्राद्युपजीवनप्रवृत्तस्य भवन्ति, अन्यथा पुनर्भङ्ग एवेति । इह भोगोपभोगमानलक्षणं गुणव्रतमन्यत्र भोजनतो गुणवतं यदुच्यते तदपेक्षयैवातिचारा उपन्यस्ताः, शेषव्रतपञ्चपञ्चातिचारसाधाद्, अन्यथाऽन्यत्रावश्यकनियुक्त्यादौ कर्मतोऽपीदमभिधीयते, तत्र कर्म-जीविकार्थमारम्भस्तदाश्रित्य खरकर्मादीनां निस्त्रिंशजनोचि-* तकठोरारम्भाणां कोट्टपालगुप्तिपालत्वादीनां वर्जनपरिमाणं कार्यमिति । अत्र चाङ्गारकर्मादयः पञ्चदशातिचारा भवन्ति, तदुक्तम्-इंगालो १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत ६ लक्ख ७ रस ८ केस | ९ विसविसय १० ॥ १०९॥ एवं खु जैतपीलणकम्म ११ निलंछणं १२ च दवदाणं १३ । सरदहतलायसोसं १४ असईपोसं च १५ वज्जिज्जा ॥१०॥ भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् 'अङ्गारकर्मेति अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात्ततस्तन्न कल्पते १, 'वनकर्म' यद्वनं क्रीणाति ततस्तच्छित्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २ शकटीकर्म-यच्छाकटिकत्वेन जीवति, तत्र गवादीनां वधबन्धादयो दोषाः
Page #88
--------------------------------------------------------------------------
________________
धर्मविन्दु *
भावक व्रताति चाराः
श्राद्धमध्यिायः३ ॥४२॥
| स्युः३ भाटीकर्म-यद् भाटकमादाय स्वकीयेन शकटादिना परभाण्डं वहत्यन्येषां वा शकटबलीवदीनर्पयतीति ४ स्फोटीकर्म उण्डवं यदा हलेन भूमेः स्फोटनं ५ दन्तवाणिज्यं यत्पूर्वमेव पुलिन्द्राणां मूल्यं ददाति दन्तान्मे यूयं दद्यातेति ततस्ते हस्तिनो घ्नन्ति अचिरादसौ वाणिजक एष्यतीतिकृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६ लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवति ७ रसवाणिज्यं-कल्पपालत्वं, तत्र सुरादावनेके दोषाः मारणाक्रोशवधादयः ८ केशवाणिज्यं यद्दास्यादीन् गृहीत्वाऽन्यत्र विक्रोणीते, अत्राप्यनेके दोषाः परवशित्वादयः ९ विषवाणिज्यं-विषविक्रयः, स च न कल्पते, यतस्तेन बहूनां जीवानां विराधना स्यात् १० 'यन्त्रपीडनकर्मे ति तिलेक्षुयन्त्रादिना तिलादिपीडनं ११ निर्लाञ्छनकर्म-गवादीनां वर्द्धितककरणं १२ दवदानकर्म' यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणं तृणमुत्तिठते, तत्र च सत्वशतसहस्राणां वधः स्यात् १३ सरोहदतडागपरिशोषणं यत् सरःप्रभृतीनि शोषयति १४ असतीपोषणं यद् योनिपोषका दासीः पोषयन्ति तत्संबन्धिनी च भाटीं गृह्णन्ति यथा गोल्लविषय इति १५, दिङ्मात्रदर्शनं चैतत् बहुसावद्यानां कर्मणामेवंजातीयानां, न पुनः परिगणनमिति । इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्य, तेन स्मृत्यन्तर्धानादयो ययासंभवं सर्वव्रतेष्वतिचारा दृश्या इति । नन्वङ्गारकर्मादयः कस्मिन् व्रतेऽतिचाराः?, खरकर्मवत इति चेत्तर्हि व्रतविषयस्यातिचाराणां च कः परस्परं विशेषः ?, खरकर्मरूपत्वादङ्गारकर्मादीनां, अत्रोच्यते, खरकर्मादय एवैतेऽतः खरकर्मादिवतिना परिहार्याः, यदा पुनरेतेष्वेवानाभोगादिना प्रवर्त्तते तदा खरकर्मव्रतातिचारा भवन्ति. यदा त्वाकुट्टया तदा भङ्गा एवेति ॥२९॥
MOTकर
॥४२॥
Page #89
--------------------------------------------------------------------------
________________
अथ तृतीयस्य
कन्दर्प १ कौकुच्य २ मौखर्या ३ समीक्ष्याधिकरणो ४ पभोगाधिकत्वानीति ५॥३०॥ (१६३) ___ कन्दर्पश्च कौकुच्यं च मौखर्य चासमीक्ष्याधिकरणं चोपभोगाधिकत्वं चेति समासः, तत्र कन्दर्पः-कामः तद्धे तुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प एव, मोहोद्दीपक वाकर्मेति भावः, इह च सामाचारी-श्रावकस्याट्टहासो न कल्पते कत्त, यदि नाम हसितव्यं तदेषदेवेति १, तथा कुकुचः-कुत्सितसंकोचनादिक्रियायुक्तः तद्भावः कौकुच्य-अनेकप्रकारमुखनयनादिविकारपूर्विका परिहासादिजनिता भाण्डानामिव विडम्बनक्रियेत्यर्थः, अत्र च सामाचारी-तादृशानि भणितुं न कल्पते यादृशैलॊकस्य हास्यमुत्पद्यते, एवं गत्या गन्तुं स्थानेन वा स्थातुमिति, एतौ च कन्दर्पकौकुच्याख्यावतिचारौ प्रमादाचरितव्रतस्यावसेयौ, प्रमादरूपखात्तयोः २, तथा मुखमस्यास्तीति मुखरस्तद्भावः कर्म वेति मोखय-धाष्टर्यप्रायमसभ्यासत्यासंबद्धमलापित्वम्, अयं च पापोपदेशव्रतस्यातिचारो, मौखर्ये सति पापोपदेशसंभवात् ३, तथा असमीक्ष्यैव-तथाविधकार्यमपर्यालोच्यैव प्रवणतया यद् व्यवस्थापितमधिकरणं-वास्युदुखलशिलापुत्रकगोधृमयन्त्रकादि तदसमीक्ष्याधिकरणं, अत्र सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानीति, अयं च हिंस्रमदानव्रतस्यातिचारः ४, तथा उपभोगस्य उपलक्षणत्वाद् भोगस्य च उक्तनिर्वचनस्याधिकत्वं-अतिरिक्तता उपभोगाधिकत्व, इहापि सामाचारी-उपभोगातिरिक्तानि यदि बहूनि तैलामलकानि गृह्णन्ति तदा तल्लौस्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवघोऽधिकः स्याद्, एवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, ततः को विधिरुपभोगे?-तत्र स्नाने तावद् गृहे एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि
Page #90
--------------------------------------------------------------------------
________________
श्राद्ध
व्रताति
चारा
धर्मबिन्दु
च सर्वाणि झाटयित्वा तडागादीनां तटे निविष्टोऽअलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरतीति, श्राद्धध-IN
अयं च प्रमादाचरितव्रत एव, विषयात्मकत्वादस्य ५, अपध्यानाचरितव्रते त्वनाभोगादिना अपध्याने प्रवृत्तिरनाचार इति माध्या
स्वयमभ्यूह्यम्, कन्दर्पोदय आकुट्टया क्रियमाणा भङ्गा एवावसेया इति ॥३०॥ अथ प्रथमशिक्षापदस्यया३ ॥४३॥
योगदुष्पणिधानानादरस्मृत्यनुपस्थापनानीति ५॥३१॥ (१६४) योगदुष्पणिधानानि च अनादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्र योगा:-मनोवचनकायाः तेषां दुष्पणिधानानि-सावद्ये प्रवर्तनलक्षणानि योगदुष्पणिधानानि एते त्रयोऽतिचाराः, अनादरः पुनः-प्रबलममादादिदोषाद् यथाकथञ्चित्करणं कृत्वा वाऽकृतसामायिककार्यस्यैव तत्क्षणमेव पारणमिति, स्मृत्यनुपस्थापनं पुनः स्मृतेः सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमाददोषादनुपस्थापनम्-अनवतारणं, एतदुक्तं भवति-कदा मया सामायिकं कत्तव्यं कृतं मया सामायिकं न वेत्येवंरूपस्य स्मरणस्य भ्रंश इति । ननु मनोदुष्पणिधानादिषु सामायिकस्य निरर्थकत्वादभाव एवं प्रतिपादितो भवति, अतिचारश्च मालिन्यरूपो भवतीति कथं सामायिकाभावे?, अतो भङ्गा एवैते नातिचाराः, सत्यं, किंत्वनाभोगतोऽतिचारत्वमिति, ननु द्विविधं त्रिविधेन सावधपत्याख्यान सामायिक, तत्र च मनोदुष्पणिधानादौ प्रत्याख्यानभङ्गात्सामायिकाभाव एव, तद्भङ्गजनितं प्रायश्चित्तं च स्यात् , मनोदुष्पणिधानं च दुष्परिहार्य, मनसोऽनवस्थितत्वाद्, अतः सामायिकमतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसीति, नैवं, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नं, तत्र मनसा सावधं न करोमीत्यादीनि षट् प्रत्याख्यानानि इत्यन्यतरभङ्गेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावो,मिथ्यादुष्कृतेन मनोदुष्पणिधानमात्रशुद्धिश्च,
॥४३॥
Page #91
--------------------------------------------------------------------------
________________
सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतत्वात् यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तं यदाह - " बीओ उ असमिओ मित्ति कीस सहसा अगुत्तो वा ?” [ द्वितीयस्तु (माय० भेदः) असमितोऽस्मीति कथं ? सहसा अगुप्तो वा ] द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शृद्धयतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति, किंच- सातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति, सूरयो यदाहु:-"अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः" (घोड०१३-१३) अथ द्वितीयस्यआनयन १ प्रेष्यप्रयोग २ शब्द ३ रूपानुपात ४ पुद्गलप्रक्षेपा ५ इति ॥ २२ ॥ (१६५)
आनयनं च प्रेष्यश्च आनयनप्रेष्यौ तयोः प्रयोगावानयनप्रेष्यप्रयोग तथा शब्दरूपयोरनुपातौ शब्दरूपानुपाती आनयनप्रेष्यप्रयोगौ च शब्दरूपानुपातौ च पुद्गलप्रक्षेपश्चेति समासः, तत्रानयने - विवक्षित क्षेत्राद् बहिर्वर्त्तमानस्य सचेतनादिद्रव्यस्य विवक्षित क्षेत्रमापणे प्रयोगः, स्वयं गमने व्रतभङ्गभयादन्यस्य स्वयमेव वा गच्छतः संदेशादिना व्यापारणमानयनप्रयोगः, तथा प्रेष्यस्य- आदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः, तथा शब्दस्य - कासितादिरूपस्य रूपस्य - स्वशरीर ।कारस्य विवक्षित क्षेत्राद्वह्निर्व्यवस्थितस्याह्नानी यस्याहानाय श्रोत्रे दृष्टौ वानुपात:- अवतारणमिति योऽर्थः, अयमत्र भावः- विवक्षित क्षेत्राब हिर्वर्त्तमानं कश्चन नरं व्रतभङ्गभयादाव्हातुमशक्नुवन् यदा काशितादिशब्दश्रावणस्वकीयरूपसंदर्शनद्वारेण तमाकारयति तदा व्रतसापेक्षत्वाच्छन्दानुपातरूपानुपातावतिचाराविति, तथा पुद्गलस्य-शकंरादेर्नियमित क्षेत्राद् बहिर्वर्त्तिनो जनस्य बोधनाय तदभिमुखं प्रक्षेपः पुद्गलप्रक्षेपः, देशावकाशिकवतं हि गृह्यते मा भूद् गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत
Page #92
--------------------------------------------------------------------------
________________
धर्मविन्दु
श्राद्धध
माध्या
॥४४॥
गुणः स्वयंगमने, ईर्यापथविशुद्धः, परस्य पुनरनिपुणत्वाचदशुद्धिरिति । इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति । इहाहुवृद्धाः-दिखतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात् , प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति संख्याविरोधः स्यादिति, अत्र केचिदाहुः-दिग्बतसंक्षेप एव देशावकाशिक, तदतिचाराणां दिग्व्रतानुसारितयैवोपलम्भाद्, अत्रोच्यते, यथोपलक्षणतया शेषव्रतसंक्षेपकरणमपि देशावकाशिकमुच्यते तयोपलक्षणतयैव तदतिचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादिसंक्षेपकरणेषु बन्धादय एवातिचारा घटन्ते, दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात्क्षेत्रस्य शब्दानुपातादयोऽपि स्युरिति भेदेन दर्शिताः, न च सर्वेषु व्रतभेदेषु विशेषतोऽतिचारा दर्शनीया, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति ॥ २२॥ अथ तृतीयस्यअप्रत्युपेक्षिताप्रमार्जितोत्सर्गाऽऽ दाननिक्षेपर संस्तारोपक्रमणानादर४स्मृत्यनुपस्थापनानीति॥३३॥(१६६)
इह 'पदेऽपि पदसमुदायोपचाराद्' अप्रत्युपेक्षितपदेनाप्रत्युपेक्षितदुष्पत्युपेक्षितः स्थण्डिलादिभूमिदेशः परिगृह्यते, अपमार्जितपदेन तु स एवाप्रमार्जितदुष्पमार्जित इति, तथा उत्सर्गश्चादाननिक्षेपौ चेति उत्सर्गादान निक्षेपाः, ततोऽप्रत्युपेक्षिताप्रमार्जिते स्थण्डिलादावुत्सर्गादाननिक्षेपाः अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपाः ततस्ते च संस्तारोपक्रमणं चानादरश्च स्मृत्यनुपस्थापनं चेति समासः, तत्राप्रत्युपेक्षिते-प्रथमत एव लोचनाभ्यामनिरीक्षिते प्रमादाद् भ्रान्तलोचनव्यापारेण वा न सम्यग् निरिक्षिते तथा अप्रमार्जिते-मूलत एव वस्त्राञ्चलादिना अपरामृष्टे दुष्षमार्जिते अर्द्धप्रमाणिते स्थण्डिलादौ यथाईमुत्सर्गो-मूत्रपुरीषादीनामुज्झनीयानामादा ननिक्षेपौ च पौषधोपवासोपयोगिनो धर्मोपकरणस्य पीठफलकादेवितिचारौ स्यातामे
॥४४॥
Page #93
--------------------------------------------------------------------------
________________
ताविति १-२ इह 'संस्तारोपक्रमण 'मिति संस्तारकशब्दः शय्योपलक्षणं, तत्र शय्या-शयनं सर्वांगीणं वसतिर्वा संस्तारक:| अर्द्धत्तीयहस्तपरिमाणः, ततः संस्तारकस्य प्रस्तावादप्रत्युपेक्षितस्याप्रमाणितस्य चोपक्रमः-उपभोगः अतिचारोऽयं तृतीयः३।
अनादरस्मृत्यनुपस्थापने पुनः चतुर्थपञ्चमाव तिचारौ ४-५ सामायिकातिचाराविव भावनीयाविति । इह संस्तारोपक्रमे इयं | वृद्धसमाचारी-कृतपौषधोपवासो नाप्रत्युपेक्षितां शय्यामारोहति, संस्तारकं वा पौधधशालां वा सेवते, दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तृणाति, कायिकाभूमेश्चागतः पुनरपि संस्तारकं प्रत्युपेक्षतेऽन्यथाऽतिचारः स्यात् , एवं पीठादिष्वपि विभाषेति ॥ ३३ ॥ अथ चतुर्थस्य
सचित्तनिक्षेप १ पिधान २ परव्यपदेश-३ मात्सर्य ४ कालातिकमा ५ इति ॥ ३४॥ (१६७)
सचित्तनिक्षेपपिधाने च एरव्यपदेशश्च मात्सर्यं च कालातिक्रमश्चेति समासः, तत्र सचित्ते-सचेतने पृथिव्यादौ निक्षेप:साधुदेयभक्तादेः स्थापनं सचित्तनिक्षेपः, तथा सचित्तेनैव बीजपूरादिना पिधान-साधुदेयभक्तादेरेव स्थगनं सचित्तपिधानं, | तथा परस्य-आत्मव्यतिरिक्तस्य व्यपदेशः परव्यपदेश:-परकीयमिदमन्नादिकमित्येवमदित्सावतः साधुसमक्ष भणनं परव्यपदेशः, तथा मत्सरः-असहनं साधुभिर्याचितस्य कोपकरणं तेन रङ्केन याचितेन दत्तमहं तु किं ततोऽपि हीन इत्यादिविकम्पो वा सोऽस्यास्तीति मत्सरी तद्भावो मात्सर्य, तथा कालस्य-साधुचितभिक्षासमयस्यातिक्रम:-अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोल्लङ्घनं कालातिक्रमोऽतिचार इति । भावना पुनरेवं-यदाऽनाभोगादिनाऽतिक्रमादिना वा एतानाचरति तदाऽतिचारोऽन्यदा तु भङ्ग इति ॥ ३४ ॥ एवमणुव्रतगुणवतशिक्षापदानि तदतिचारांश्चाभिधाय प्रस्तुते योजयन्नाह
Page #94
--------------------------------------------------------------------------
________________
अमेषिन्द भाष. माध्या
क्लिष्टकर्म
जयहेत
॥४
॥
एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्म इति ॥३५॥ (१६८)
एतैः-अतिचारै रहितानामणुव्रतादीनामुपलक्षणखात् सम्यक्त्वस्य च पालनं, किमित्याह-विशेषतो गृहस्थधर्मों भवति यः शास्त्रादौ प्राक् सूचित आसीदिति ॥ ३५॥ आह-उक्तविधिना प्रतिपन्नेषु सम्यक्त्वाणुव्रतादिष्वतिचाराणामसंभव एव, तत्कथमुक्तमेतद्रहिताणुव्रतादिपालनमित्याशङ्कयाह
क्लिष्टकर्मोदयादतिचारा इति ॥३६॥ (१६९) क्लिष्टस्य-सम्यक्त्वादिप्रतिपत्तिकालोत्पन्नशुद्धिगुणादपि सर्वथाऽव्यवच्छिन्नानुबन्धस्य कर्मणो-मिथ्याखादेरुदयाद्-विपाकात् सकाशादतिचारा:-शङ्कादयो वधबन्धादयश्च संपद्यन्ते, इदमुक्तं भवति-यदा तथाभव्यखपरिशुद्धिवशादत्यन्तमननुबन्धीभूतेषु मिथ्यात्वादिषु सम्यक्त्वादि प्रतिपद्यते तदाऽतिचाराणामसंभव एव, अन्यथा प्रतिपत्तौ तु स्युरप्यतिचारा इति | ॥३६॥ तर्हि कथमेषां निवारणमित्याशक्याह
विहितानुष्ठानवीर्यतस्तज्जय इति ॥३७॥ (१७०) विहितानुष्ठान-प्रति पन्नसम्यक्तवादनित्यानुस्मरणादिलक्षणं तदेव वीर्य-जीवसामर्थ्य तस्मात , किमित्याह-'तज्जयः" तेषाम्-अतिचाराणां जय:- अभिभवः संपद्यते, यतो विहितानुष्ठानं सर्वोपराधव्याधिविरेचनौषधं महदिति ॥३७॥ एतद्विषयमेवोपदेशमाह
अत एव तस्मिन् यत्न इति॥३८॥ (१७१)
॥४५॥
Page #95
--------------------------------------------------------------------------
________________
'अत एव' विहितानुष्ठानवीर्यस्यातिचारजयहेतुत्वादेव 'तस्मिन् ' विहितानुष्ठाने 'यत्नः' सर्वोपाधिशुद्ध उद्यमः कार्य इति ॥ अन्यत्राप्युक्तम्-"तम्हा निच्चसईए बहुमाणेणं च अहिंगयगुणमि । पडिवक्खदुगुंछाए परिणइआलोयणेणं च ॥ १९१॥ [तस्मात् नित्यस्मृत्या बहुमानेन वाऽधिकृतगुणे। प्रतिपक्षजुगुप्सया परिणत्यालोचनेन च॥१॥] तित्थंकरभत्तीए सुसाहुजणपज्जुवासणार य । उत्तरगुणसद्धाए एत्य सया होइ जइयत्वं ॥११२॥ [ तीर्थकरभक्त्या सुसाधुजनपर्युपासनया च । उतरगुणश्रद्धया अत्र सदा भवति यतितव्यम् ॥२॥] एवमसंतोऽवि इमो जायइ जाओ य ण पडइ कयावि । ता एत्थं बुद्धिमया अपमाओ होह कायदो त्ति (पश्चा ३६-३७-३८) ॥११३ ॥ [एवमसन्नप्ययं जायते जातश्च न पतति कदाचित् । तद् अत्र बुद्धिमता अप्रमादो भवति कर्त्तव्यः॥३॥ ] साम्प्रतं सम्यक्त्वादिगुणेष्वलब्धलाभाय लब्धपरिपालनाय च विशेषतः शिक्षामाह
सामान्यचर्याऽस्येति ॥ ३९॥ (१७२) सामान्यानां-प्रतिपन्नसम्यक्त्वादिगुणानां सर्वेषां प्राणिनां साधारणा सा चासौ चर्या-चेष्टा च सामान्यचर्या 'अस्य' प्रतिपन्नविशेषगृहस्थधर्मस्य जन्तोरिति ॥ ३९ ॥ कीदृशीत्याह
समानधार्मिकमध्ये वास इति ॥ ४०॥ (१७३) समानाः-तुल्यसमाचारतया सदृशाः उपलक्षणत्वादधिकाश्च ते धार्मिकाश्चेति समासः, तेषां मध्ये वासः-अवस्थान, तत्र चायं गुणः-यदि कश्चित्तथाविघदर्शनमोहोदयाद्धर्माच्च्यवते ततस्तं स्थिरीकरोति, स्वयं वा प्रच्यवमानः तैः स्थिरीक्रियते,
Page #96
--------------------------------------------------------------------------
________________
श्रावक
आधमध्यिाया३ ॥४६॥
चर्या
पठ्यते च-" यद्यपि निर्गतभावस्तथाप्यसौ रक्ष्यते सद्भिरन्यैः (परैः सद्भिः)। वेणुर्विलूनमूलोऽपि वंशगहने महीं नैति ॥११४॥"४०॥
कि सामान्य तथा-वात्सल्यमेतेष्विति ॥४१॥ (१७४) 'वात्सल्यम्' अन्नपानताम्बूलादिमदानग्लानावस्थापतिजागरणादिना सत्करणं 'एतेषु' साधर्मिकेषु कार्य, तस्य प्रवचनसारत्वात् , उच्यते च-" जिनशासनस्य सारो जीवदया निग्रहः कषायाणाम् । साधर्मिकवात्सल्य भक्तिश्च तथा जिनेन्द्राणाम् "॥ ११५॥४१॥
तथा-धर्मचिन्तया स्वपन मिति ॥ ४२॥ (१७५) धर्मचिन्तया-“धन्यास्ते वन्दनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् । यैरेष भुवनक्लेशी, काममल्लो विनिर्जितः॥ ११६॥" | इत्यादिशुभभावनारूपया स्वपन-निद्राङ्गीकारः, शुभभावनासुप्तो हि तावन्तं कालमवस्थितशुभपरिणाम एव लभ्यत इति ॥४२॥
तथा-नमस्कारेणावबोध इति ॥४३॥ (१७६) 'नमस्कारेण सकलकल्याणपुरपरमश्रेष्टिभिः परमेष्टिभिरधिष्ठितेन 'नमो अरिहंताण' मित्यादिप्रतीतरूपेण अवबोधो-निद्रापरिहारः, परमेष्ठिनमस्कारस्य महागुणत्वात् , पठ्यते च-"एष पञ्च नमस्कारः, सर्वपापप्रणाशनः। मङ्गलानां च सर्वे षां, प्रथमं भवति मङ्गलम् ॥ ११७ ॥ तथा-प्रयत्नकृतावश्यकस्य विधिना चैत्यादिवन्दनमिति ॥४४॥ (१७७)
॥४६॥
Page #97
--------------------------------------------------------------------------
________________
प्रयत्नेन-प्रयत्नवता कृतान्यावश्यकानि-मूत्रपुरीपोत्सर्गाङ्गमक्षालनशुद्धवस्त्रग्रहणादीनि येन स तथा तस्य 'विधिना' पुष्पादिपूजासंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यवन्दन-प्रसिद्धरूपमेव, आदिशब्दान्मातापित्रादिगुरुवन्दनं च, यथोक्तम्"चैत्यवन्दनतः सम्यक् , शुभो भावः प्रजायते । तस्मात् कर्मक्षयः सर्वर, ततः कल्याणमश्नुते ॥ ११८" (ललि.) इत्यादीनि ॥४४॥
तथा-सम्यक्प्रत्याख्यानक्रियेति ॥ ४५ ॥ (१७८) ___'सम्यगि ति क्रियाविशेषणं, ततः सम्यग्-यया भवति तथा मानक्रोधानाभोगादिदोषपरिहारवशात् प्रत्याख्यानस्य मूलगुणमोचरस्योत्तरगुणगोचरस्य च क्रिया-ग्रहणरूपा, परिमितसावद्यासेवनेऽपि अपरिमितपरिहारेण प्रत्याख्यानस्य महागुणत्वात् , ययोक्तम्-"परिमितमुपभुआनो ह्यपरिमितमनन्तकं परिहरंश्च । पामोति च परलोके ह्यपरिमितमनन्तकं सौख्यम् ॥ ११९ ॥” इति ४५॥
तथा-यथोचितं चैत्यगृहगमन मिति ॥ ४६ ॥ (१७९) __ 'यथोचितं' यथायोग्यं 'चैत्यगृहगमनं चैत्यगृहे-जिनभवनलक्षणे अर्हद्विम्बवन्दनाय प्रत्याख्यानक्रियानन्तरमेव गमनमिति, इह दिविषः श्रावको भवति-ऋद्धिमांस्तदितरश्च, तत्रदिमान् राजादिरूपः स सर्वस्वपरिवारसमुदायेन व्रजति, एवं हि तेन प्रवचनप्रभावना कृता भवति, तदितरोऽपि स्वकुटुम्बसंयोगेनैति, समुदायकृतानां कर्मणां भवान्तरे समुदायेनैवोपभोगात् ॥ ४६ ॥
Page #98
--------------------------------------------------------------------------
________________
धर्मविन्द श्राद्धषमांध्या
श्रावक सामान्य
चा
यः३
॥४७॥
तथा-विधिनाऽनुप्रवेश इति ॥४७॥ (१८०) 'विधिना' विधानेन चैत्यगृहे प्रवेश कार्यः, अनुप्रवेशविधिश्चायम्-"सच्चित्ताण दवाणं विउस्सरणयाए अचित्ताणं दवाणं अविउस्सरणयाए २ एगसाडिएणं उत्तरासंगेणं ३ चक्खुफासे अंजलिपग्गहेणं ४ मणसो एगत्तीकरणेणं "ति ॥४७॥ [सचिचानां द्रव्याणां व्युत्सर्ज नतया अचित्तानां द्रव्याणामव्युत्सर्जनतया एकशाटिकेनोत्तरासङ्गेन चक्षुःस्पर्श अजलिप्रग्रहेण मनस एकत्वीकरणेन]
___ तत्र च-उचितोपचारकरणमिति ॥ ४८॥ (१८१) उचितस्य-अहं दिम्बानां योग्यस्य उपचारस्य-पुष्पधुपाद्यर्चनलक्षणस्य करणं-विधानम् ॥ ४८॥
ततो-भावतः स्तवपाठ इति ॥४९॥ (१८२) दरिद्रनिधिलाभादि संतोषोपमानोपमेयाद् भावतो-भावात् संतोषलक्षणात् स्तवानां-गम्भीराभिधेयानां सद्भुतगुणोद्भावनाप्रधानानां नमस्कारस्तवलक्षणानां पाठः-समुचितेन ध्वनिना समुच्चारणम् ॥ ४९ ॥
ततः-चैत्यसाधुवन्दनमिति ॥५०॥ (१८३) चैत्यानाम्-अईद्विम्बानामन्येषामपि भावाईत्मभृतीनां साधूनां च व्याख्यानाद्यर्थमागतानां वन्दनीयानां वन्दनम्अभिष्टवनं प्रणिपातदण्डकादिपाठक्रमेण द्वादशावर्त्तवन्दनादिना च प्रसिद्धरूपेणैवेति ॥५०॥
ततः-गुरुसमीपे प्रत्याख्यानाभिव्यक्तिरिति ॥५१॥ (१८४)
॥४७॥
Page #99
--------------------------------------------------------------------------
________________
तथाविधशुद्धसमा चारसाधुसमीपे प्रागेव गृहादौ गृहीतस्य प्रत्याख्यानस्य अभिव्यक्ति:-गुरोः साक्षिभावसंपादनाय प्रत्युच्चारणम् ॥५१॥
ततो-जिनवचनश्रवणे नियोग इति ॥५२॥ (१८५) संप्राप्तसम्यग्दर्शनादिः प्रतिदिनं साधुजनात् सामाचारी शृणोतीति श्रावक इत्यन्वर्थसंपादनाय जिनवचनश्रवणे 'नियोगो' नियमः कार्यः॥५२॥
ततः-सम्यक् तदर्थालोचनमिति ॥५३॥ (१८६) सम्यक-संदेहविपर्ययानध्यवसायपरिहारेण तदर्थस्य-वचनाभिधेयस्य पुनः पुनर्विमर्शनं, अन्यथा 'वृथा श्रुतमचिन्तित' मितिवचनात् न किञ्चिच्छ्वणगुणः स्यादिति ॥५३॥
ततः-आगमैकपरतेति ॥ ५४॥ (१८७) आगमो-जिनसिद्धान्तः स एवैको न पुनरन्यः कश्चित् सर्वक्रियासु पर:-प्रधानो यस्य स तथा तस्य भावः आगमै* कपरता, सर्वक्रियास्वागममेवैकं पुरस्कृत्य प्रवृत्तिरिति भाव इति ॥५४॥
ततः-श्रुतशक्यपालनमिति ॥ ५५ ॥ (१८८) श्रुतस्य-आगमादुपलब्धस्य शक्यस्य-अनुष्ठातुं पार्यमाणस्य पालनम्-अनुशीलनं सामायिकपौषधादेरिति ॥५४॥
तथा-अशक्ये भावप्रतिबन्ध इति ॥५६॥ (१८९)
Page #100
--------------------------------------------------------------------------
________________
60
धर्मबिन्दु
|श्रावक सामान्य चर्या
श्राद्धधमध्यिायः३ ॥४८॥
अशक्ये-पालयितुमपार्यमाणे तयाविषशक्तिसामध्यभावात् साधुधर्माभ्यासादौ भावेन-अन्तःकरणेन प्रतिबन्धा-आत्मनि नियोजनं, तस्यापि सदनुष्ठानफलवात् , यथोक्तम्-" नार्या ययाऽन्यसत्तायास्तत्र भावे सदास्थिते । तद्योगः पापबन्धाय, तथा धर्मेऽपि दृश्यताम् ॥ १२०॥" 'तद्योग' इति अन्यप्रसक्तनारीव्यापारः स्वकुटुम्बपरिपालनादिरूप इति ॥५६॥
तथा-तत्कर्तृषु प्रशंसोपचाराविति ॥५७ ॥ (१९०) तत्कर्तृषु-आत्मानमपेक्ष्याशक्यानुष्ठान विधायिषु पुरुषसिंहेषु 'प्रशंसोपचारौ' प्रशंसा-मुहुर्मुहुर्गुणोत्कीर्तनरूपा उपचारश्च-तदुचितानपानवसनादिना साहाय्यकरणमिति ॥ ५७॥
तथा-निपुणभावचिन्तनमिति ॥५८॥ (१९१) निपुणानाम्-अतिनिपुणमतिसूक्ष्मभावगम्यानां भावानां-पदार्थानामुत्पादव्ययध्रौव्यस्वभावानां बन्धमोक्षादीनां वाऽ. नुप्रेक्षणं, यथा-" अनादिनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमजन्ति, जलकल्लोलवज्जले ॥१२१ ॥ तथास्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥१२२॥ (पशम.)" इत्यादीति ॥५८॥
तथा-गुरुसमीपे प्रश्न इति ॥५९॥ (१९२) ___ यदा पुनर्निपुर्ण चिन्त्यमानोऽपि कश्चिद्भावोऽतिगम्भीरतया स्वयमेव निश्चेतुं न पार्यते तदा गुरोः संविग्नस्य गीतार्थस्य च समीपे प्रश्नो-विशुद्धविनयपूर्वकं पर्यनुयोगः कार्यः, यथा भगवन् ! नावबुद्धोऽयमर्थोऽस्माभिः कृतयत्नैरपि ततोऽस्मान् बोधयितुमईन्ति भगवन्त इति ॥ ५९॥
NYCH
Page #101
--------------------------------------------------------------------------
________________
तथा-निर्णयावधारणमिति ॥६०॥ (१९३) निर्णयस्य-निश्चयकारिणो वचनस्य गुरुणा निरूपितस्य 'अवधारणं' दत्तावधानतया ग्रहणम्, भणितं चान्यत्रापि"सम्म वियारियव्वं अट्ठपयं भावणापहाणेणं । विसए य ठावियत्वं बहुसुयगुरुणो सयासाओ॥१२३" (पञ्च ८६५) [सम्यग् विचारयितव्यमर्थ पदं भावनाप्रधानेन । विषये च स्थापयितव्यं बहुश्रुतगुरोः सकाशात् ॥१॥] ॥६॥
तथा-ग्लानादिकार्याभियोग इति ॥ ६१॥ (१९४) ग्लानादीनां-ग्लानबालवृद्धागग्रहणोद्यतमाघूर्णकादिलक्षणानां साधुसाधर्मिकाणां यानि कार्याणि-प्रतिजागरणोपधान्नपानवस्त्रमदानपुस्तकादिसमर्पणोपाश्रयनिरूपणादिलक्षणानि तेष्वभियोगो-दत्तावधानता विधेयेति ॥ ६१॥
तथा-कृताकृतप्रत्युपेक्षेति ॥ ६२॥ (१९५) । कृतानां अकृतानां च चैत्यकार्याणां ग्लानादिकार्याणां च प्रत्युपेक्षा-निपुणाभोगविलोचनव्यापारेण गवेषणं, तत्र कृतेषु करणाभावादकृतकरणायोद्यमो विधेयः, अन्यथा निष्फलशक्तिक्षयप्रसंगादिति ॥ ६२॥
ततश्च-उचितवेलयाऽऽगमन मिति ॥ ६३॥ (१९६) उचितवेलया-हट्टव्यवहारराजसेवादिप्रस्तावलक्षणया 'आगमनं' चैत्यभवनाद् गुरुसमीपादा गृहादाविति ॥३॥
ततो-धर्मप्रधानो व्यवहार इति ॥ ६४॥ (१९७) 'कुलक्रमागत'मित्यादिसूत्रोक्तानुष्ठानरूपो व्यवहारः कार्यः॥ ६४ ॥
Page #102
--------------------------------------------------------------------------
________________
धर्म बिन्दु श्राद्ध
श्रावक सामान्य
ध्यिा
चर्या
यः
तथा-द्रव्ये संतोषपर (प्रधान) तेति ॥६५॥ (१९८) 'द्रव्ये' धनधान्यादौ विषये 'संतोषप्रधानता' परिमितेनैव निर्वाहमात्रहेतुना द्रव्येण संतोषवता धार्मिकेणैव भवि- तव्यमित्यर्थः, असंतोषस्यासुखहेतुत्वात् , यदुच्यते-"अत्युष्णात् सघृतादनादच्छिद्रात्सितवाससः। अपरप्रेष्यभावाच्च, शेषमिच्छन् पतत्यधः ॥ १२४ ॥” इति, तथा “संतोषामृततृप्तानां, यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च मिच्छन् पत्याखाहत्वात् याच्यते अत्युष्णात सतादनादा धावताम् ॥ १२५ ॥"॥६५॥
तथा-धर्मे धनबुद्धिरिति ॥६६॥ (१९९) 'धर्म' श्रुतचारित्रात्मके सकलाभिलषिताविकलसिद्धिमूले 'धनबुद्धिः' मतिमतां धर्म एव धनमिति परिणामरूपा | निरन्तरं निवेशनीयेति ॥१६॥
तथा-शासनोन्नतिकरणमिति ॥ ६७॥ (२००) शासनस्य-निखिलहेयोपादेयभावाविर्भावनभास्करकल्पस्य जिननिरूपितवचनरूपस्य उन्नतिः-उच्चैर्भावस्तस्याः करणं सम्यग्न्यायव्यवहरण १ यथोचितजनविनयकरण २ दीनानाथाभ्युद्धरण ३ सुविहितयतिपुरस्करण ४ परिशुद्धशीलपालन ५ जिनभवनविधापन ६ यात्रास्नात्रादिनानाविधोत्सवसंपादना ७ दिभिरुपायैः, तस्यातिमहागुणत्वादिति, पठ्यते च" कर्त्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः। अवन्ध्यं कारणं ह्येषा, तीर्थकुनामकर्मणः ॥१२६॥ (ह० अष्टके ) ॥१७॥
तथा-विभवोचितं विधिना क्षेत्रदानमिति ॥ ६८॥ (२०१)
॥४९॥
Page #103
--------------------------------------------------------------------------
________________
- 'विभवोचितं' स्वविभवानुसारेण 'विधिना' अनन्तरमेव निर्देक्ष्यमाणेन क्षेत्रेभ्यो-निर्देक्ष्यमाणेभ्य एव दानम्अन्नपानौषधवस्त्रपात्राधुचितवस्तुवितरणम् ॥६८॥ विधि क्षेत्रं च स्वयमेव निर्दिशन्नाह
सत्कारादिविधिनिःसङ्गता चेति ॥ ६९ ॥ (२०२) सत्करणं सत्कार:-अभ्युत्थानासनप्रदानवन्दनरूपो विनयः स आदिर्यस्य देशकालाराधनविशुद्धश्रद्धाविष्करणदानक्रमानुक्रमादेः कुशलानुष्ठान विशेषस्य स तथा, किमित्याह-विधिर्वर्त्तते, निःसङ्गता'ऐहिकपारलौकिकफलाभिलाषविकलतया सकलक्लेशलेशाकलङ्कितमुक्तिमात्राभिसन्धिता, चकारः समुच्चये ॥ ६९ ॥
वीतरागधर्मसाधवः क्षेत्रमिति ॥ ७० ॥ (२०३) वीतरागस्य-जिनस्य धर्म:-उक्तनिरुक्तः तत्प्रधानाः साधवो वीतरागधर्मसाधवः क्षेत्रं-दानाई पात्रमिति, तस्य च विशेषलक्षणमिदम्-"क्षान्तो दान्तो मुक्तो जितेन्द्रियः सत्यवागभयदाता । प्रोक्तास्त्रदण्डविरतो विधिग्रहीता भवति पात्रम् ॥ १२७॥"७०॥
तथा-दुःखितेष्वनुकम्पा यथाशक्ति द्रव्यतो भावतश्चेति ॥ ७१॥ (२०४) 'दुःखितेषु' भवान्तरोपात्तपापपाकोपहितातितीव्रक्लेशावेशेषु देहिष्वनुकम्पा-कृपा कार्या 'यथाशक्ति' स्वसामर्थ्यानुरूपं, द्रव्यत:-तथाविधग्रासादेः सकाशात् , भावतो-भीषणभवभ्रमणवैराग्यसंपादनादिरूपात् , चः समुच्चये, दु:खितानुकम्पा हि तदुपकारत्वेन धर्मैकहेतुः, यथोक्तम्-" अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादि
Page #104
--------------------------------------------------------------------------
________________
धर्मबिन्दु
भावक
सामान्य
श्राद्धधमाध्यायः३ ॥५०॥
चर्या
नामत्र ॥ १२८॥"॥७॥
तथा-लोकापवादभीरुतेति ॥७२॥ (२०५) लोकापवादात-सर्वजनापरागलक्षणात् भीरुता-अत्यन्तभीतभावः, किमुक्तं भवति ?-निपुणमत्या विचिन्त्य तथा तथोचितवृत्तिप्रधानतया सततमेव प्रवर्तितव्यं यथा यथा सकलसमीहितसिद्धिविधायिजनप्रियत्वमुज्जृम्भते, न पुनः कयश्चिदपि | जनापवादः, तस्य मरणानि विशिष्यमाणत्वात् , तथा चावाचि-"वचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं तु कालपरिणतिरियं च जगतोऽपि सामान्या ।। १२९ ॥"॥७२॥
तथा-गुरुलाघवापेक्षणमिति ॥७३॥ (२०६) सर्वप्रयोजनेषु धर्मार्थ कामरूपेषु तत्तकालादिबलालोचनेन प्रारब्धुमिष्टेषु प्रथमत एव मतिमता.गुरोः-भूयसो गुणलाभ| पक्षस्य लघोश्च-तदितररूपस्य भावो गुरुलाघवं तस्य निपुणतया अपेक्षणम्-आलोचनं कार्यमिति ततः॥ किमित्याह
बहुगुणे प्रवृत्तिरिति ॥७४ ॥ (२०७) प्रायेण हि प्रयोजनानि गुणलाभमिश्राणि, ततो बहुगुणे प्रयोजने प्रवृत्तिः-व्यापारः, तथा चार्षम्-"अप्पेण बहुमेसेज्जा, एवं पंडियलक्खणं । सव्वासु पडिसेवासु, एवं अट्ठपयं विऊ ॥ १२९ ॥” [अल्पेन बहु एपेत एतत् पण्डितलक्षणम् । सर्वासु प्रतिषेवामु एतदर्थपदं विदुः॥१॥] ॥ ७४ ॥
तथा-चैत्यादिपूजापुरःसरं भोजनमिति ॥ ७५ ॥ (२०८)
भावो गुरुला-७४ ॥ (२० र प्रवृत्तिा व्य
॥५०॥
Page #105
--------------------------------------------------------------------------
________________
माप्ते भोजनकाले चैत्यानाम्-अईद्विग्बलक्षणानां आदिशब्दात्साधुसाधर्मिकाणां च पूजा-पुष्पधूपादिभिरन्नपानप्रदा* नादिभिश्चोपचरणं सा पुरःसरा यत्र तच्चैत्यादिपूजापुरःसरं भोजनम्-अनोपजीवनं, यतोऽन्यत्रापि पठ्यते-“ जिणपूओ
चियदाणं परियणसंभालणा उचियकिच्चं । ठाणुववेसो य तहा पच्चक्खाणस्स संभरणं ॥ १३०॥" [जिनपूजोचितदानं परिजनस्मरणं उचितकृत्यम् । स्थानोपवेशनं च तथा प्रत्याख्यानस्य संस्मृतिः॥१॥]॥७५ ॥
तथा-तदन्वेव प्रत्याख्यानक्रियेति ॥ ७६ ॥ (२०९) 'तदन्वेव' भोजनानन्तरमेव प्रत्याख्यानक्रिया-द्विविधाद्याहारसंवरणरूपा ॥ ७६ ॥
तथा-शरीरस्थितौ प्रयत्न इति ॥ ७७॥ (२१०) 'शरीरस्थितौ' उचिताभ्यङ्गसंवाहनस्नानादिलक्षणायां यत्नः-आदरः, तथा च पठ्यते-" धर्मार्थकाममोक्षाणां, शरीरं कारणं यतः। ततो यत्नेन तद्रक्ष्य, ययोक्तैरनुवनैः ॥ १३१॥” इति ७७॥
तथा-तदुत्तरकार्यचिन्तेति ॥ ७८॥ (२११) तस्याः-शरीरस्थितेरुत्तराणि-उत्तरकालभावीनि यानि कार्याणि-व्यवहारकरणादीनि तेषां चिन्ता-तप्तिरूपा कार्या इति ॥ ७८॥
तथा-कुशलभावनायां प्रबन्ध इति ॥ ७९ ॥ (२१२) 'कुशलभावनायाम् ' सर्वेऽपि सन्तु मुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चित्पापमाच
Page #106
--------------------------------------------------------------------------
________________
| श्रावक सामान्य
चर्या
धर्मबिन्दु श्राद्धमध्यिाय:३ ॥५१॥
"॥ १३२ ॥ इत्यादिशुभचिन्तारूपायां प्रबन्धः' प्रकर्षवृत्तिः ॥ ७९ ॥
तथा-शिष्टचरितश्रवणमिति ॥८०॥ (२१३) शिष्टचरितानां-'शिष्टचरितप्रशंसे 'ति प्रथमाध्यायसूत्रोक्तलक्षणानां श्रवण-निरन्तरमाकर्णनं, तच्छ्वणे हि तद्गताभिलाषभावान्न कदाचिद् लब्धगुणहानिः संपद्यत इति ॥ ८॥
तथा-सान्ध्यविधिपालनेति ।। ८१॥ (२१४) सान्ध्यस्य-सन्ध्याकालभवस्य विधेः-अनुष्ठानविशेषस्य दिनाष्टमभागभोजनाभ्यवहारसंकोचादिलक्षणस्य पालनाअनुसेवनमिति ॥ ८१॥ एनामेव विशेषत आह
__ यथोचितं तत्प्रतिपत्तिरिति ॥ ८२ ॥ (२१५) 'यथोचितं' यथासामर्थ्य 'तत्प्रतिपत्तिः' सान्ध्यप्रतिपत्तिरिति ॥ ८२ ॥ कीदृशीत्याह
पूजापुरस्सरं चैत्यादिवन्दनमिति ॥ ८३ ॥ (२१६) तत्कालोचितपूजापूर्वकं चैत्यवन्दनं, गृहचैत्यचैत्यभवनयोः, आदिशब्दाद्यतिवन्दनं मातापितृवन्दनं च ॥ ८३॥
तथा-साधुविश्रामणक्रियेति ॥ ८४ ॥ (२१७) साधूनां निर्वाणाराधनयोगसाधनप्रवृत्तानां पुरुषाणां स्वाध्यायध्यानाद्यनुष्ठाननिष्ठोपहितश्रमाणां तथाविधविश्रामकसाध्वभावे विश्रामणक्रिया, विश्राम्यतां-विश्रामं लभमानानां करणं विश्रामणा सा चासौ क्रिया चेति समासः॥८४॥
॥५
॥
Page #107
--------------------------------------------------------------------------
________________
तथा-योगाभ्यास इति ॥ ८५ ॥ (२१८) योगस्य-सालम्बननिरालम्बनभेदभिन्नस्याभ्यासः-पुनः पुनरनुशीलनम्, उक्तं च-“सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः॥ १३३॥" (पोड०)'तत्तत्त्वग' इति निवृत्तजिनस्वरूपप्रतिबद्ध इति ॥ ८५॥
तथा-नमस्कारादिचिन्तनमिति ॥ ८६ ॥ (२१९) नमस्कारस्य आदिशब्दात्तदन्यस्वाध्यायस्य च चिन्तनं-भावनम् ॥८६॥
तथा-प्रशस्तभावक्रियेति ॥८७॥ (२२०) तथा थया क्रोधादिदोषविपाकपर्यालोचनेन प्रशस्तस्य-प्रशंसनीयस्य भावस्य-अन्तःकरणरूपस्य क्रिया करणं, अन्यथा महादोषभाराव, यदुच्यते-" चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ १३४ ॥” (ह० अष्टके ) ॥ ८७॥
तथा-भवस्थितिप्रेक्षणमिति ॥८८॥ (२२१) भवस्थिते:-संसाररूपस्य प्रेक्षणम्-अवलोकनम्-यथा-"यौवनं नगनदास्पदोपम, शारदाम्मुदविलासि जीवितम् । स्वपलब्धधनविभ्रम धन, स्थावरं किमपि नास्ति तत्त्वतः ॥ १३५ ॥ विग्रहा गदभुजङ्गमालयाः, संगमा विगमदोषदृषिताः। संपदोऽपि विपदा कटाक्षिता, नास्ति किश्चिदनुपद्रवं स्फुटम् ॥ १३६ ॥” इत्यादीति ॥ ८८॥
Page #108
--------------------------------------------------------------------------
________________
बावक
धर्मबिन्दु श्रादधमाध्या
सामान्य चा
॥५२॥
तदनु तन्नैर्गुण्यभावनेति ॥ ८९॥ (२२२) तस्या-भवस्थितेः नैर्गुण्यभावना-निःसारखचिन्तनं, यथा-" इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः शृगाली तृष्णेयं विवृतवदना धावात पुरः । इतः क्रूरः कामो विचरति पिशाचश्विरमहो, श्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥१३७ ॥ एतास्तावदसंशयं कुशदलपान्तोदबिन्दूपमा, लक्ष्म्यो बन्धुसमागमोऽपि न चिरस्थायी खलपीतिवत् । यच्चान्यत्किल किश्चिदस्ति निखिलं तच्छारदाम्भोधरच्छायावच्चलतां विभर्ति यदतः स्वस्मै हितं चिन्त्यताम् ॥१३८॥८९॥
तथा-अपवर्गालोचन मिति ॥ ९॥ (२२३) अपवर्गस्य-मुक्त आलोचन-सर्वगुणमयत्वेनोपादेयतया परिभावनम् , यथा-"प्राप्ताः श्रिया सकलकामदुधास्ततः किं १, दत्तं पदं शिरसि विद्विषतां ततः किम् ? । संपूरिताः प्रणयिनो विभवैस्ततः किं , कल्पं भृतं तनुभृतां तनुभिस्ततः किम् ? ॥१३९ ॥ तस्मादनन्तमजरं परमं प्रकाश, तच्चित्त ! चिन्तय किमेभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्ययोगादयः कृपणजन्तुमतां भवन्ति ॥ १४०॥"॥९॥
तथा-श्रामण्यानुराग इति ॥ ९१ ॥ (२२४) श्रामण्ये-शुद्धसाधुभावे अनुरागो विधेयः, यया-"जैन मुनिव्रतमशेषभवात्तकर्मसंतानतानवकर स्वयमभ्युपेतः। कुर्यां तदुत्तरतरं च तपः कदाऽहं, भोगेषु निःस्पृहतया परिमुक्तसङ्गः? ॥१४१॥" ॥११॥
तथा-यथोचितं गुणवृद्धिरिति ॥ ९२ ॥ (२२५)
॥५२॥
Page #109
--------------------------------------------------------------------------
________________
'यथोचितं ' यो यदा वर्द्धयितुमुचितस्तस्य सम्यग्दर्शनादेर्गुणस्य दर्शनप्रतिमाव्रतप्रतिमाभ्यासद्वारेण वृद्धिः-पुष्टीकरणं कार्या ॥ ९२॥
तथा-सत्त्वादिषु मैत्र्यादियोग इतीति ॥ ९३ ॥ (२२६) सत्वेषु-सामान्यतः सर्वजन्तुषु आदिशब्दाहुःखितमुखदोषक्षितेषु मैत्र्यादीनाम्-आशयविशेषाणां योगो-व्यापारः कार्यः, मैत्र्यादिलक्षणं चेदम्-" परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा। परमुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥१४२॥” (पोड) इतिः परिसमाप्तौ ॥ संप्रत्युपसंहरन्नाहविशेषतो गृहस्थस्य, धर्म उक्तो जिनोत्तमैः। एवं सद्भावनासारः, परं चारित्रकारणम् ॥१६॥
'विशेषतः' सामान्यगृहस्थधर्मवैलक्षण्येन 'गृहस्थस्य' गृहमेधिनो धर्मः 'उक्तो' निरूपितो 'जिनोत्तमैः' अर्हद्भिः 'एवम् ' उक्तरोत्या 'सद्भावनासारः' परमपुरुषार्यानुकूलभावनाप्रधानः, भावभावकधर्म इत्यर्थः, कोदशोऽसावित्याह-'परम्' अवन्ध्यमिह भवान्तरे वा 'चारित्रकारणं' सर्वविरतिहेतुः॥१॥ ननु कथं परं चारित्रकारणमसावित्याशङ्कयाह
पदंपदेन मेधावी, यथाऽऽरोहति पर्वतम् । सम्यक् तथैव नियमाडीरश्चारित्रपर्वतम् ॥१७॥
इह पदं पदिकोच्यते, ततः पदेन पदेन यदारोहणं तन्निपातनात् पदंपदेनेत्युच्यते, ततः पदंपदेन 'मेधावी' बुद्धिमान् 'यथे'ति दृष्टान्तार्थः ‘आरोहति' आक्रामति 'पर्वतम्' उज्जयन्तादिकं 'सम्यक् ' हस्तपादादिशरीरावयवभकाभावेन 'तथैव ' तेनैव प्रकारेण 'नियमाद्' अवश्यतया 'धीरो' निष्कलङ्कानुपालितश्रमणोपासकसमाचारः 'चारित्र
Page #110
--------------------------------------------------------------------------
________________
धमबिन्दु पर्वतं ' सर्वविरतिमहाशैलमिति ॥ २ ॥ ननु एतदपि कथमित्थमित्याह'श्राद्धध -
मध्यायः ४
॥५३॥
4514469)-2*#469) *#*#*#469) *०** (69)
स्तोकान् गुणान् समाराध्य, बहूनांमपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥ १८ ॥ इति ॥ ' स्तोकान् ' तुच्छान् 'गुणान् ' श्रमणोपासकावस्थोचितान् ' समाराध्य ' पालयित्वा 'बहूनां सुश्रमणोचितगुणानां, स्वोकानामाराधनायोग्यो जात एवेत्यपिशब्दार्थः, ' जायते ' भवति यस्मात्कारणादाराधनायोग्यः - परिपालनोचितः, अविकलाल्पगुणाराधनाबलमलीन बहुगुणलाभबाधकर्मकलङ्कत्वेन तद्गुणलाभसामर्थ्यभावात् तस्मात्कारणादादौ प्रथमत एव ' अयम् ' अनन्तरमोक्तो गृहस्थधर्मो 'मतः ' सुधियां संमत इति । पुरुषविशेषापेक्षोऽयं न्यायः, अन्यथा तथाविधाध्यवसायसामर्थ्यादत एवाबलीभृतचारित्रमोहानां स्थूलभद्रादीनामेतत्क्रममन्तरेणापि परिशुद्ध सर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणखात् ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मविन्दुवृत्तौ विशेषतो गृहस्थधर्मविधिस्तृतीयोऽध्यायः समाप्तः । व्याख्यातस्तृतीयोऽध्यायः ।
अथ चतुर्थः अध्यायः
साम्प्रतं चतुर्थ आरभ्यते, तस्य चेदमादिसूत्रम्
एवं विधिसमायुक्तः, सेवमानो गृहाश्रमम् । चारित्रमोहनीयेन, मुच्यते पापकर्मणा ॥ १९ ॥
*100*#46)*# 441469) **0*60 46) **** (40)
श्रावक
सामान्य
चर्या:
|119311
Page #111
--------------------------------------------------------------------------
________________
'एवम् ' उक्तरूपेण विधिना-सामान्यतो विशेषतश्च गृहस्थधर्मलक्षणेन समायुक्तः-संपन्नः 'सेवमानः' अनुशीलयन् 'गृहाश्रम' गृहवासं, किमित्याह-'चारित्रमोहनीयेन' प्रतीतरूपेण 'मुच्यते' परित्यज्यते 'पापकर्मणा' पापकृत्यात्मकेन ॥१॥ एतदपि कथमित्याह
सदाज्ञाऽऽराधनायोगाद्भावशुद्धेनियोगतः। उपायसंप्रवृत्तेश्च, सम्यक्चारित्ररागतः ॥२०॥
सन्-अकलङ्कितो य आज्ञाराधनयोगो-यतिधर्माभ्यासासहेनादौ श्रावकधर्मः अभ्यसनीय इत्येवलक्षणो जिनोपदेशसंबन्धः तस्माद् यका भावशुद्धिः-मनोनिर्मलता तस्याः 'नियोगतः' अवश्यतया तथा 'उपायसंप्रवृत्तेश्च' उपायेन शुद्धहेत्वङ्गीकरणरूपेण प्रवृत्तेः-चेष्टनात् , चकारो हेत्वन्तरसमुच्चये, इयमपि कुत इत्याह-'सम्यकचारित्ररागतः' निर्व्याजचारित्राभिलाषात् , इदमुक्तं भवति-सदाज्ञाराधनायोगात् यका भावशुद्धिः या च सम्यक्चारित्ररागत: उपायसंपत्तिः अणुव्रतादिपालनरूपा ताभ्यामुभाभ्यामपि हेतुभ्यां चारित्रमोहनीयेन मुच्यते, न पुनरन्यथेति ॥२॥ आह इदमपि कथं सिद्धं यथेत्य चारित्रमोहनीयेन मुच्यते ततः परिपूर्णप्रत्याख्यानभाग्भवतीत्याशङ्कयाहविशुद्धं सदनुष्ठानं, स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि ॥२१॥
'विशुद्ध' निरतिचारं अत एव सत्-सुन्दरं अनुष्ठानं स्थूलपाणातिपातविरमणादि 'स्तोकमपि' अन्यतमैकभङ्गकप्रतिपत्त्या अल्पं, बहु तावन्मतमेवेत्यपिशब्दार्थः, 'अहंतां' पारगतानां 'मतम् ' अभीष्टं, कथमित्याह-'तत्त्वेन' तात्त्विकरूपतया, न पुनरतिचारकालुष्यक्षितं बहप्यनुष्ठानं सुन्दरं मतं, 'तेन च ' तेन पुनर्विशुद्धनानुष्ठानेन करणभूतेन स्तोके
Page #112
--------------------------------------------------------------------------
________________
||श्रावक सामान्य चर्या
धर्मबिन्दु नापि कालेन 'प्रत्याख्यानम्' आश्रवद्वारनिरोधलक्षणं 'ज्ञात्वा' गुरुमूले श्रुतधर्मतया सम्यगवबुध्य प्रत्याख्यानस्य फलं हेतु | श्राद्धध- च 'सुबहपि' सर्वपापस्थानविषयतया भूयिष्ठमपि करोतीति गम्यते, स्तोकं तावदनुष्ठानं संपन्नमेवेत्यपिशब्दार्थः, अयमभि- मध्यिा-IA पाय:-स्तोकादप्यनुष्ठानादत्यन्त विशुद्धात् सकाशात् कालेन प्रत्याख्यानस्वरूपादिज्ञातुर्भूयिष्ठमपि प्रत्याख्यानं संपद्यत इति॥३॥ यः४
इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्याम इति ॥१॥ (२२७) ॥५४॥
प्रतीतार्थमेव ॥१॥ यत्यनुवर्णनमेवाह
अर्हः अहंसमीपे विधिप्रव्रजितो यतिरिति ॥२॥ (२२८) 'अर्हः' प्रव्रज्याों वक्ष्यमाण एव अहंस्य प्रव्रज्यादानयोग्यस्य वक्ष्यमाणगुणस्यैव गुरोः समीपे-पाचे विधिना-वक्ष्यमाणेनैव 'प्रव्रजितः गृहीतदीक्षः 'यतिः' मुनिरित्युच्यते इति ॥२॥ 'यथोद्देशं निर्देश' इति न्यायात्मव्रज्याहमेवाभिधित्सुराह
अथ प्रव्रज्या:-आर्यदेशोत्पन्नः १ विशिष्टजातिकुलान्वितः २क्षीणप्रायकर्ममल: ३ तत एव विमलवुद्धिः ४ दुर्लभं मानुष्यं जन्म मरणनिमित्तं संपदश्चपलाः विषया दुःखहेतवः संयोगे वियोगः प्रतिक्षणं मरणं दारुणो विपाकः इत्यवगतसंसारनैर्गुण्य: ५ तत एव तद्विरक्तः६ प्रतनुकषायः ७ अल्पहास्यादिः ८ कृतज्ञः ९विनीतः १० प्रागपि राजामात्यपौरजनबहुमतः ११ अद्रोहकारी १२ कल्याणांगः १३ श्राद्धः १४ स्थिरः | १५ समुपसंपन्न १६ श्चेति ॥३॥ (२२९)
एतत्सर्वं सुगम, परं' अथे'त्यानन्तर्याथः प्रव्रजनं-पापेभ्यः प्रकर्षण शुद्धचरणयोगेषु वजन-गमनं प्रव्रज्या तस्या
॥५४॥
Page #113
--------------------------------------------------------------------------
________________
अहः-योग्यः प्रव्रज्याो जीवः, कीदृशः इत्याह 'आर्यदेशोत्पन्नः' मगधाधषड्विंशतिमण्डलमध्यलब्धजन्मा, तया' वशिष्टजातिकुलान्वितः' विशुद्धवैवाह्यचतुर्वर्णान्तर्गतमातृपितृपक्षरूपजातिकुलसंपन्नः तथा 'क्षीणप्रायकर्ममलः' क्षीणप्रायः-उत्सन्नमायः कर्ममलो-ज्ञानावरणमोहनोयादिरूपो यस्य सा तथा, तत एव विमलबुद्धिः, यत एव क्षीणमायकर्ममल: तत एव हेतोविमलबुद्धिः-निर्मलीमसमतिः, 'प्रतिक्षणं मरण 'मिति समयप्रसिद्धावीचिमरणापेक्षयेति, पठ्यते च-"यामेव रात्रिं प्रथमामुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततः प्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति ॥ १४३ ॥" नरवीर इति व्यासेन युधिष्ठिरस्य संबोधनमिति, दारुणो विपाको मरणस्यैवेति गम्यते, सर्वाभावकारिखात्तस्येति, 'प्रागपि' इति प्रव्रज्यापत्तिपत्तिपूर्वकाल एवेति, 'स्थिर' इति प्रारब्धकार्यस्यापान्तराल एव न परित्यागकारी, 'समुपसंपन्न' इति समिति-सम्यग्वृत्या सर्वथाऽऽत्मसमर्पणरूपया उपसंपन्नः-सामीप्यमागत इति ॥३॥ इत्थं प्रव्रज्याहमभिधाय प्रव्राजकमाह
गुरुपदार्हस्तु इत्थंभूत एव-विधिप्रतिपन्नप्रव्रज्यः १ समुपासितगुरुकुल: २ अस्खलितशीलः ३ सम्यगधीतागमः ४ तत एव विमलतरबोधात्तत्त्ववेदी ५ उपशान्तः ६ प्रवचनवत्सलः ७ सत्त्वहितरता ८ आदेयः९ अनुवर्त्तकः १० गम्भीरः ११ अविषादी १२ उपशमलब्ध्यादिसंपन्न: १३ प्रवचनार्थवक्ता १४ स्वगुर्वनुज्ञातगुरुपद १५ श्चेतीति ॥ ४॥ (२३०)
'गुरुपदाहः' प्रवाचकपदयोग्य: तुः पूर्वस्माद्विशेषणार्थः 'इत्थंभूत एव' प्रव्रज्याईगुणयुक्त एव सन् , न पुनरन्यादृशोऽपि, तस्य स्वयं निर्गुणत्वेन प्रव्राज्यजीवगुणबीजनिक्षेपकरणायोगात् , किमित्याह-'विधिप्रतिपन्नप्रव्रज्यः' वक्ष्य
Page #114
--------------------------------------------------------------------------
________________
मू.४.२१
धर्मविन्दका मागक्रमाधिगतदीक्षः 'समुपासितगुरुकुल' विधिवदाराधितगुरुपरिवारभावः 'अस्खलितशील' प्रवज्याप्रतिपत्तिप्र- वाजका भृत्येवाखण्डितव्रतः 'सम्यगधीतागमः' मूत्रार्थोभयज्ञानक्रियादिगुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्य:,
Aधिकार माध्यायः३
यतः पठ्यते-"तित्ये सुत्तत्याणं गहणं विहिणा उ तत्थ नित्यमिदं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो॥११४॥ ॥५५॥
उभयन्नूविय किरियापरो दढं पवयणाणुरागी य । ससमयपरूवगो परिणो य पन्नो य अच्चत्यं ॥ १४५ ॥” (उपदेशपदे ८५२-८५३) [तीर्थे सूत्रार्थयोर्ग्रहणं विधिनैव तत्र तीर्थमिदम् । उभयज्ञ एव गुरुः विधिस्तु विनयादिकश्चित्रः ॥ १॥ उभयज्ञोऽपि च क्रियापरो दृढं प्रवचनानुरागी च । स्वसमयमरूपकः परिणतश्च प्राज्ञश्चात्यर्थम् ॥२॥] 'तत एव विमलतरबोधात्तत्त्ववेदी' तत एव-सम्यगधीतागमत्वादेव हेतोर्यों विमलतरो बोधः-शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरप्रज्ञोन्माल: तस्मात्सकाशात् तत्ववेदी-जीवादिवस्तुविज्ञाता 'उपशान्तः' मनोवाकायविकारविकल: 'प्रवचनवत्सलः' यथानुरूपं साधुसाध्वीश्रावकश्राविकारूपचतुर्वर्णश्रमणसङ्घवात्सल्यविधायी 'सत्त्वहितरतः' तत्तच्चित्रोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः 'आदेयः परेषां ग्राह्यवचनचेष्टः 'अनुवर्तकः' चित्रस्वभावानां प्राणिनां गुणान्तराधानधियाऽनुवृत्तिशीलः 'गम्भीर' रोषतोषाद्यवस्थायामप्यलब्धमध्यः ‘अविषादी' न परीषहाद्यभिभूतः कायसंरक्षणादौ दैन्यमुपयाति 'उपशमलब्ध्यादिसंपन्नः' उपशमलब्धिः-परमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते, ततस्ताभिः संपन्न:-समन्वितः 'प्रवचनार्थवक्ता' यथावस्थितागमार्थप्रज्ञापकः 'स्वगुर्वनुज्ञातगुरुपदः'
॥५ ॥ स्वगुरुणा-स्वगच्छनायकेनानुज्ञातगुरुपदः-समारोपिताचार्यपदवीकः, चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः।
Page #115
--------------------------------------------------------------------------
________________
अत्र षोडश प्रव्रज्याईगुणाः पश्चदश पुनर्गुरुगुणा निरूपिता इति ॥४॥ उत्सर्गपक्षश्चायम् , अयात्रैवापवादमाह
पादाईगुणहीनो मध्यमावराविति ॥५॥ (२३१) पादेन-चतुर्थभागेन अर्द्धन च-प्रतीतरूपेण प्रस्तुतगुणानां हीनौ-न्यूनौ प्रव्राज्यप्रव्राजको 'मध्यमावरौ' मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति ॥५॥ अथैतस्मिन्नेवार्थे परतीर्थिकमतानि दश स्वमतं चोपदर्शयितुमिच्छु: 'नियम एवायमिति वायु 'रित्यादिकं 'भवन्ति अ(त्व)ल्पा अपि असाधारणगुणा: कल्याणोत्कर्षसाधका' इत्येतत्पर्यन्तं सूत्रकदम्बकमाह--
नियम एवायमिति वायुरिति ॥६॥ (२३२) 'नियम एव' अवश्यंभाव एव 'अयं' यदुत परिपूर्णगुणो योग्यो नापरः-पादप्रमाणादिहीनगुणः स्यादित्येवं | 'वायुः' वायुनामा प्रवादिविशेषः, पाहेति सर्वत्र क्रिया गम्यते ॥ ६ ॥ कुत इत्याह
___समग्रगुणसाध्यस्य तदर्द्धभावेऽपि तत्सिद्ध्यसंभवादिति ॥७॥ (२३३)
'समग्रगुणसाध्यस्य' कारणरूपसमस्तगुणनिष्पाद्यस्य कार्यस्य तदर्द्धभावेऽपि तेषां-गुणानामर्द्धभावे उपलक्षणखात् पादहीनभावे च 'तत्सियसंभवात् ' तस्माद्-गुणाति पादोनगुणभावाद्वा या सिद्धिः-निष्पत्तिः तस्या असंभवाद्-अघटनात् , अन्यथा कार्यकारणव्यवस्थोपरमः प्रसज्यत इति ॥ ७॥
नैतदेवमिति वाल्मीकिरिति ॥ ८॥ (२३४) 'न' नैव 'एतत् । वायूक्तमिति, एतत् माह 'वाल्मीकिः ' वल्मीकोद्भवः ऋषिविशेषः ॥८॥ कुत इत्याह
Page #116
--------------------------------------------------------------------------
________________
धर्मविन्दु
श्राद्धमांध्या
॥५६॥
निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेरिति ॥९॥२३५ ॥
वाजका निर्गुणस्य सतो जीवस्य कयश्चित्-केनापि प्रकारेण स्वगतयोग्यताविशेषलक्षणेन प्रथमं 'तद्गुणभावोपपत्तेः तेषां
Iधिकार समग्राणां प्रव्राज्यगुणानां प्रव्राजकगुणानां वा भावोपपत्तेः-घटनासंभवात् , तथाहि-यथा निर्गुणोऽपि सन् जन्तुर्विशिष्टकार्य
म.४-२१ हेतून् प्रथम गुणान् लभते तथा यदि तद्गुणाभावेऽपि कयश्चिदिशिष्टमेव कार्य लप्स्यते तदा को नाम विरोधः स्यात् ?, दृश्यते | च दरिद्रस्यापि कस्यचिदकस्मादेव राज्यादिविभूतिलाभ इति ॥९॥
अकारणमेतदिति व्यास इति ॥ १० ॥ (२३६) 'अकारणम् ' अप्रयोजक निष्फलमित्यर्थः 'एतद्' वाल्मीकिनिरूपितं वाक्यं इत्येतद् ब्रूते 'व्यासः' कृष्णद्वैपायनः॥१०॥ कुत इत्याह
गुणमात्रासिद्धौ गुणान्तरभाव(स्य)नियमा(दभावादिति ॥ ११॥ (२३७) 'गुणमात्रस्य' स्वाभाविकस्य तुच्छस्यापि गुणस्य प्रथममसिद्धौ सत्यां गुणान्तरस्य-अन्यस्य गुणविशेषस्य भावःउत्पादः गुणान्तरभावः तस्य नियमाद्-अवश्यंतया अभावाद्-असत्त्वात् , स्वानुरूपकारणपूर्वको हि कार्यव्यवहारः, यतः पठ्यते-'नाकारणं भवेत्कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्कार्यकारणयोः कचित् ॥१४६॥" 'नान्यकारणकारण' मिति न-नैव अन्यस्य-आत्मव्यतिरिक्तस्य कारणमन्यकारणं अन्यकारणं कारणं यस्य तत् तया, पटादेः कारणं सूत्रपिण्डादिर्घटादेः कारणं न भवति इति भावः॥११॥
॥५३॥
Page #117
--------------------------------------------------------------------------
________________
नैतदेवमिति सम्राडिति ॥ १२॥ (२३८) नैतदेवं प्राग्वत् 'सम्राट् राजर्षिविशेषः प्राह ॥ १२ ॥ कुत इत्याह
संभवादेव श्रेयस्त्वसिद्धेरिति ॥ १३ ॥ (२३९) 'संभवादेव' योग्यत्वादेव, न पुनर्गुणमात्रादेव केवलात् संभवविकलात् , 'श्रेयस्त्वसिद्धेः' सर्वप्रयोजनानां श्रेयोभावनिष्पत्तेः, इदमुक्तं भवति-गुणमात्रे सत्यपि यावदद्यापि प्रव्राज्यादि वो विवक्षितकार्य प्रति योग्यतां न लभते न तावत्तत्तेनारब्धमपि सिध्यति, अनधिकारिखात्तस्य, अनधिकारिणश्च सर्वत्र कार्ये प्रतिषिद्धत्वात , अतो योग्यतैव सर्वकार्याणां श्रेयोभावसंपादिकेति ॥१३॥
यत्किञ्चिदेतदिति नारद इति ॥ १४ ॥ (२४०) यत्किञ्चित् न किंचिदित्यर्थः एतत्सम्राडुक्तमिति नारदो वक्ति ॥ १४ ॥ कुत इत्याह
गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगादिति ॥ १५॥ (२४१) गुणमात्रात्-योग्यतामात्ररूपात् गुणान्तरस्य तथाविधस्य भावेऽप्युत्कर्षायोगात्-उत्कृष्टानां गुणानामसंभवात् , अन्यथा योग्यतामात्रस्य प्रायेण सर्वप्राणिनां संभवादुत्कृष्टगुणप्रसङ्गेन न कश्चित् सामान्यगुणः स्यात् , अतो विशिष्टैव योग्यता गुणोत्कर्षसाधिकेति सिद्धमिति ॥ १५ ॥
सोऽप्येवमेव भवतीति वसुरिति ॥ १६ ॥ (२४२)
Page #118
--------------------------------------------------------------------------
________________
धर्मबिन्दु श्रादधमध्या
य :३ ॥५७॥
太辛 李众等众赞赞辛安一
'सोsपि' गुणोत्कर्षः, किं पुनर्गुणमात्राद् गुणान्तरसिद्धिरित्यपिशब्दार्थः, 'एवमेव' पूर्वगुणानामुत्तरोत्तरगुणारम्भकत्वेन 'भवति' निष्पद्यते, निर्बीजस्य कस्यचित्कार्यस्य कदाचिदप्यभावादित्येतद् 'वसुः' समयप्रसिद्धो राजविशेषो निगदति, एष च मनाग् व्यासमतानुसारीति ।। १६ ।।
अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि को टिव्यवहारारोपणमिति क्षीरकदम्बक इति ॥ १७ ॥ (२४३) 'अयुक्तं ' अघटमानकं 'कार्षापणधनस्य' अतिजघन्य रूपकविशेषसर्वस्वस्य व्यवहारिणो लोकस्य ' तदन्यविढपनेऽपि ' तस्मात्-कार्षापणादन्येषां कार्षापणादीनां विढपने-उपार्जने, किं पुनस्तदन्याविढपने इत्यपिशब्दार्थः, 'कोटिव्यवहारारोपणं' कोटिप्रमाणानां दीनारादीनां व्यवहारे आत्मन आरोपणमिति, यतोऽतिबहुकालसाध्योऽयं व्यवहारो, न च तावन्तं कालं व्यवहारिणां जीवितं संभाव्यते, एवं च क्षीरकदम्बनारदयोर्न कश्चिन्मतभेदो यदि परं वचनकृत एवेति ॥ न दोषो योग्यतायामिति विश्व इति ॥ १८ ॥ (२४४)
'न' नैव 'दोष' अघटनालक्षणः कश्चित् योग्यतायां कार्षापणधनस्यापि तथाविधभाग्योदयात्मतिदिनं शतगुणसहस्रगुणादिकार्षापणोपार्जनेन कोटिव्यवहारारोपणोचितखलक्षणायां, श्रूयन्ते च केचित्पूर्वं तुच्छव्यवहारा अपि तथाविधभाग्यबलेन स्वल्पेनैव कालेन कोटिव्यवहारमारूढा इत्येतत् 'विश्वो' विश्वनामा प्रवादी प्राहेति, अयं च मनाक् सम्राण्मतमनुसरतीति ॥ २४४॥ अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुरिति ॥ १९ ॥ (२४५) अन्यतरस्य—कस्यचिद् गुणस्य वैकल्येऽपि किं पुनरवैकल्ये इत्यपिशब्दार्थः, 'गुणबाहुल्यमेव गुणभूयस्त्वमेव
1040-460) 40001469) *46) 40*46) 4
पत्राजका
धिकारः
४-२१
॥५७॥
Page #119
--------------------------------------------------------------------------
________________
'सा' पूर्वसूत्रसूचिता योग्यता तत्त्वतः' परमार्थवृत्या प्रवर्तते, अतो न पादगुणहीनादिचिन्ता कार्येत्येतत् 'सुरगुरुः' बृहस्पतिरुवाचेति ॥ १९॥
सर्वमुपपन्नमिति सिद्धसेन इति ॥२०॥ (२४६) समस्तेष्वपि धर्मार्थकाममोक्षव्यवहारेषु पुरुषपराक्रमसाध्येषु विषये यद् यद् उपपन्न-घटमानं निमित्ततया बुद्धिमद्भिरूत्प्रेक्ष्यते तत्सर्वमखिलं सेत्यनुवर्तते, उपपन्नवस्य योग्यताया अभिन्नत्वादिति, 'सिद्धसेनो' नीतिकारः शास्त्रकृतिशेषो जगाद ॥२०॥ इत्यं दश परतैर्थिकमतान्युपदय स्वमतमुपदर्शयन्नाह
भवन्ति त्वल्पा अपि असाधारणगुणाः कल्याणोत्कर्षसाधका इति ॥२१॥ (२४७)
'भवन्ति' न न भवन्ति तुः पूर्वमतेभ्योऽस्य वैशिष्टयख्यापनार्थः 'अल्पा अपि' परिमिता अपि, किं पुनरनल्पा इत्यपिशब्दार्थः, 'गुणा' आर्यदेशोत्पन्नतादयः 'असाधारणाः' सामान्यमानवेष्वसंभवन्तः 'कल्याणोत्कर्षसाधकाः' प्रव्रज्याद्युत्कृष्टकल्याणनिष्पादकाः, असाधारणगुणानां नियमादितरगुणाकर्षणावन्ध्यकारणत्वादिति युक्तमुक्तमादौ यदुत 'पादाईगुणहीनौ मध्यमावरौ योग्या' विति। अत्र वायुवाल्मीकिव्यासम्राड्नारदवमुक्षीरकदम्बकमतानां कस्यचित्केनापि संवादेऽप्यन्यतरेण निराक्रियमाणत्वादनादरणीयतैव, विश्वसुरगुरुसिद्धसेनमतेषु च यद्यसाधारणगुणानादरणेन योग्यताङ्गीक्रियते तदा न सम्यक् , तस्याः परिपूर्णकार्यासाधकबाद , अथान्यया तदाऽस्मन्मतानुवाद एव तैः शब्दान्तरेण कृतः स्यात्, न पुनः स्वमतस्थापनं किञ्चित् इति ॥ इत्युक्तौ प्रव्राज्यप्रव्राजको, अधुना प्रव्रज्यादानविधिमभिधित्सुराह
Page #120
--------------------------------------------------------------------------
________________
धर्मविन्दु
श्रादधमाध्या
मव्रज्या दानेनि
धिः
मू. २२
॥५८॥
उपस्थितस्य प्रश्नाचारकथनपरीक्षादिविधिरिति ॥ २२ ॥ (२४८) 'उपस्थितस्य' स्वयं प्रव्रज्यां ग्रहीतुं समीपमागतस्य, प्रश्नश्च आचारकथनं च परीक्षा च प्रश्नाचारकथनपरीक्षाः ता | आदिर्यस्य स तथा, आदिशब्दात कण्ठतः सामायिकादिसूत्रप्रदानतथाविधानुष्ठानाभ्यासग्रहः, 'विधिः 'क्रमः प्रव्रज्यामदाने पूर्वसूचित एषः, इदमुक्तं भवनि-सद्धर्मकथाक्षिसतया प्रव्रज्याभिमुख्यमागतो भव्यजन्तुः पृच्छनीयः, यथा को वत्स ! त्वं किं निमित्तं वा प्रव्रजसि ?, ततो यद्यसौ कुलपुत्रका तगरानगरादिसुन्दरक्षेत्रोत्पन्नः सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यत इत्युत्तरं कुरुते तदाऽसौ प्रश्नशृद्धः?, ततोऽस्य दुरनुचरा प्रव्रज्या कापुरुषाणां आरम्भनिवृत्तानां पुनरिह परभवे च परमः कल्याणलाभः तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी तथा यथा कुष्ठादिव्याधिमान् क्रियां प्राप्त कालां प्रतिपद्यापथ्यमासेवमानो अप्रवृत्तादधिकं शीघ्रं च विनाशमाप्नोति एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिक कर्म समुपार्जयतीत्येवं तस्य साध्वाचारः कय. |नीय इति २, एवं कथितेऽपि साध्वाचारे निपुणमसौ परीक्षणीयः, यत:-" असत्याः सत्यसंकाशा, सत्याश्चासत्यसंनिभाः। दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥ १४७ ।। अतथ्यान्यपि तथ्यानि, दर्शयन्त्यतिकौशलाः । चित्रे निम्नोन्नतानीव, चित्रकर्मविदो जनाः॥१४८ ॥” परीक्षा च सम्यक्त्वज्ञानचारित्रपरिणतिविषया तैस्तैरुपायैर्विधेया, परीक्षाकालश्च प्रायः षण्मासाः, तथाविधपात्रापेक्षया तु अल्पो बहुश्च स्यात् ३, तथा सामायिकसूत्रं अकृतोपधानस्यापि कष्ठतो वितरणीयं, अन्यदपि सूत्रं पात्रतामपेक्ष्याध्यापयितव्यम् ४ ॥ २२॥
॥५८॥
Page #121
--------------------------------------------------------------------------
________________
तथा-गुरुजनाद्यनुज्ञेति ॥ २३ ॥ (२४९) गुरुजनो-मातापित्रादिलक्षणः, आदिशब्दात् भगिनीभार्यादिशेषसंवन्धिलोकपरिग्रहः तस्य अनुसा-प्रव्रज खमित्यनुमतिरूपा, विधिरित्यनुवर्चते ॥ २३ ॥ यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि न मुञ्चति तदा यविधेयं तदाह
तथा तथोपधायोग इति ॥ २४ ॥ (२५०) 'तथा तथा' तेन तेन प्रकारेण सर्वथा परैरनुपलक्ष्यमाणेन 'उपधायोग मायायाः प्रयोजनम् ॥२४॥ कयमित्याह
दुःस्वमादिकथन मिति ॥२५॥ (२५१) दुःस्वमस्य-खरोष्ट महिषाद्यारोहणादिदर्शनरूपस्य आदिशब्दान्मातृमण्डलादिविपरीतालोकनादिग्रहः तस्य कयनंगुर्वादिनिवेदनमिति ॥ २५ ॥
तथा-विपर्ययलिङ्गसेवेति ॥२६॥ (२५२) विपर्ययः-प्रकृतिविपरीतभावः स एव मरणसूचकत्वात् लिङ्गं तस्य सेवा-निपेवणं कार्य येन स गुर्वादिजनः संनिहिसमृत्युरयमित्यवबुध्य प्रव्रज्यामनुजानीते इति ॥ २६ ॥ विपर्ययलिङ्गानि तेषु स्वयमेवाबुध्यमानेषु किं कृत्यमित्याह
दैवज्ञैस्तथा तथा निवेदनमिति ॥२७॥ (२५३) 'देवः' निमित्तशास्त्रपाठक ' तथा तथा' तेन तेन निमित्तशास्त्रपागदिरूपेणोपायेन 'निवेदनं ' गुर्वादिजनस्य ज्ञापन, विपर्ययलिङ्गानामेव कार्यमिति ॥ २७ ॥ नन्वेवं मायाविनः प्रव्रज्याप्रतिपचावपि को गुणः स्यादित्याशयाह
Page #122
--------------------------------------------------------------------------
________________
धमबिन्दु श्राद्ध
ध्या-1 यः४ ॥५९॥
मातापित्रादित्या ग: सू० २३-३१
न धर्म मायेति ॥ २८ ॥ (२५४) 'न' नैव धर्म साध्ये माया क्रियमाणा 'माया' वञ्चना भवति, परमार्थतोऽमायात्वात्तस्याः ॥२८॥ एतदपि कुत इत्याह
उभयहितमेतदिति ॥२९॥ (२५५) उभयस्य-स्वस्य गुर्वादिजनस्य च हित-श्रेयोरूपं एतद्-एवं प्रव्रज्याविधौ मायाकरणं, एतत्फलभूतायाः प्रव्रज्यायाः स्वपरोपकारकत्वात् , पठ्यते च-" अमायोऽपि हि भावेन, माय्येव तु भवेत्कचित् । पश्येत्स्वपरयोर्यत्र, सानुबन्धं हितोदयम् ॥ ॥१४९॥" अयेत्यमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याशङ्कयाह
यथाशक्ति सौविहित्यापादनमिति ॥३०॥ (२५६) 'यथाशक्ति' यस्य यावती शक्तिः शतसहस्रादिप्रमाणनिर्वाहहेतुद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य-सौस्थ्यस्यापादनं-विधानं येन प्रबजितेऽपि तस्मिन्नसौ न सीदति, तस्य निर्वाहोपायस्य करणमिति भावः, एवं कृते कृतज्ञता कृता भवति, करुणा च मार्गप्रभावनाबीजं, ततस्तेनानुज्ञातः प्रबजेदिति ॥३०॥ अथैवमपि न त मोक्तुमसावुत्सहते तदा
ग्लानौषधादिज्ञातात्याग इति ॥ ३१ ॥ (२५७) ग्लानस्य-तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुर्वादेर्लोकस्य औषधादिज्ञाता-औषधस्य आदिशब्दात्स्वनिहिस्य च ग्रहा, तस्य गवेषणमपि औषधादीत्युच्यते, ततो ग्लानौषधायेव ज्ञातं-दृष्टान्तः तस्मात् त्यागः कार्यों गुर्वादेरिति, इदमुक्तं भवति-यथा कश्चित्कुलपुत्रकः कश्चिदपारं कान्तारं गतो मातापित्रादिसमेतः तत्सतिबद्धश्च तत्र व्रजेत् , तस्य च
॥१९॥
Page #123
--------------------------------------------------------------------------
________________
गुर्वादेः तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यः तथाविधौषधादिप्रयोगयोग्यश्च महानातङ्कः स्यात्, तत्र चासौ तत्पतिबन्धादेवमालोचयति-यया न भवति नियमादेष गुरुजनो नीरुक् औषधादिमन्तरेण, औषधादिभावे च संशयः कदाचित्स्यात् कदाचिनेति, कालसहचार्य, ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदौषधादिनिमित्तं स्ववृत्तिहेतोश्व त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, यः पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधान, धीराश्चैतद्दर्शिन एव भवन्ति, तत औषधसंपादनेन तं जीवयेदपीति संभवात् , सत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापित्रादिसंगतो धर्मप्रतिबदो विहरेत, तेषां च तत्र नियम विनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः संभवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्कः स्यात् , तत्र स शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवं समालोचयति, यदुत-विनश्यन्त्येतान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्संपादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यावद्गृहवासं निर्वाहादिचिन्तया तथा तथा संस्थाप्य तेषां सम्यक्त्वाद्यौषधनिमित्त स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्ध्या साधुरेव, एष त्यागोऽत्यागस्तत्वभावनातः, अत्याग एव च त्यागो मिथ्याभावनातः, तत्त्वफलमत्र प्रधानं बुधानां, यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसंपादनेन जीवयेदात्यन्तिक, अपुनमरणेनामरणावन्ध्यबोजयोगेन संभवात् , सुपुरुषोचितमेतद्, यतो दुष्पतिकारौ नियमान्मातापितरौ शेषश्च यथोचितं स्वजनलोका, एष धर्मः सज्जनानां, भगवानत्र ज्ञातं परिहरनकुशलानुबन्धिमातापित्रादिशोकमिति ॥१॥
तथा-गुरुनिवेदनमिति ॥३२॥ (२५८)
Page #124
--------------------------------------------------------------------------
________________
धर्मबिन्दु
गुरुनिये
दनादि
श्राद्धधमांध्यावः४ ॥६०॥
'तथेति विध्यन्तरसमुच्चयार्थः 'गुरुनिवेदन' सर्वात्मना गुरोः-प्रव्राजकस्यात्मसमर्पण कार्यमिति ॥ ३२ ॥ इत्यं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतमाह-.
अनुग्रहधियाऽभ्युपगम इति ॥३३॥ (२५०) गुरुणा 'अनुग्रहधिया' सम्यक्त्वादिगुणारोपणबुद्धया 'अभ्युपगमः प्रत्राजनीयस्त्वमित्येवरूपः कार्यों, न पुनः स्वपरिषत्पूरणादिबुद्धयेति ॥ ३३ ॥
तथा-निमित्तपरीक्षेति ॥ ३४ ॥ (२६०) निमित्तानां-भाविकार्यसूचकानां शकुनादीनां परीक्षा-निश्चयनं कार्य, निमित्तशुद्धेः प्रधानविधित्वात् इति ॥ ३४॥
तथा-उचितकालापेक्षणमिति ॥ ३५ ॥ (२६१) उचितस्य-प्रव्रज्यादानयोग्यस्य कालस्य-विशिष्टतियिनक्षत्रादियोगरूपस्य गणिविद्यानामप्रकीर्णकनिरूपितस्यापेक्षणम् आदरणमिति, यतस्तत्र पठ्यते-" तिहि उत्तराहि तह रोहिणोहिं कुज्जा उ सेहनिक्खमणं । गणिवायए अणुना महत्वयाणं च आरुहणा ॥१५०॥ तथा चउद्दसी पन्नरसिं वजेजा अहमि च नवमि च । छढि च चउत्थि बारसिं च दोणंपि पक्खाणं ॥१५१॥” (पञ्च. ११२-११३) [तिसृषूत्तरासु तथा रोहिण्यां कुर्यान शैक्षनिष्क्रमणम् । गणिवाचकयोरनुज्ञां महाव्रतानां चारोपणा ॥१॥ चतुर्दशी पञ्चदशों वर्जयेत् अष्टपां नवमीं च । षष्ठों च चतुर्थी द्वादशों च द्वयोरपि पक्षयोः ॥२॥] ॥३५॥
तथा-उपायतः कायपालनमिति ॥ ३६॥ (२६२)
॥६॥
Page #125
--------------------------------------------------------------------------
________________
' उपायतः' उपायेन निरवद्यानुष्ठानाभ्यासरूपेण कायानां पृथिव्यादीनां पालनं - रक्षणं प्रवित्रजिषुः प्राणी कार्यत इति ॥ ३६ ॥ तथा - भाववृद्धिकरणमिति ॥ ३७ ॥ (२६३)
भावस्य - प्रव्रज्याभिलाषलक्षणस्य वृद्धि: - उत्कर्षः तस्याः तैस्तैः प्रव्रज्याफ लमरूपणादिलक्षणैर्वचनैः करणं-सम्पादनं तस्य ॥ ३७ ॥
तथा - अनन्तरानुष्ठानोपदेश इति ॥ ३८ ॥ (२६४)
अनन्तरानुष्ठानस्य—प्रव्रज्याग्रहणानन्तरमेव करणीयस्य 'गुर्वन्तेवासितातद्भक्ति बहुमानादेः' अनन्तराध्याये एव वक्ष्यमाणस्योपदेशः तस्य कार्यः ॥ ३८ ॥
तथा - शक्तितस्त्यागतपसी इति ॥ ३९ ॥ (२६५)
शक्तितः- शक्तिमपेक्ष्य त्यागं च - अर्थव्ययलक्षणं देवगुरुसङ्घपूजादौ विषये तपश्च- अनशनादि कारणीयः स इति ॥ ३९ ॥ तथा - क्षेत्रादिशुड वन्दनादिशुद्धया शीलारोपणमिति ॥ ४० ॥ (२६६)
क्षेत्रस्य - भूमिभागलक्षणस्य आदिशब्दाद्दिशश्च शुद्धौ सत्यां 'वन्दनादिशुद्ध द्या' चैत्यवन्दनकायोत्सर्गकारणसाधुनेपथ्यसमर्पणादिसमाचारचारुतारूपया शीलस्य - सामायिकपरिणामरूपस्य 'करेमि भंते! सामायिकं ' इत्यादिदण्डकोच्चारणपूर्वकमारोपण - प्रव्रज्याई न्यसनं गुरुणा कार्यमिति, तत्र क्षेत्रशुद्धिः इक्षुवनादिरूपा, यथोक्तम्- " उच्छुवणे साहिबणे पउमसरे
Page #126
--------------------------------------------------------------------------
________________
धर्मविन्दु
श्रावन
पशीलस्या
रोपणवि धिः श्री
आंध्यायः४
॥६
॥
कुसुमिए व वणसंडे । गंभीर साणुणाए पयाहिणजले जिणहरे वा ॥ १५२ ॥ तथा-पुत्वाभिमुहो उत्तरमहो व दिज्जाऽहवा पडिच्छेज्जा । जाए जिणादओ वा दिसाएँ जिणचेइयाई वा ॥१५३॥” इति [विशे. ३४०४-३४०५] ॥४३॥ [इक्षुवणे शालिवने पद्मसरसि कुसुमिते वा वनखण्डे । गम्भीरे सानुनादे प्रदक्षिणावर्त्तजले जिनगृहे वा ॥१॥ पूर्वाभिमुख उत्तरमुखो वा दद्यादयवा प्रतीच्छेत् । यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ॥२॥]॥ ४०॥ शीलमेव व्याचष्टे
___ असङ्गतया समशत्रुमित्रता शीलमिति ॥ ४१ ॥ (२६७) 'असङ्गतया' क्वचिदपि अर्थ प्रतिबन्धाभावेन 'समशत्रुमित्रता' शत्रौ मित्रे च समानमनस्कता शीलमुच्यत इति ॥४२॥ ननु स्वपरिणामसाध्यं शीलं तरिकमस्य क्षेत्रादिशुद्धयारोपणेनेत्याशङ्कयाह
अतोऽनुष्ठानातद्भावसम्भव इति ॥ ४२ ॥ (२६८) 'अतः अस्माद् 'अनुष्ठानाद्' उक्तशीलारोपलक्षणात्तद्भावस्य-शीलपरिणामलक्षणस्य सम्भवः समुत्पादः प्रागसतोऽपि जायते, सतश्च स्थिरीकरणमिति ॥४२॥
तथा-तपोयोगकारणं चेतीति ॥४३॥ (२६९) स एवं विधिप्रबजितः सन् गुरुपरम्परयाऽऽगतमाचाम्लादितपोयोगः कार्यत इति ॥४३॥ अयोपसंहारमाहएवं यः शुद्धयोगेन, परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं, स यतिः परिकीर्तितः ॥२२॥ 'एवम्' उक्तप्रकारेण 'यो' भव्यविशेषः 'शुद्धयोगेन' सम्यगाचारविशेषेण 'परित्यज्य' हित्वा 'गृहाश्रम' गृह
॥
शा
Page #127
--------------------------------------------------------------------------
________________
स्थावस्थां 'संयमे हिंसादिविरमणरूपे 'रमते' आसक्तिमान् भवति 'स' एवंगुणो 'यतिः' उक्तनिरुक्तः परिकीर्तित इति ॥१॥ अत्रैवाभ्युच्चयमाह
एतत्तु संभवत्यस्य, सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य, सिद्धिं नेच्छन्ति पण्डिताः॥२३॥
एतत्पुनः-यतित्वं संभवत्यस्य-प्रवजितस्य सतः, कुत इत्याह-सदुपायप्रवृत्तितः सता-मुन्दरेण उपायेन 'अर्होऽईसमीपे' इत्याधुक्तरूपेण प्रवृत्तेः-चेष्टनात् , अत्रैव व्यतिरेकमाह-अनुपायात्तु-उपायविपर्ययात् पुनः 'सिडिं' सामान्येन सर्वस्य | कार्यस्य निष्पत्ति 'नेच्छन्ति' न प्रतिपद्यन्ते 'पण्डिता' कार्यकारणविभागकुशलाः, यतः पठन्ति-"नाकारणं भवेत्कार्य'मित्यादि ॥२॥ उक्तविपर्यये दोषमाह
यस्तु नैवंविधो मोहाच्चेष्टते शास्त्रबाधया । स तादृग्लिङ्गयुक्तोऽपि, न गृही न यतिमतः॥२४॥ _ 'यस्तु' यः पुनरद्याप्यतुच्छीभूतभवभ्रमणशक्तिः नैवविधः किन्तु उक्तविधिविपरीतः 'मोहादुर अज्ञानात् 'चेष्टते' प्रवर्त्तते 'शास्त्रबाधया' शास्त्रार्थोल्लङ्घनेन 'स' प्राणी 'तादृग्लिङ्गयुक्तोऽपि' शुद्धयतितुल्यनेपथ्यसनाथोऽपि, किं पुनरन्यथाभूतनेपथ्य इत्यपिशब्दार्थः, न गृही गृहस्थाचाररहितत्वात् , न यतिः भावचारित्रविरहितत्वादिति ॥ ४९ ॥ इति श्रीमुनिचन्द्रसू. रिविरचितायां धर्मविन्दुवृत्तौ यतिविधिर्नाम चतुर्थोऽध्यायः समाप्तः।
इति धर्मबिन्ऽवृत्तौ समाप्तश्चतुर्थोऽध्यायः
॥२४॥
Page #128
--------------------------------------------------------------------------
________________
साधुक्रि
धर्मबिन्दु सापेक्षयति धमः
या
पञ्चमः अध्यायः व्याख्यातचतुर्थोऽध्यायः, अब पञ्चमो व्याख्यायते, तस्य चेदमादिसूत्रम्बाहुभ्यां दुस्तरो यद्वत्, क्रूरनको महोदधिः । यतित्वं दुष्करं तददित्याहुस्तत्त्ववेदिनः ॥ २५ ॥
'बाहुभ्यां' भुजाभ्यां 'दुस्तरः' कृच्छ्रेण तरीतुं शक्यः 'यदि ति दृष्टान्तार्थः 'क्रूरनकः क्रूरा-भीषणा नक्रा-जलजन्तुविशेषा उपलक्षणत्वात् मत्स्यमकरसुसुमारादयश्च यत्र स तथा 'महोदधि महासमुद्रः 'यतित्वं'श्रामण्यं 'दुष्करं' दुरनुष्ठेय तद्वदिति दार्शन्तिकार्थः, इत्येतदाहुः 'तत्त्ववेदिनः' प्रव्रज्यापरमार्थज्ञातार इति ॥१॥ अस्यैव दुष्करत्वे हेतुमाह
____अपवर्गः फलं यस्य, जन्ममृत्यादिवर्जितः । परमानन्दरूपश्च, दुष्करं तन्न चाद्भुतम् ॥ २६ ॥ _ 'अपवर्गों' मोक्षा' फलं' कार्य ' यस्य' यतित्वस्य 'जन्ममृत्यादिवर्जितः' जन्ममरणजरादिसंसारविकारविरहितः, तया'परमानन्दरूपः' सर्वोपमातीतानन्दस्वभावः, चकारो विशेषणसमुच्चये, 'दुष्कर' कृच्छ्रेण कत्तुं शक्यं 'तत्' यतित्वं, 'नच' नैवाद्भुतम्-आश्चर्यमेतत् , अत्यन्तमहोदयानां विद्यामन्त्रौषधादिसाधनानामिहैव दुष्करत्वोपलम्भात् इति ॥२॥ एवं तर्हि कथमतिदुष्करं यतित्वं कर्तुं शक्यं स्यादित्याशङ्कयाह
भवस्वरूपविज्ञानात्तद्विरागाच्च तत्वतः । अपवर्गानुरागाच्च, स्यादेतन्नान्यथा कचित् ॥ २७॥ भवस्वरूपस्य-इन्द्रजालमृगतृष्णिकागन्धर्वनगरस्वप्नादिकल्पस्य विज्ञानाद-सम्यक्श्रुतलोचनेन अवलोकनात् प्राक्,
Film६२॥
Page #129
--------------------------------------------------------------------------
________________
ROOPER
| तदनु 'तद्विरागात् ' तप्तलोहपदन्यासोद्विजनन्यायेन भवस्वरूपोद्वेगात् , चकारी हेत्वन्तरसमुच्चये, 'तत्त्वतः' निर्व्याज- | वृत्या, तथा 'अपवर्गानुरागात्' परमपदस्पृहातिरेकात , चशब्दः प्राग्वत् , स्याद्-भवेदेतद्-यतित्व, 'नान्यथा' नान्यप्रकारेण 'कचित् । क्षेत्रे काले वा, सम्यगुपायमन्तरेणोपेयस्य कदाचिदभावादिति ॥३॥ इत्युक्तो यतिः,अधुनाऽस्य धर्ममनुवर्णयिष्यामः,यतिधर्मो द्विविधा-सापेक्षयतिधर्मों निरपेक्षयतिधर्मश्चेति ॥२७०)
प्रतीतार्थमेव, परं गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां प्रतिपालयति स सापेक्षः, इतरस्तु निरपेक्षो यतिः, तयोर्धर्मोऽनुक्रमेण गच्छवासलक्षणो जिनकल्पादिलक्षणश्रेति ॥१॥
तत्र सापेक्षयतिधर्म इति ॥२॥ (२७१) 'तत्र' तयोः सापेक्षनिरपेक्षयतिधर्मयोर्मध्यात् सापेक्षयतिधर्मोऽयं भण्यते ॥२॥
यथा-गुर्वन्तेवासितेति ॥३॥ (२७२) गुरोः-प्रव्राजकाचार्यस्य ' अन्तेवासिता' शिष्यभावः यावज्जीवमनुष्ठेया, तच्छिष्यभावस्य महाफलत्वात् , पठ्यते च-"नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥ १५४॥” (वि. आव० ३४५९) [ज्ञानस्य भवति भाजनं स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥१॥]
तथा-तद्भक्तिबहुमानाविति ॥४॥ (२७३) तस्मिन्-गुरौ भक्तिः-समुचितानपानादिनिवेदनपादप्रक्षालनादिरूपा बहुमानश्च-भावप्रतिबन्धः॥५॥
Page #130
--------------------------------------------------------------------------
________________
धर्मबिन्दु सापेक्षयति धर्मः
अ. ५
॥६३॥
大華社众善 - 善 众杀 佘 众人
तथा सदाऽऽज्ञाकरणमिति ॥ ५ ॥ (२७४)
'सदा' सर्वकालं अहि रात्रौ चेत्यर्थः आज्ञायाः - गुरूपदिष्टार्थस्वरूपायाः करणम् ॥ ६ ॥
तथा - विधिना प्रवृत्तिरिति ॥ ६ ॥ (२७५)
' विधिना शास्त्रोक्तेन 'प्रवृत्तिः प्रत्युपेक्षणाप्रमार्जना भिक्षाचर्यादिषु साधुसमाचारेषु व्यापारणम् ॥ ६ ॥
?
तथा - आत्मानुग्रह चिन्तनमिति ॥ ७ ॥ (२७६)
कचिदर्थे गुर्वाज्ञायां आत्मानुग्रहस्य - उपकारस्य चिन्तनं - विमर्शनं, यथा-" धन्यस्योपरि निपतत्यहितसमाचरणधर्मंनिर्वाणो । गुरुवदनमलयनिस्सृतो वचनरसश्चन्दनस्पर्शः ॥ १५५ ॥ " (प्रशम . )
तथा - व्रतपरिणामरक्षेति ॥ ८ ॥ (२७७)
व्रत परिणामस्य - चारित्रलक्षणस्य तत्तदुपसर्गपरीषहादिषु स्वभावत एव व्रतवाधाविधायिषु सत्सु रक्षा - चिन्तामणिमहौषध्यादिरक्षणोदाहरणेन परिपालना विधेया ॥ ८ ॥
तथा - आरम्भत्याग इति ॥ ९ ॥ (२७८) आरम्भस्य-षट्कायोपमर्दरूपस्य त्यागः ॥ ९ ॥ एतदुपायमेवाहपृथिव्याद्यसंघट्टनमिति ॥ १० ॥ (२७९)
पृथिव्यादीनां - जीवनिकायानां ' असंघट्टनं ' संघट्टनं - स्पर्शनं तत्प्रतिषेधादसंघट्टनं, उपलक्षणत्वाद्गाढगाढपरिताप
众福本中营年 4G 贵安群众出
साधुनि
या
॥६३॥
Page #131
--------------------------------------------------------------------------
________________
नाऽपद्रावणानां च परिहार इति ॥१०॥
तथा-विधेर्याशुद्धिः॥११॥ (२८०) त्रिधा-ऊर्ध्वाधस्तिर्यन्दिगपेक्षया ईर्यायाः-चक्रमणस्य शुद्धिः-युगमात्रादिदृष्टिनिवेशरूपा ॥ ११॥
तथा-भिक्षाभोजनमिति ॥ १२॥ (२८१) । इह त्रिधा भिक्षा-सर्वसंपत्करी पौरुषघ्नी वृत्तिभिक्षा चेति, तल्लक्षणं चेदम्-" यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, सर्वसंपत्करी मता ॥१५६ ॥ वृद्धाद्यर्थमसङ्गस्य, भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय, विहितेति शुभाशयात् ॥ १५७ ॥ प्रव्रज्यां प्रतिपन्नो यस्तविरोधेन वर्त्तते । असदारम्भिणस्तस्य, पौरुषत्री प्रकीर्तिता ॥ १५८॥ निःस्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति तृत्त्यर्थ, वृत्तिभिक्षेयमुच्यते ॥१५९॥ इति (इ. अष्टके) ततो भिक्षया-प्रस्तावात्सर्वसंपत्करीलक्षणया पिण्डमुत्पाद्य भोजनं विधेयमिति ॥ १२ ॥
तथा-आघाताद्यदृष्टिरिति ॥ १३ ॥ (२८२) आघात्यन्ते-हिंस्यन्ते जीवा अस्मिन्निति आघातः-शूनादिस्थानं, आदिशब्दात् द्यूतखलाद्यशेषप्रमादस्थानग्रहः, ततः आघातादेरदृष्टिः-अनवलोकन कार्य, तदवलोकने हि अनादिभवाभ्यस्ततया प्रमादानां तत्कौतुकात् कोपादिदोषप्रसङ्गात् इति ॥
तथा-तत्कथाऽश्रवणमिति ॥१४॥ (२८३) तेषां-आघातादीनां कथायाः परैरपि कथ्यमानायाः अश्रवणम्-अनाकर्णनं, तच्छवणेऽपि दोषः प्राग्वत् ॥१४॥
Page #132
--------------------------------------------------------------------------
________________
धर्मबिन्दु
साधुक्रि
या
।
सापेक्षयति धर्मः अ.५ ॥६॥
तथा-अरक्तद्विष्ठतेति ॥ १५॥ (२८४) सर्वत्र प्रियकारिण्यरक्तेन-अरागवता तदितरस्मिंश्चाविष्टेन-अद्वेषवता भाव्यम्, यतः पठ्यते" रागद्वेषौ यदि स्यातां, तपसा कि प्रयोजनम् ? । स्यातां चेद् रागद्वेषौ न, तपसा कि प्रयोजनम् ? ॥१६०॥ १५॥
तथा-ग्लानादिप्रतिपत्तिरिति ॥ १६ ॥ (२८५) ग्लानो-ज्वरादिरोगातुरःआदिशब्दाहालवृद्धबहुश्रुतमाघूर्णकादिग्रहः, तेषां प्रतिपत्तिः-समुचितानपानादिसंपादनरूपं वैयावृत्त्य, महाफलत्वात्तस्य, पठ्यते च-" पोडेभग्गरस मयस्स व नासइ चरणं सुअं अगुणणाए । नो वेयावञ्चकयं महोदयं नासई कम्मं ॥ १६१॥” तथा-"जह भमरमहुअरिगणा निवयंति कुसुमियम्मि वणसंडे । इय होइ निवइयत्वं गेलण्णे कइयवजढेणं ॥१६२॥"[प्रतिभनस्य मृतस्य वा नश्यति चरणं श्रुतमगणनया । न वैयावृत्यकृतं शुभोदयं नश्यति कर्म ॥१॥ यथा भ्रमरमधुकरीगणा निपतन्ति कुसुमिते वनखण्डे । इति भवति निपतितव्यं ग्लानौ त्यक्तकैतवेन ॥२॥१६॥
तथा-परोद्वेगाहेतुतेति ॥ १७॥ (२८६) परेषाम्-आत्मव्यतिरिक्तिानां स्वपक्षगतानां परपक्षगतानां च गृहस्थपापण्डिरूपाणामुढेगस्य-प्रतीतरूपस्याहेतुताअहेतुभावः, यथोक्तम्-"धम्मत्थमुज्जएणं सबस्सापत्तियं न कायवं । इय संजमोऽवि सेओ एत्य य भयवं उदाहरणं ॥१६॥ सो तावसासमाओ तेसिं अप्पत्तियं मुणेऊणं । परमं अबोहिबीअं तओ गओ हतऽकालेऽपि ॥ १६४ ॥ इय अन्नेणऽवि (सक्वेणवि) सम्म सक अप्पत्तिय सइ जणस्स । नियमा परिहरियवं इयरम्मि सतत्तचिंता उ॥१६५ ॥"त्ति (पश्च १९१४
॥४॥
Page #133
--------------------------------------------------------------------------
________________
५-६ पञ्चा० ३०८-९-१०) [धर्मार्थमुद्यतेन सर्वस्याप्रीतिकं न कर्तव्यम् । संयमोऽप्येवमेव श्रेयः अत्र च भगवानुदाहरणम् ॥२॥ स तापसाश्रमात् तेषामप्रीतिकं ज्ञात्वा। परममबोधिबीजं ततो गतो हन्ताकालेऽपि ॥२॥ इति सर्वेणापि सम्यक् शक्यमप्रीतिक सदा जनस्य । नियमात् परिहर्तव्यं इतरस्मिन् स्वतत्त्वचिन्तैव ॥३॥] इतरस्मिन्-अशक्यप्रतीकारेऽप्रीतिके स्वतत्त्वस्य-स्वापराधरूपस्य चिन्ता कार्या, यथा-" ममैवायं दोषो यदपरभवे नार्जितमहो, शुभं यस्माल्लोको भवति मयि कुमीतिहृदयः। अपापस्यैवं मे कथमपरथा मत्सरमयं, जनो याति स्वार्थ प्रति विमुखतामेत्य सहसा ? ॥१६६॥ १७॥ एतदेवाह
भावतः प्रयत्न इति ॥ १८॥ (२८७) 'भावतः' चित्तपरिणामलक्षणात् 'प्रयत्नः' परोद्वेगाहेतुतायामुद्यमः कार्य इति, अयमत्र भावः-यदि कथञ्चित्तथाविधप्रघट्टकवैषम्यात्कायतो वचनतो वा न परोद्वेगहेतुभावः परिहर्नु पार्यते तदा भावतो-रुचिलक्षणात् परोद्वेगं परिहत्तुं यत्नः कार्यः, भावस्यैव फलं प्रति अवन्ध्यहेतुत्वात् , उक्तं च-"अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह, वारीव कृषिकर्मणि ॥१६७॥"१८॥
तथा-अशक्ये बहिश्चार इति ॥ १९॥ (२८८) अशक्ये-कुतोऽपि वैगुप्यात्समाचरितुमपार्यमाणे तपोविशेषादौ क्वचिदनुष्ठाने 'बहिश्चोरो' बहिर्भावलक्षणः तस्माकार्यः, अशक्यं नारब्धव्यमित्यर्थः, अशक्यारम्भस्य क्लेशैकफलत्वेन साध्यसिद्धेरनङ्गत्वात् ॥ १९ ॥
तथा-अस्थानाभाषणमिति ॥ २०॥ (२८९)
Page #134
--------------------------------------------------------------------------
________________
धर्मबिन्दु सापेक्षयति धर्मः
अ. ५
॥६५॥
**0-100
अस्थाने-भाषितोपयोगायोग्यत्वेनाप्रस्तावे अभाषणं- कस्यचित्कार्यस्याभणनं, एवमेव साधोर्भाषासमितत्वशुद्धिः स्यादिति । तथा - स्खलितप्रतिपत्तिरिति ॥ २१ ॥ ( २९० )
कुतोऽपि तथाविधप्रमाददोषात् स्खलितस्य किञ्चिन्मूलगुणादावाचारविशेषे स्खलनस्य - विराधनालक्षणस्य जातस्य प्रतिपत्तिः - स्वतः परेण वा प्रेरितस्य सतोऽभ्युपगमः - तथोदितप्रायश्चित्ताङ्गीकारेण कार्यः, स्खलितकाले दोषाद् अनन्तगुणत्वेन दारुणपरिणामत्वात्तदप्रतिपत्तेः, अत एवोक्तम्- "उप्पण्णा उप्पण्णा माया अणुमग्गओ निहंतवा । आलो अण निंदणगरहणाहि न पुणो विधीयंति ( यबीयंति ) ॥ १६८ ॥ अणागारं परं कम्मं, नेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिईदिए ॥ १६९ ॥ ” [ उत्पन्नोत्पन्ना मायाऽनुमार्गतो निहन्तव्या । आलोचननिन्दनगर्हणाभिः न पुनश्च द्वितीयं ( वारं ) ॥ १ ॥ अनाकारं ( मायामयं ) परं कर्म नैव गृहेत न निन्दुवीत । शुचिः सदा विकटभावः असंसक्तो जितेन्द्रियः ॥२॥ ] २१ ॥ तथा - पारुष्यपरित्याग इति ॥ २२ ॥ ( २९१ )
पारुष्यस्य - तीव्रकोपकषायोदय विशेषात्परुषभावलक्षणस्य तथाविधभाषणादेः स्वपक्षपरपक्षाभ्यामसंबन्धयोग्यताहेतोः परित्यागः कार्यः, अपारुष्यरूप विश्वासमूलत्वात्सर्वसिद्धीनाम्, यदुच्यते- “ सिद्धेर्विश्वासिता मूलं यद्यूयपतयो गजाः । सिंहो मृगाधिपत्येऽपि न मृगैरनुम्यते ॥ १७० ॥ " ॥ २२ ॥
तथा - सर्वत्रापिशुनतेति ॥ २३ ॥ (२९२ )
'सर्वत्र' स्वपक्षे परपक्षे च परोक्षं दोषाणामनाविष्करणं, परदोषग्राहितायां हि आत्मैव दोषवान् कृतः स्यात्, '
पठ्यते
साधुक्रि
या
॥६५॥
Page #135
--------------------------------------------------------------------------
________________
| च-" लोओ परस्स दोसे हत्थाहत्यिं गुणे य गिण्हंतो। अप्पाणमप्पणच्चिय कुणइ सदोसं च सगुणं च ॥१७॥" [लोका | परस्य दोषान् हस्ताहस्ति गुणांश्च गृह्णन् । आत्मानमात्मनैव करोति सदोषं च सगुणं च ॥१॥] २३॥
तथा-विकथावर्जनमिति ॥२४॥ (२९३) विकथानां-स्त्रीभक्तदेशराजगोचराणां स्वभावत एवाकुशलाशयसमुन्मीलननिबन्धनानां वर्जनं, एतत्कयाकरणे कृष्णनीलाधुपाधिरिव स्फटिकमणिरात्मा कथ्यमानस्त्रयादिचेष्टानामनुरूपतां प्रतिपद्यते ॥ २४ ॥
तथा-उपयोगप्रधानतेति ॥२५॥ (२९४) उपयोगः प्रधानः-पुरस्सरः सर्वकार्येषु यस्य स तथा तस्य भावस्तत्ता सा विधेया, निरुपयोगानुष्ठानस्य द्रव्यानुष्ठानत्वात् , 'अनुपयोगो द्रव्य" मिति वचनात् ॥२५॥
तथा-निश्चितहितोक्तिरिति ॥२६॥ (२९५) निश्चितस्य-संशयविपर्ययानध्यवसायबाघदोषपरिहारेण निर्णीतस्य हितस्य च-परिणामसुन्दरस्योक्तिः-भाषणम्, अत एव पठ्यते-" कुदृष्टं कुश्रुतं चैव, कुज्ञातं कुपरीक्षितम् । कुभावजनक सन्तो, भाषन्ते न कदाचन ॥ १७२॥"२६ ॥
तथा-प्रतिपन्नानुपेक्षेति ॥ २७॥ (२९६) प्रतिपन्नस्य-अभ्युपगतस्य गुरुविनयस्वाध्यायादेः साधुसमाचारविशेषस्यानुपेक्षा-अनवधारणा, अवधीरितो हि समाचारो जन्मातरेऽपि दुर्लभः स्यात् ॥ २७॥
Page #136
--------------------------------------------------------------------------
________________
धर्मबिन्दु सापेक्षयति धर्मः
अ. ५
॥६६॥
तथा-असत्प्रलापाश्रुतिरिति ॥ २८ ॥ ( २९७ )
असतां - खलप्रकृतीनां प्रलापा - अनर्थकवचनरूपा असत्प्रलापाः तेषामश्रुतिः - अनवधारणं, श्रुतिकार्यद्वेषाकरणेन अनुग्रहचिन्तनेन च यथोक्तम् - " निराकरिष्णुर्यदि नोपलभ्यते, भविष्यति क्षान्तिरनाश्रया कथम् ? | यदाश्रयात्क्षान्तिफलं मयाऽऽप्यते स सत्कृतिं कर्म च नाम नाईति ॥ १७३ ॥ " २८ ॥
तथा - अभिनिवेशत्याग इति ॥ २९ ॥ ( २९८ )
अभिनिवेशस्य - मिथ्याग्रहरूपतयाऽप्रज्ञापनीयता मूल बीजस्य सर्वकार्येषु त्याग इति ॥ २९ ॥ तथा - अनुचिताग्रहणमिति ॥ ३० ॥ (२९९ )
अनुचितस्य - साधुजनाचारबाधाविधायितयाऽयोग्यस्य अशुद्धपिण्डशय्यावस्त्रादेर्धर्मोपकरणस्य बालवृद्धनपुंसकादेवाप्रव्राजनीयस्य अग्रहणम् - अनुपादानं कार्यमिति, यथोक्तम्- "पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव च । अकप्पियं न इच्छिजा, पडिगाहिज्ज कपि ॥ ९७४ ॥ अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पञ्चावणाअणरिहा पन्नत्ता बीयरागेहि ॥ १७५ ॥ ते चामी-बाले १ बुड़े २ नपुंसे ३ य, कीवे ४ जड्डे ५ य वाइए ६ । तेणे ७ रायावगारी ८ य, उम्मत्ते ९ य अदंसणे १० ॥ ७९० ॥ १७५ ॥ दासे ११ दुट्टे १२ य मूढे १३ य, अणत्ते १४ जुंगिए १५ इय । ओबद्धए १६ य भयगे १७, सेहनिप्फेडिए इय १८ ॥ ७९१ ॥ १७६ ॥ गुहिणी बालवच्छा य पद्यावेउं न कप्पए इति [ प्रवचन० अपि ] ॥ तथा - पंडए १ वाइए २ की ३, कुंभी ४ ईसालुयत्तिय ५ । सउणी ६ तक्कम्मसेवी य ७, पक्खियापक्खिए इय ॥ ८ ॥ ७९३ ॥ (१७७)
साधुक्रि
या
| ॥६६॥
Page #137
--------------------------------------------------------------------------
________________
सोगंधिए ९ य आसत्ते १०, एए दस नपुंसग । । संकिलिट्ठत्ति साहूणं, पवावेउं अकप्पिया ॥ ७९४ ।। (१७८ ) ( प्रव. अपि ) । एतत्स्वरूपं च निशीथाध्ययनात् ज्ञातव्यम् ॥ ३०॥
तथा - उचिते अनुज्ञापनेति ॥ ३१ ॥ (३००)
उचित - अनुचितविलक्षणे पिण्डादौ अनुज्ञापना - अनुजानतोऽनुमन्यमानस्य स्वयमेव गुरोर्द्रव्यस्वामिनो वा प्रयोजनं, यथा - अनुजानीत यूयं मम ग्रहीतुमेतदिति, अन्यथा अदत्तादानप्रसङ्गात् ॥ ३१ ॥ तथा - निमित्तोपगोग इति ॥ ३२ ॥ (३०१)
निमित्ते - उचिता हारादेर्ग्रहीतुमभिलषितस्य शुद्ध शुद्धिसूचके शकुने साधुजनप्रसिद्धे, प्रवृत्ते सतीति गम्यते, उपयोगः- आभोगः कार्यः, अत्र च निमित्ताशुद्धौ चैत्यवन्दनादिकुशल क्रियापूर्वक निमित्तान्तरमन्वेषणीयं, एवं यदि श्रीन् वारान निमित्तशुद्धिर्न स्यात्तदा तद्दिने न तेन किञ्चिद् ग्राह्यं, यदि परमन्यानीतं भोक्तव्यमिति ॥ ३२ ॥ निमित्तशुद्धावपि — अयोग्येऽग्रहणमिति ॥ ३३ ॥ (३०२)
अयोग्ये - उपकाराकारकत्वेनानुचिते पिण्डादावग्रहणम् - अनुपादानं कार्यमिति ॥३३॥ तथा -- अन्ययोग्यस्य ग्रह इति ॥ ३४ ॥ (३०३)
अन्यस्य - आत्मव्यतिरिक्तस्य गुरुग्लानबालादेः ' यद् योग्यम् - उपष्टम्भकत्वेनोचितं तस्य ग्रहो विधेय इति ॥ ॥३४॥ एवं च गृहीतस्य किं कार्यमित्याह
**-459) ***#46) ***# 4৫* *#46
Page #138
--------------------------------------------------------------------------
________________
धर्म बिन्दु
श्राद्धवमध्या
गः ४
॥६७॥ ।
50000 4500 4500 409) ***#46914000-4601
गुरोर्निवेदनमिति ॥ ३५ ॥ (३०४)
हस्तशताद् बहिर्गृहीतस्येर्याप्रतिक्रमणगमनागमनालोचनापूर्वक हस्तशतमध्ये तु एवमेव निवेदनं गुरोः दायक हस्तमाव्यापारप्रकाशनेन लब्धस्य ज्ञापनं समर्पणं च कार्यमिति ॥ ३५ ॥ अत एव
स्वयमदानमिति ॥ ३६ ॥ (३०५ ) |
स्वयम्-आत्मनाऽदानं–लब्धस्यान्यस्मै अवितरणं, गुर्वायत्तीकृतत्वात्तस्य ॥ ३६ ॥ ततो यदि गुरुः स्वयमेव कस्मैचित् बालादिकाय किञ्चिद्दद्यात् तत् सुन्दरमेव, अथ कुतोऽपि व्यग्रतया न स्वयं ददाति किंतु तेनैव दापयति तदातदाज्ञया प्रवृत्तिरिति ॥ ३७ ॥ (३०६ )
तस्य - गुरोराज्ञया निरोधेन प्रवृत्तिर्दाने कार्या ॥ ३७ ॥ तत्र च
उचितच्छन्दनमिति ॥ ३८ ॥ (३०७ )
उचितस्य - समानसंभोग्य वालादेः साधोः न पुनरन्यस्य तं प्रति दानानधिकारित्वात् तस्य, छन्दनं - छन्दस्य - अभिलाषस्य अन्नादिग्रहणं प्रत्युत्पादनं कार्यं ॥ ३८ ॥ ततो दत्तावशिष्टस्यान्नादेः
धर्मायोपभोग इति ॥ ३९ ॥ (३०८ )
धर्माय - धर्माधारशरीरसंधारणद्वारेण धर्मार्थमेव च न पुनः शरीरवर्णबलाद्यर्थमपि, उपभोगः- उपजीवनम्, तथा चार्षम" वेयण १ वेथावच्चे २ इरियट्टाए ३ य संयमट्ठाए ४ । तह पाणवत्तियाए ५ छटं पुण धम्मचिंताए ६ ॥ १७९ ॥ " (पंच.
लड़का *क)*) **) **०* 45
॥६७॥
Page #139
--------------------------------------------------------------------------
________________
प्रव. ७३७ अपि) [वेदनोपशमाय वैयावृत्याय ईर्याय च संयमार्थं च । तथा प्राणप्रत्ययं षष्ठं पुनः धर्मचिन्तायै॥१॥]
तथा-विविक्तवसतिसेवेति ॥ ४०॥ (३०९) विविक्तायाः-स्त्रीपशुपण्डकविवर्जितायाः वसतेः-आश्रयस्य सेवा-परिभोगो विधेयः, अविविक्तायां हि वसतौ वतिनां ब्रह्मचर्यव्रतविलोपप्रसङ्ग इति॥४०॥ अत एव ब्रह्मचर्यव्रतपरिपालनाय एतच्छेषगुप्तीरभिधातुं 'स्त्रोकथापरिहार इत्यादि विभूषापरिवर्जन' मिति पर्यन्तं सूत्राष्टकमाह
तत्र-स्त्रीकथापरिहार इति ॥४१॥ (३१०) स्त्रीणां कथा स्त्रीकथा, सा च चतुर्विधा-जाति १ कुल २ रूप ३ नेपथ्य ४ भेदात, तत्र जाति:-ब्राह्मणादिका, तत्कथा यथा-"धिक ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या शूद्री जनैर्मान्या, पतिलक्षेऽप्यनिन्दिता ॥ १८०॥" कुल-चौलुक्यचाहुमानादि, तत्कथा-" अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । विशन्त्यग्नौ मृते पत्यौ, या प्रेमरहिता अपि ॥ १८१॥" रूपं-शरीराकारः, तत्कथा-" अहो अन्ध्रपुरन्ध्रोणां, रूपं जगति वर्ण्यते । यत्र यूनां दृशो लग्ना, न मन्यन्ते परिश्रमम् ॥ १८२॥" नेपथ्य-वस्त्रादिवेषग्रहः, तत्कथा-" धिग्नारीरौदीच्या बहुवस्त्राच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ १८३॥" तस्याः स्त्रीकथायाः परिहार इति ॥४१॥
निषद्यानुपवेशनमिति ॥४२॥ (३११) निषद्यायां-स्त्रीनिवेशस्थाने पट्टपीठादौ मुहुर्त यावत् स्त्रीवृत्यितास्वपि अनुपवेशनं कार्य, सद्य एव स्त्रीनिषद्योपवेशने
Page #140
--------------------------------------------------------------------------
________________
धर्मविन्दु
सापेक्षयति धमः
अ
॥६॥
कुमतौ स्वाध्याय बाडितास्मृति
साधोस्तच्छरोरसंयोगसंक्रान्तोष्मस्पर्शवशेन मनोविश्रोतसिकादोषसंभवात् ॥ ४२ ॥
इन्द्रियाप्रयोग इति ॥ ४३॥ (३१२) इन्द्रियाणां-चक्षुरादीनां कथश्चिद्विषयभावापन्नेष्वपि गुह्योरुवदनकक्षास्तनादिषु स्त्रीशरीरावयवेषु अप्रयोगः-अव्यापारणं कार्य, पुनस्तन्निरीक्षणाद्यर्थ न यत्नः कार्यः॥४३॥
कुख्यान्तरदाम्पत्यवर्जनमिति ॥४४॥ (३१३) कुडयं-भित्तिस्तदन्तरं-व्यवधानं यस्य तत्तथा दाम्पत्यं-दयितापतिलक्षणं युगलं, कुडधान्तरं च दांपत्यं चेति समासः, तस्य वर्जनं, वसतौ स्वाध्यायध्यानादौ च न तत्र स्थातव्यं यत्र कुडयान्तरं दाम्पत्यं भवतीति ॥४४॥
पूर्वक्रीडितास्मृतिरिति ॥४५॥ (३१४) पूर्व-प्रव्रज्यापतिपत्तिकालात् प्राक्क्रीडितानां-प्रौढप्रमोदप्रदममदाप्रसङ्गप्रभृतिविलासतानामस्मृतिः-अस्मरणं, अयं च भुक्तभोगान् प्रत्युपदेश इति ॥ ४५ ॥
प्रणीताभोजनमिति ॥ ४६॥ (३१५) प्रणीतस्य-अतिस्निग्धस्य गलतरनेह बिन्दुलक्षणस्याहारस्याभोजनम्-अनुपजीवनमिति ॥ ४६॥
___ अतिमात्राभोग इति ॥ ४७ (३१६) अप्रणीतस्याप्याहारस्यातिमात्रस्य-द्वात्रिशकवलादिशास्त्रसिद्धप्रमाणातिक्रान्तस्याभोगः-अभोजनम् ॥ ४७॥
॥६८॥
Page #141
--------------------------------------------------------------------------
________________
..
विभूषापरिवर्जनमिति ॥ ४८ (३१७) विभूषायाः-शरीरोपकरणयोः शृङ्गारलक्षणायाः परिवर्जनमिति, एतेषां च स्त्रीकयादीनां नवानामपि भावानां मोहोद्रेकहेतुत्वात् निषेधः कृत इति ॥४८॥
तथा-तत्वाभिनिवेश इति ॥४९॥ (३१८) तत्त्वे-सम्यग्दर्शनज्ञानचारित्रानुसारिणि क्रियाकलापे अभिनिवेश:-शक्यकोटिमागते कर्तुमत्यन्तादरपरता, अन्यया | तु मनःप्रतिबन्ध एवं कार्यः ॥ ४९ ॥
तथा युक्तोपधिधारणेति ॥५०॥ (३१९) युक्तस्य-शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्य उपधेः-वस्त्रपात्रादिलक्षणस्य धारणा-उपभोगः, उपलक्षणत्वात्परिभोगश्च गृह्यते, यथोक्तम्-" धारणया उवभोगो परिहरणा होइ परिभोगो"(१८३) [धारणोपभोगः परिहरणा भवति परिभोगः]
तथा-मू त्याग इति ॥५१॥ (३२०) मूर्छाया-अभिष्वङ्गस्य सर्वत्र बाह्येऽर्थेऽभ्यन्तरे च शरीरबलादौ वर्जनम् ॥५१॥
__ तथा-अप्रतिबडविहरणमिति ॥५२॥ (३२१) अप्रतिबद्धेन-देशग्रामकुलादावमूञ्छितेन विहरण-विहारः कार्यः ॥५२॥
Page #142
--------------------------------------------------------------------------
________________
धर्मबन्दु सापेक्षयति धर्मः
अ. ५
॥६९॥
佘祥合语态 泰语 泰语 泰语 六年 六合拳 太
तथा - परकृतबिलवास इति ॥ ५३ ॥ (३२२ )
परैः - आत्मव्यतिरिक्तैः कृते - स्वार्थमेव निष्पादिते बिल इव बिले असंस्करणीयतया उपाश्रये वासः ॥ ५३ ॥ तथा - अवग्रहशुद्धिरिति ॥ ५४ ॥ (३२३ )
अवग्रहाणां - देवेन्द्र १ राज २ गृहपति ३ शय्यावर ४ साधर्मिका ५ भाव्यभूभागलक्षणानां शुद्धि:-तदनुज्ञया परिभोगलक्षणा कार्या ॥ ५४ ॥
मासादिकल्प इति ॥ ५५ ॥ (३२४ )
मासः - प्रतीतरूप एव, आदिशब्दाच्चतुर्मासी गृह्यते, ततो मासकल्पचतुर्मासीकल्पश्च कार्यः ॥ ५५ ॥ यदा तु दुर्भिक्षक्षितिपतिविग्रहजङ्घा बलक्षयादिभिर्निमित्तैः क्षेत्रविभागेन मासादिकल्पः न पार्यते तदा किं कर्त्तव्यमित्याहएकत्रैव तत्क्रियेति ॥ ५६ ॥ (३२५ )
एकस्मिन्नेव-मासकल्पादि योग्यक्षेत्रे वसत्यन्तरविभागेन वीथ्यन्तरविभागेन च सर्वथा निरवकाशतायां संस्तारकभूमिपरिवर्तन 'तत्क्रिया' मासादिकल्पक्रियेति, अत एव पठ्यते--" संथारपरावत्तं अभिग्गदं चैव चित्तरूवं तु । एत्तो चरित्तिणो इह विहारपडिमाइसु करेंति ।।१८४ ॥ [ संस्तारकपरावर्त्तमभिग्रहं चैव चित्ररूपं तु । अतश्चारित्रिण इह विहारप्रतिमादिषु यतन्ते ॥ १ ॥ ] तत्र च - सर्वत्राममत्वमिति ॥ ५७ ॥ (३२६)
'सर्वत्र ' पोटफलकादौ नित्यवासोपयोगिनि अन्यस्मिंश्चापमत्वम्-अममीकार इति ॥ ५७ ॥
-400-46914) 0149)
या
॥६९॥
Page #143
--------------------------------------------------------------------------
________________
तथा-निदानपरिहार इति ॥५८॥ (३२७) नितरां दीयते-लूयते सम्यग्दर्शनप्रपञ्चबहुलमुलजालो ज्ञानादिविषयविशुद्धविनयविधिसमुद्धरस्कन्धो विहितावदातदानादिभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यर्णीकृतनिखिलव्यसनव्याकुलशिवालयशमफलोल्वणो धर्मकल्पतरुरनेन सुरद्धाद्याशंसनपरिणामपरशुनेति निदानं तस्य परिहारः, अत्यन्तदारुणपरिणामत्त्वात्तस्य, यथोक्तम्-" यः पालयित्वा चरणं विशुद्धं, करोति भोगादिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्ष, स नन्दनं भस्मयते वराकः ॥ १८५॥"॥५८ ॥ तर्हि किं कर्त्तव्यमित्याह
विहितमिति प्रवृत्तिरिति ॥ ५९॥ (३२८) विहितं-कर्त्तव्यतया भगवता निरूपितमेतदिति एवं सर्वत्र धर्मकार्ये प्रवृत्तिः ॥१९॥
तथा-विधिना स्वाध्याययोग इति ॥६०॥ (३२९) 'विधिना' कालविनयाद्याराधनरूपेण स्वाध्यायस्य-वाचनादेर्योगो-व्यापारणमिति ॥६०॥
तथा आवश्यकापरिहाणिरिति ॥ ६१॥ (३३०) आवश्यकानां-स्वकाले नियमात्कर्तव्यविशेषाणां प्रत्युपेक्षणादीनां अपरिहाणिः--अभ्रंशा, इदं च प्रधानं साधुलिङ्ग, तथा च दशवैकालिकनियुक्ति:-"संवेगो निवेओ विसय विवेगो मुसीलसंसग्गी। आराहणा तवो नाणदंसणचरित्तविणो य ॥१८६ ॥ खंती य मद्दवऽजव विमुत्तयाऽदीया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाइं ॥१८७॥"
दशवैकालिकानलकाले नियमात्कर्तव्यविशेषाणारहाणिरिति ॥ ६१ ॥ (३३Sणामिति ॥६०॥
Page #144
--------------------------------------------------------------------------
________________
धर्मबिन्दु
सापेक्षय- ति धर्मः अ.५
(दश.नि. ३५०-१) [संवेगो निवेदो विषयविवेकः सुशीलसंसर्गः। आराधना तपो ज्ञानदर्शनचारित्रविनयश्च ॥१॥ क्षान्तिश्च ||
॥ शान्तिय साधुकिमादेवमार्जवं विमुक्तता अदीनता तितिक्षा च । आवश्यकपरिशुद्धिश्च भिक्षुलिङ्गान्येतानि ॥२॥]
साया तथा-यथाशक्ति तपासेवनमिति ॥ ६२ ॥ (३३१) . यथाशक्ति तपसः-अनशनादेः सेवनम्-आचरणं, यथोक्तम्-"कायो न केवलमयं परितापनीयो, मिष्टे रसैर्बहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् ॥१८८॥"॥२॥
तथा-परानुग्रह क्रियेति ॥ ६३ ॥ (३३२) परेषां-स्वपक्षगतानां परपक्षगतानां च जन्तूनां महत्या करुणापरायणपरिणामितया अनुग्रहकरणं-ज्ञानाद्युपकारसंपादन मिति ॥ ६३ ॥
तथा-गुणदोषनिरूपणमिति ॥ ६४॥ (३३३) सर्वत्र विहारादौ कर्तव्ये गुणदोषयोनिरूपणं कार्यम् ॥ ६४ ॥
तथा-बहुगुणे प्रवृत्तिरिति ॥६५॥ (३३४) यहहुगुणं उपलक्षणत्वात्केवलगुणमयं वा कार्यमाभासते तत्र प्रवर्तितव्य, नान्यथेति ।। ६५॥
तथा-क्षान्तिार्दवमार्जवमलोभतेति ॥६६॥ (३३५) एते क्षान्त्यादयश्चत्वारोऽपि कषायचतुष्टयप्रतिपक्षभृताः साधुधर्ममूलभूमिकास्वरूपाः नित्यं कार्या इतिगा३६॥अत एव- ||७०॥
Page #145
--------------------------------------------------------------------------
________________
क्रोधाद्यनुदय इति ॥ ६७ ॥ (३३६) क्रोधादीनां चतुर्णां कषायाणामनुदयो-मूलत एवानुत्यानम् ॥ ६७॥
तथा-वैफल्यकरणमिति ॥ ६८॥ (३३७) वैफल्यस्य-विफलभावस्य कथश्चिदुदयप्राप्तानामपि क्रोधादीनां करणं, क्रोधादीनामुदये यञ्चिन्तितं कार्य तस्याकरणेन क्रोधाद्युदयो निष्फलः कार्य इति भावः, एवं च कृते पूर्वोक्ताः क्षान्त्यादय आसेविता भवन्ति ॥ ६८ ॥ क्रोधाद्यनुदयार्थिना च यत्कार्य तदाह
विपाकचिन्तेति ॥ ६९॥ (३३८) विपाकस्य-क्रोधा दिकषायफलस्य चिन्ता-विमर्शो विधेयः, यथा-"क्रोधात्पीतिविनाशं मानाद्विनयोपघातमामोति ।। शाठ्यात्मत्ययहानि सर्वगुणविनाशनं लोभात् ॥ १८९ ॥” (प्रशम) इति ॥ ६९ ॥
तथा-धर्मोत्तरो योग इति ॥ ७० ॥ (३३९) धर्मोत्तरो-धर्मफलः सर्व एव योगो-च्यापारी विधेयः, न पुनरट्टाहासकालकिलत्वादिः पापफल इति ॥७॥
तथा-आत्मानुप्रेक्षेति ॥ ७१॥ (३४०) आत्मनः-स्वस्य अनुप्रेक्षा-पर्यालोचना भावप्रत्युपेक्षारूपा, यथा-किं कय किंवा सेसं किं करणिकं तवं न करेमि। पुवावरत्तकाले जागरओ भावपडिलेहत्ति ॥१९०॥” (ओघ. २६३)[किं कृतं किं वा शेषं किं करणीयं तपोन करोमि।
Page #146
--------------------------------------------------------------------------
________________
धर्मबिन्दु सापेक्षयति धर्मः
अ. ५
॥७९॥
पूर्वापररात्रकाले जागरतो भावप्रति लेखनेति ॥ १ ॥ ] ॥ ७१ ॥ एवमात्मन्यनुप्रेक्षिते यत्कृत्यं तदाहउचितप्रतिपत्तिरिति ।। ७२ ।। ( ३४१ )
उचितस्य-गुणबृंहकस्य प्रमादनिग्राहिणश्चानुष्ठानस्य प्रतिपत्तिः - अभ्युपगम इति ॥ ७२ ॥ तथा -- प्रतिपक्षासेवनमिति ॥ ७३ ॥ ( ३४२ )
यो हि यदा येन दोषेण बाध्यमानो भवति तेन तदा तत्प्रतिपक्षभूतस्य गुणस्यासेवनं कार्ये, हिमपातपीडितेने वाग्ने रिति ॥ तथा - आज्ञाऽनुस्मृतिरिति ॥ ७४ ॥ (३४३ )
आज्ञाया-भगवद्वचनस्य पदे पदे हृदयेऽनुस्मृतिः कार्या भगवद्वचनानुस्मरणस्य भगवत्स्मरणरूपत्वेन महागुणत्वात्, यदुक्तम्-“ अस्मिन् हृदयस्थे सति हृदयस्थस्तवतो मुनीन्द्र इति । हृदय स्थिते च तस्मिन् नियमात्सर्वार्थसंसिद्धिः ॥१९१॥” ( षोडश. ) इति ॥
तथा -- समशत्रु मित्रतेति ॥ ७५ ॥ (३४४ )
शत्रौ मित्रे च समानपरिणामता, एको हि तत्र निर्भर्त्सनादिभिरन्यस्तु स्तुतिवन्दनादिभिः स्वचित्तसंतोषं घटयन्तौ मां निमित्तमात्रमवलम्ब्य प्रवृत्तौ द्वावपि न तु मत्कार्य किञ्चनेति, ततः कोऽनयोरूनोऽधिको वा ममेति भावनया ॥ ७८ ॥ तथा - परीषहजय इति ॥ ७६ ॥ (३४५ )
परीषहाणां क्षुत्पिपासादीनां द्वाविंशतेरपि जयः - अभिभवः, तत्र दर्शनपरीषहस्य मार्गाच्यवनार्थं शेषाणां च कर्म
19)--0000-409)- 400040-459) 4000449)
साधुक्रि
या
॥७१॥
Page #147
--------------------------------------------------------------------------
________________
निर्जराथै कार्य इति, यथोक्तम् “ मार्गाच्यवननिर्जराथै परिषोडव्याः परीषहाः” इति ( तत्त्वा०९-८)
तथा-उपसर्गातिसहनमिति ॥ ७७॥ (३४६) उपसृज्यन्ते-पीडापरिगतैवेद्यन्ते ये ते उपसर्गाः, ते च दिव्यमानुषतैरश्चात्मसंवेदनोयभेदाच्चतुर्दा, तेषामतिसहनम्अभिभवनं, अन्यथा व्यसनमयत्वेन संसारस्य तेषामनतिसइने मृढमतित्वप्रसङ्गात् , यथोक्तम्-" संसारवय॑पि समुद्विजते विपद्भ्यो , यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय ? १९२",
तथा-सर्वथा भयत्याग इति ॥ ७८ ॥ (३४७) 'सर्वया' सर्वैः प्रकारैरिहलोकपरलोकभयादिभिर्भयस्य-भीतेस्त्यागः-परिहारः, निरतिचारयतिसमाचारवशोपलब्धसमुत्कृष्टोपष्टम्भतया मृत्योरपि नोद्वेजितव्यं, किं पुनरन्यभयस्थानेभ्य इति, अत एवोक्तमन्यत्र-“प्रायेणाकृतकृत्यत्वान्मत्योरुद्विजते जनः । कृतकृत्याः प्रतीक्षन्ते, मृत्यु पियमिवातिथिम् ॥ १९३॥" ॥७८ ॥
तथा--तुल्याश्मकाञ्चनतेति ॥७९॥ (३४८) तुल्ये-समाने अभिष्वङ्गाविषयतया अश्मकाश्चने--उपलसुवर्णे यस्य स तथा तद्भावस्तत्ता ॥ ७९ ॥
तुल्ये-समाने अभिष्वा अभिग्रहग्रहणमिति ॥व वा अमुग दवं च गाय ग्रहीष्यामि । आम
अभिग्रहाणां-द्रव्यक्षेत्रकालभावभिन्नानां " लेवडमलेवडं वा अमुगं दत्वं च अज्ज घेच्छामि । अमुगेण व दवेण व अह दवाभिमगहो एस ॥ १९४ ॥” (पञ्च. २९८) [ लेपकदलेपकृता अमुक द्रव्यं चाद्य ग्रहीष्यामि । अमुकेन द्रव्येण वा
Page #148
--------------------------------------------------------------------------
________________
साधुक्रि
सापेक्षय
धर्मबिन्दु । एष द्रव्याभिग्रहो नाम ॥१॥] इत्यादिशास्त्रसिद्धानां ग्रहणम्-अभ्युपगमः कार्यः॥८॥
तथा-विधिवत्पालनमिति ॥ ८१॥ (३५०) ति धर्मः
विधिवद्-विधियुक्तं यथा भवति तथा पालनमभिग्रहाणामिति ॥ ८१॥
तथा-यथाऽहं ध्यानयोग इति ॥८२॥ (३५१) ॥७२॥ 'यथार्ह' यो यस्य योग्यस्तदनतिक्रमेण 'ध्यानयोगो' ध्यानयोधर्म्यशुक्ललक्षणयोर्योगः, अथवा ययाई मिति यो देशः कालो वा ध्यानस्य योग्यस्तदनुल्लङ्घनेनेति ।। ८२॥
तथा--अन्ते संलेखनेति ॥८३॥ (३५२) अन्ते-आयुःपर्यन्ते विज्ञाते सति संलेखना-शरीरकषाययोरतपोविशेषभावनाभ्यां कृशीकरणम् ॥ ८३॥ परमत्र
संहननाद्यपेक्षणमिति ॥ ८४ ॥ (३५३) संहननस्य-शरीरसामर्थ्यलक्षणस्य आदिशब्दात् चित्तवृत्तेः सहायसंपत्तेश्च अपेक्षणम्-आश्रयण कार्य, संहननाद्यपेक्ष्य संलेखना विधेयेति भावः ॥ ८४ ॥ नन्वनयोर्द्रव्यसैलेखनाभावसंलेखनयोः काऽत्यन्तमादरणीयेत्याह
भावसंलेखनायां यत्न इति ॥८५॥ (३५४) भावसंखेलनायां-कषायेन्द्रियविकारतुच्छीकरणरूपायां यत्नः-आदरः कार्यः, द्रव्यसंलेखनाया अपि भावसंलेखनार्थमुपदेशात, अयमत्र भावः-इह मुमुक्षुणा भिक्षुणा प्रत्यहं मरणकालपरिज्ञानयत्नपरेण स्थेय, मरणकालपरिज्ञानोपायाश्च
॥७२॥
Page #149
--------------------------------------------------------------------------
________________
आगमदेवतावचनसुप्रतिभातथाविधा निष्टस्वप्रदर्शनादयोऽनेके शास्त्रलोकप्रसिद्धा इति, ततो विज्ञाते मरणकाले पूर्वमेव द्वादश वर्षाणि यावदुत्सर्गतः संलेखना कार्या, तत्र च - " चत्तारि विचित्ताईं विगईनिज्जूहियाई चत्तारि । संवच्छरे य दोणि उ एगंतरियं च आयामं ॥ ८८२ ॥ ( १९५ ) नाइ विगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्नेऽवि य छम्मासे होइ afrat || ८८३ ॥ ( १२६ ) वासं कोडी सहियं आयामं काउमाणुपुवीए । गिरिकंदरं तु तुं पायवगमणं अह करेइ ॥ ८८४ ॥ ( १९७ ) ( पञ्च. १५७४-५-६ ) [ चत्वारि (वर्षाणि ) विचित्राणि तपांसि विकृतिभिर्निहितानि चत्वारि । संवत्सरौ च द्वौ तु एकान्तरितं चाचामाम्लम् ॥ १ ॥ नाविविकृष्टं च तपः षण्मासान् परिमितं चाचामाम्लम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपःकर्म ॥ २ ॥ वर्षे कोटीसहितमा चामाम्लं कृत्वानुपूर्व्या । गिरिकन्दरां तु गत्वा पादपोपगमनमथ करोति ॥३॥ ] यदा तु कुतोऽपि संहननादिवैगुण्यान्न शक्यते इयान् संलेखनाकालः साधयितुं तदा मासवर्षपरिहाण्या जघन्यतोSपि षण्मासान् यावत्संलेखना कार्या, असंलिखितशरीरकषायो हि भिक्षुरनशनमधिष्ठितः सहसा धातुक्षये समुपस्थितेन सुगतिफलं तथाविधं समाधिमाराधयितुं साधीयान् स्यादिति ॥ ८५ ॥
ततो विशुद्धं ब्रह्मचर्यमिति ॥ ८६ ॥ (३५५)
विशेषेण - अतिनिबिडब्रह्मचर्य गुप्तिविधानरूपेण शुद्धं ब्रह्मचर्य - प्रतीतमेव विधेयं, यदत्र संलेखनाधिकारे विशुद्धब्रह्मचर्यापदेशनं तद्वेदोदयस्य क्षीणशरीरतायामपि अत्यन्त दुर्द्धरत्वख्यापनार्थमिति ॥ ८६ ॥ अथ संलेखनानन्तरं आशुघातके वा विषविसूचिकादौ दोषे सति यद्विधेयं तदाह
Page #150
--------------------------------------------------------------------------
________________
A
.
पर्यविन्दु श्रादपमांध्यायः५
यतिष
॥७३॥
विधिना देहत्याग इतीति ॥८७॥ (३५६) __ 'विधिना' आलोचनव्रतोच्चारपरक्षामणानशनशुभभावनापञ्चपरमेष्ठिस्मरणलक्षणेन देहस्य त्याग:-परित्यजन, प- ण्डितमरणाराधनमित्यर्थः, इतिशब्दः परिसमाप्तौ, इत्युक्तः सापेक्षयतिधर्मः ॥८७॥ अथ द्वितीयधर्मप्रस्तावनायाह
निरपेक्षयतिधर्मस्त्विति ॥८८॥ (३५७) निरपेक्षयतोनां धर्मः पुनरयं वक्ष्यमाणः ॥८८॥ तमेवाह
वचनगुरुतेति ॥ ८९॥ (३५८) वचनमेव-आगम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तद्भावस्तत्ता ॥८९॥
तथा-अल्पोपधित्वमिति ॥९० ॥ (३५९) अल्पः स्थविरापेक्षया उपधिः-वस्त्रपात्रादिरूपो यस्य स तथा यद्भावस्तत्वं, उपधिप्रमाणं च विशेषशास्त्रादवसेयम् ॥
तथा-निष्पतिकर्मशरोरतेति ॥ ९१ ॥ (३६०) निष्षतिकर्म-तथाविधग्लानाद्यवस्थायामपि प्रतिकारविरहितं शरीरं यस्य स तया तद्भावस्तत्त्वम् ॥११॥ अत एव
___ अपवादत्याग इति ॥ १२॥ (३६१) अपवादस्य-उत्सर्गापेक्षयाऽपकृष्टवादस्य त्यागः कार्यः, नहि निरपेक्षो यतिः सापेक्षयतिरिव उत्सर्गा सिद्धावपवादमपि समालम्ब्य अल्पदोषं बहुगुणं च कार्यमारभते, किंतूत्सर्गपथप्राप्तं केवलगुणमयमेवेति ॥१२॥
|॥७॥
Page #151
--------------------------------------------------------------------------
________________
तथा ग्रामैकरात्रादिविहरणमिति ॥ ९३ ॥ (३६२)
ग्रामे - प्रतीतरूपे उपलक्षणत्वान्नगरादौ च एका चासौ रात्रिश्चेत्येक रात्रः आदिशब्दात् द्विरात्रस्य मासकल्पस्य च ग्रहः तेन विहरणं, किमुक्तं भवति ? - यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपक्षो भवति तदा ऋतुबद्धे काले ग्रामे ज्ञातः सन् स एकरात्रं अज्ञातच एकरात्रं द्विरात्रं वा वसति, यथोक्तम् - " नाएगरायवासी एगं च दुगं च अन्नाए (१९७ ) जिनकल्पिकयथालन्दकल्पिक शुद्धपरिहारिका ज्ञाता अज्ञाताश्च मासमिति ॥ ९३ ॥
तथा - नियत कालचारितेति ॥ ९४ ॥ (३६३)
नियते- तृतीयपौरुषीलक्षणे काले भिक्षार्थी संचरणं, यथोक्तम्- " भिक्खा पंथो य तझ्याए "ति ॥ ९४ ॥ तथा - प्राय ऊर्ध्वस्थानमिति ॥ ९५ ॥ (३६४)
प्रायो - बाहुल्येन ऊर्ध्वस्थानं - कायोत्सर्गः ॥ ९५ ॥
तथा - देशनायामप्रबन्ध इति ॥ ९६ ॥ (३६५)
देशनायां - धर्मकथारूपायां धर्मं श्रोतुमुपस्थितेष्वपि तथाविधप्राणिषु अप्रबन्धः - अभूरिभाव:, ' एगवयणं दुवयणं - चेति वचनप्रामाण्यात् ॥९६॥
C
सदा
तथा - सदाऽप्रमत्ततेति ॥ ९७ ॥ (३६६) " दिवा रात्रौ चाप्रमत्तता- निद्रादिप्रमादपरिहारः ॥९७॥
1041469) *** *** 100% ग्र
Page #152
--------------------------------------------------------------------------
________________
यतिधर्मफलम्
धर्मबिन्दु सापेक्षयति धर्मा|| ध्याय.
alsy11
तथा-ध्यानकतानत्वमितीति ॥९८॥ (३६७) ध्यान-धर्मध्यानादावेक एव तान:-चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्त्वम्, इतिशब्दः समाप्तौ ॥ अयोपसंजिहीर्षुराहसम्यग्यतित्वमाराध्य, महात्मानो यथोदितम् । संप्राप्नुवन्ति कल्याणमिह लोके परत्र च ॥२८॥
सम्यग् यतित्वम्-उक्तरूपमाराध्य-समासेव्य महात्मानो जना 'यथोदितं' यथा शास्त्रे निरूपित, किमित्याह-संप्राप्नुवन्ति' लभन्ते 'कल्याणं' भद्रं, केत्याह-इह लोके परत्र चेति, प्रतीतरूपमेव ॥१॥ एतदेव विवरीषुराहक्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्वानामुपकारमनुत्तमम् ॥ २९॥
क्षीरं- दुग्धं श्रोतृजनकर्णपूरेषु आश्रवति-क्षरतिभाषमाणो यस्यां लब्धौ सा क्षीराश्रवा, आदिशब्दान्मध्वाश्रवा सपिराश्रवा अमृताश्रवा चेत्यादिको यो 'लब्ध्योघो' लब्धिसंघातः तं 'आसाद्य' उपलभ्य 'परमाक्षयं परमं-सर्वसुन्दरं अक्षयं च-अनेकधा उपजीव्यमानमपि अनुपरमस्वभावं, किमित्याह-'कुर्वन्ति' विदर्धात भव्यसत्त्वानां उपकत्तु योग्यानां 'उपकारं' सम्यक्त्वज्ञानचारित्रलाभलक्षणं 'अनुपमं निर्वाणकफलत्वेन अन्योपकारातिशायिनमिति ॥२॥ मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् । जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतात् ॥ ३०॥
'मुच्यन्ते' परिहियन्ते चः समुच्चये 'आशु'शीघ्रं 'संसारात्' भवात् , कीदृशादित्याह-अत्यन्तम्-अतीव संगतं-युक्तं अः-स्वरूपं यस्य स तथा तत्प्रतिषेधादसमअसस्तस्मात् , अत एव जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतात् , ज
| ॥७
॥
Page #153
--------------------------------------------------------------------------
________________
* न्मना-प्रादुर्भावेन मृत्युना-मरणेन जरया-स्थविरभावलक्षणया व्याधिना-कुष्टादिरूपेण शोकेन-इष्टवियोगप्रभवमनो दुःखविशे
षेण आदिशब्दाच्छी तवातादिभिरुपद्रवरुपद्रुतात्-विह्वलतामानीतादिति ॥३॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविधिः नाम पञ्चमोऽध्यायः ॥५॥
-- moreeeeeeअथ षष्ठोऽध्यायः
व्याख्यातः पश्चमोऽध्याय:, अधुना षष्ठो व्याख्यायते, तस्येदमादिसूत्रम्आशयाधुचितं ज्यायोऽनुष्ठानं सूरयो विदुः। साध्यसिध्ध्यङ्गमित्यस्माद्यतिधर्मो द्विधा मतः॥३१॥
आशयस्य-चित्तवृत्तिलक्षणस्य आदिशब्दात् श्रुतसंपत्तेः शरीरसंहननस्य परोपकारणकरणशक्तेश्च उचित-योग्य ज्यायः-अतिप्रशस्यमनुष्ठानं-जिनधर्मसेवालक्षणं 'सूरयः' समयज्ञाः 'विदुः'जानन्ति, कीदृशमित्याह-साध्यसिध्ध्यङ्गं' साध्यस्य-सकलक्लेशक्षयलक्षणस्य सिध्ध्यङ्ग-निष्पत्तिकारणं इति-अरमात्कारणाद्यतिधर्मों द्विधा मतः, सापेक्षयतिधर्मतया निरपेक्षयतिधर्मतया चेति ॥१॥ साध्यसिध्ध्यङ्गत्वमेव भावयतिसमग्रा यत्र सामग्री, तदक्षेपेण सिद्धयति । दवीयसाऽपि कालेन, वैकल्ये तु न जातुचित् ॥ ३२॥
'समग्रा' परिपूर्णा यत्र कार्ये 'सामग्री' समग्रसंयोगलक्षणा भवति तत्कार्य 'अक्षेपेण' अविलम्बेन 'सि
Page #154
--------------------------------------------------------------------------
________________
धर्मविन्दु सापेक्षयति धर्मा ध्यायः
सापेक्षय तिगुणा:
७५
इयति' निष्पद्यते, अन्यथा सामग्रीसमग्रताऽयोगात् , अत्रैव व्यतिरेकमाह-'दवीयसाऽपि' अतिचिररूपतया दुरतरवर्तिनाऽपि कालेन 'वैकल्ये तु' सामग्रिकाया विकलतायां पुनर्न जातुचित्-न कदाचिदपीति ॥२॥ एवं सति यत्कर्त्तव्यं तदाहतस्माद्यो यस्य योग्यः स्यात्तत्तेनालोच्य सर्वथा । आरब्धव्यमुपायेन, सम्यगेष सतां नयः॥३३॥
तस्मात्कारणाद्यो-यतिः यस्य-सापेक्षनिरपेक्षयतिधर्मयोरन्यतरानुष्ठानस्य 'योग्यः' समुचितः 'स्याद् भवेत् 'तद्' अनुष्ठान 'तेन' योग्येन 'आलोच्य' निपुणोहापोहयोगेन परिभाव्य 'सर्वथा' सर्वैरुपाधिभिरारब्धव्यम्-आरम्भणीय उपायेन तद्गतेनैव 'सम्यग् ' यथावत् 'एष' योग्यारम्भलक्षणः 'सतां' शिष्टानां 'नयो' नीतिरिति ॥३॥
इत्युक्तो यतिधर्मः, इदानोमस्य विषयविभागमनुवर्णयिष्याम इति ॥१॥ (३६८) प्रतीतार्थमेवेति
तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगंभीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एवेति ॥२॥ (३६९) | 'तत्रे'ति विषयविभागानुवर्णनोपक्षेपे 'कल्याणाशयस्य' भावारोग्यरूपमुक्तिपुरमापकपरिणामस्य 'श्रुतरत्नमहोद्धेः' प्रवचनमाणिक्यपरमनीरनिधेः, 'उपशमादिलब्धिमत:' उक्तलक्षणोपशमादिलब्धिसमन्वितस्य 'परहितोद्यतस्य' सर्वजगज्जीवनातहिताधानधनस्य 'अत्यन्तगम्भीरचेतसः' हर्षविषादादावतिनिपुणैरप्यनुपलब्धचित्तविकारस्य
॥७
॥
Page #155
--------------------------------------------------------------------------
________________
अत एव 'प्रधानपरिणते' सर्वोत्तमात्मपरिणामस्य 'विधृतमाहस्य' समुत्तीर्णमृढभावतन्द्रामुद्रस्य 'परमसत्त्वार्थकर्तुः' निर्वाणावन्ध्यबीजसम्यक्त्वादिसत्त्वप्रयोजनविधातुः 'सामायिकवतः' माध्यस्थ्यगुणतुलारोपणवशसमतोपनीतस्वजनपरजनादिभावस्य 'विशुज्यमानाशयस्य' धवलपक्षक्षमापतिमण्डलस्येव प्रतिकलमवदातमानसस्य' यथोचितप्रवृत्ते' प्रस्तावप्रायोग्यप्रारब्धप्रयोजनस्य अत एव 'सात्मीभूतशुभयोगस्य ' अयःपिण्डस्येव वहिना शुभयोगेन सह समानोभृतात्मनो यतिविशेषस्य 'श्रेयान् ' अतिप्रशस्यः सापेक्षयतिधर्म एव, नेतर इति ॥२॥ कुत इत्याह
__ वचनप्रामाण्यादिति ॥ ३ ॥ (३७०) भगवदाज्ञापमाणभावात् ॥३॥ एतदपि कुत इत्याह
संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधादिति ॥४॥ (३७१) सुगममेव, प्रतिषेधश्च “ गच्छे च्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुआभिगमो ॥१९८॥ [गच्छे एव परिकर्मितो यावत् पूर्वाणि भवेयुः दशासंपूर्णानि । नवमस्य च तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः ॥१॥] (उपदेश पदे ८५१ प्रव. ५७६) इति वचनादवसीयते ॥४॥ एषोऽपि किमर्थमित्याह
नवमस्य च तृतीयं वस्तु होइ जहन्नो सु
परार्थस्य-परोपकारलक्षणस्य संपादन-करणं तदुपपत्तेः, स हि दशपूर्वधरस्तीर्थोपष्टम्भलक्षणं परार्थ संपादयितुं यस्मादुपपद्यत इति ॥५॥ यदि नामैवं ततोऽपि किमित्याह
लक्षणस्य सर्थसंपादनोपपत्तेरिनिनादवसीयते ॥
Page #156
--------------------------------------------------------------------------
________________
धर्मविन्दु
सापेक्षय
सापेक्षय तेश्रेष्ठता निरपेक्षयतिगु
वि धर्मा ध्याय,६/
गाः
॥७६॥
तस्यैव च गुरुत्वादिति ॥६॥ (३७३) तस्य-परार्थसंपादनस्य एव चेत्यवधारणे गुरुत्वात्-सर्वधर्मानुष्ठानेभ्य उत्तमत्वात् ॥६॥ एतदपि कयमित्याह
सर्वथा दुःखमोक्षणादिति ॥७॥ (३७४) 'सर्वथा' सर्वैः प्रकारैः स्वस्य परेषां चेत्यर्थः 'दुःखानां' शारीरमानसरूपाणां मोचनात् ॥७॥
तथा-संतानप्रवृत्तेः॥८॥ (३७५) परार्थसंपादनात् संतानस्य-शिष्यपशिष्यादिप्रवाहरूपस्य प्रवृत्तेः ॥८॥
तथा-योगत्रयस्याप्युदग्रफलभावादिति ॥९॥( ३७६ ) 'योगत्रस्यापि' मनोवाक्कायकरणव्यापाररूपस्य परार्थसंपादने क्रियमाणे, न पुनरेकस्यैवेत्यपिशब्दार्थः, 'उदग्रफलभावात उदग्रस्य-प्रकारान्तरेणानुपलभ्यमानत्वेनात्युत्तमस्य फलस्य-कर्मनिर्जरालक्षणस्य भावात , नहि यथा देशनायां सर्वात्मना च्याप्रियमाणं मनोवाक्कायत्रयं फलमामोति तथाऽन्यत्र कृत्यान्तर इति ॥९॥
तथा-निरपेक्षधर्मोचितस्थापि तत्प्रतिपत्तिकाले परपरार्थसिडौ तदन्यसंपादकाभावे प्रतिपत्तिप्रतिषेधाचेति ॥१०॥ (३७७)
निरपेक्षधर्मोचितस्यापि, किं पुनरतदनुचितस्येत्यपिशब्दार्थः, 'तत्पतिपत्तिकाले निरपेक्षधर्मांगीकरणसमये 'परपरार्थसिद्धौ परेषां परार्थस्य-सम्यग्दर्शनादेः प्रधानप्रयोजनस्य सिद्धौ साध्यायां विषये 'तदन्यसंपादकाभावे' तस्मात
॥७॥
Page #157
--------------------------------------------------------------------------
________________
PROPO4NEP-90KORAR
निरपेक्ष यतिधर्मोचितादन्यस्य साधोः परार्थसिद्धिसंपादकस्याभावे प्रतिपत्तिप्रतिषेधाद्-अङ्गीकरणनिवारणात् , चकारो हेत्वं- | तरसमुच्चये, तस्यैव च गुरुत्वमिति संटक इति ॥१०॥ इत्थं सापेक्षयतिधर्मयोग्यमुक्त्वा निरपेक्षयतिधर्मयोग्यं वक्तुमाह
नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्ती साध्यान्तराभावतः सति कायादिसामयें सद्धीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृहे प्रायोपवेशनवच्छे यान्निरपेक्षयतिधर्म इति ॥ ११॥ (३७८)
नवादिपूर्वधरस्य तु यथोदितगुणस्यापि, 'तत्र कल्याणाशयस्ये'त्यादिसूत्रनिरूपितगुणस्य, किं पुनस्तदन्यगुणस्येत्यपिशब्दार्थः, 'साधुशिष्यनिष्पत्ती' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणपदपश्चकयोग्यतया साधूनां शिष्याणां निष्पत्तौ सत्यां 'साध्यान्तराभावतः साध्यान्तरस्य-निरपेक्षधर्मापेक्षया आचारपरिपालनादिरूपस्य अभावत:-अभवनेन 'सति' विद्यमाने 'कायादिसामर्ये' वज्रर्षभनाराचसंहननशरीरतया वज्रकुडयसमानधृतितया च महति कायमनसोः समर्थभावे सति 'सद्धीर्याचारासेवनेन' सतो-विषयप्रवृत्ततया सुन्दरस्य वीर्याचारस्य-सामर्थ्यागोपनलक्षणस्य निषेवणेन 'तथा प्रमादजयाय' तथा-तेन निरपेक्षयतिधर्मप्रतिपत्तिप्रकारेण यः प्रमादस्य-निद्रादेः जयः-अभिभवस्तदर्थ सम्यक्शास्त्रोक्तनीत्या तपः सत्त्वसूत्रकत्वबललक्षणाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा 'उचितसमये' तिथिवारनक्षत्रयोगलप्रशुद्धिलक्षणे 'आ ज्ञाप्रामाण्यतः' आज्ञैवात्रार्थे प्रमाणमिति परिणामात् 'तथैव' प्रतिपित्सितनिरपेक्षयतिधर्मानुरूपतयैव 'योगद्धेः सम्यग्दर्श नज्ञानचारित्रलक्षणधर्मव्यापारवृद्धेः 'प्रायोपवेशनवत् प्रायोपवेशनम्-अनशनं तद्वत्, पर्यन्तकाल
Page #158
--------------------------------------------------------------------------
________________
धर्मबिन्दु सापेक्षयति धर्मा ध्यायः
अभिनिवे शनिन्दा
॥७७॥
करणोयानशन क्रियातुल्य इत्यर्थः, 'श्रेयान्' अतिप्रशस्यः 'निरपेक्षयतिधर्मों जिनकल्लादिग्रन्थप्रसिद्धस्वरूपो वर्त्तत इति ॥
तथा-तत्कल्पस्य च परं परार्थलब्धिविकलस्येति ॥ १२॥ (३७९) 'तत्कल्पस्य' निरपेक्षयतिधर्मप्रतिपत्तिसमर्थपुरुषविशेषतुल्यस्य अन्यस्यापि, चशब्दः समुच्चये, परं-केवलं 'परार्थलब्धिविकलस्य' तथाविधान्तरायादिकर्मपारतन्यदोषात् परार्थलब्ध्या-साधुशिष्यनिष्पादनादिसामर्थ्यलक्षणया विकलस्य, श्रेयान् निरपेक्षयतिधर्म इत्यनुवर्तते ॥१२॥ अत्र हेतुमाह
उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणमिति ॥ १३ ॥ (३८०) उचितानुष्ठानं 'हि' यस्मात् 'प्रधानम्' उत्कृष्टं कर्मक्षयकारणमिति ॥१३॥ एतदपि कुत इत्याह
उद्मविवेकभावाद्रत्नत्रयाराधनादिति ॥ १४॥ (३८१) उदग्रस्य-उत्कटस्य विवेकस्य-विधेयाविधेयवस्तुविभागविज्ञानलक्षणस्य भावात्सकाशात्, किमित्याह-रत्नत्रयस्यसम्यग्दर्शनादेः आराधनात्-निष्पादनात् , उचितानुष्ठाने हि प्रारब्धे नियमाद्रत्नत्रयाराधक उदग्रो विवेको विजृम्भते इत्येतत्पधानं कर्मक्षयकारणमिति ॥१४॥ अत्रैव व्यतिरेकमाह
अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति ॥ १५ ॥ (३८२) 'अननुष्ठानं ' अनुष्टानमेव न भवति · अन्यत् ' विलक्षणं उचितानुष्ठानात् , तर्हि कीदृशं तदित्याह-'अकामनिर्जराङ्ग' अकामस्य-निरभिलाषस्य तथाविधबलीव देरिव या निर्जरा-कर्मक्षपणा तस्या अङ्ग-निमित्तं, नतु मुक्तिफ
||७७॥
Page #159
--------------------------------------------------------------------------
________________
लाया निर्जराया', कुत इत्याह-' उक्तविपर्ययात् ' उदग्रविवेकाभावेन रत्नत्रयाराधनाभावादिति ॥१५॥ एतदेव भावयन्नाह
निर्वाणफलमत्र तत्त्वतोऽनुष्ठानमिति ॥१६॥ (३८३) 'निर्वाणफलं' मुक्तिकार्यम् 'अत्र' जिनवचने 'तत्त्वतः' परमार्थवृत्त्या अनुषङ्गतः स्वर्गादिफलभावेऽपि 'अनुष्ठानं ' सम्यग्दर्शनाचाराधनारूपं प्रोच्यत इति ॥१६॥ यदि नामैवं ततोऽपि किमित्याह
न चासदभिनिवेशवत्तदिति ॥ १७॥ (३८४) 'नच' नैव असुन्दराग्रहयुक्तं तत् ' निर्वाणफलमनुष्ठानं, असदभिनिवेशो हि निष्ठुरेऽपि अनुष्टाने मो| क्षफलं प्रतिबध्नातीति तद्व्यवच्छेदार्थमुक्तं 'न चासदभिनिवेशवत्तदिति ॥१७॥ नन्वनौचित्येऽप्यनुष्ठानं च भविष्यति मिथ्याभिनिवेशरहितं चेत्याशक्याह
अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रादिति ॥१८॥ (३८५)
अनुचितस्यानुष्ठानस्य प्रतिपत्तौ-अभ्युपगमे 'नियमाद् ' अवश्यतया 'असदभिनिवेशः' उक्तरूपः, असदभिनिवेशकार्यत्वादनुचितानुष्ठानस्य, अपवादमाह-'अन्यत्र अनाभोगमात्रादिति अन्यत्र-विनाऽनाभोग एव-अपरिज्ञानमेव केवलम्-अभिनिवेशशून्यमनाभोगमात्र तस्मादनाभोगमात्रादनुचितप्रतिपत्तावपि नासदभिनिवेश इति ॥१८॥ एवं सति कि सिद्धमित्याह
संभवति ततोऽपि चारित्रमिति ॥ १९॥ (३८६)
Page #160
--------------------------------------------------------------------------
________________
अनमि| निवेश योग्यता
धर्मबिन्दु सापेक्षय-N
'संभवति' जायते 'ततोऽपि' अनाभोगमात्रादनुचितप्रतिपत्तिमतोऽपि, किंपुनस्तदन्यस्येत्यपिशब्दार्थः, चा- ति धर्मारित्रं-सर्व विरतिरूपम् ॥१९॥ अत्रैव विशेषमाहध्यायः
अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे ॥२०॥ (३८७) _ 'अनभिनिवेशवान् ' निराग्रहः पुनस्ताक्तो जीवोऽनाभोगेऽपि 'खलु' निश्चयेन 'अतत्त्वे ' प्रवचनबाधि॥७८॥ तार्थे ॥२०॥ एतदपि कुत इत्याह
स्वस्वभावोत्कर्षादिति ॥२१॥ (३८९) स्वस्य-अनौपाधिकत्वेन निजस्य स्वभावस्य-आत्मतत्त्वस्य उत्कर्षात-वृद्ध, चारित्रिणो हि जीवस्य छद्मस्थतया | क्वचिदर्थे अनाभोगेऽपि गौतमादिमहामुनीनामिव तथाविधात्यन्तिकबाधककर्माभावेन स्वस्वभावः-सम्यग्दर्शनादिरूपो नापकर्ष प्रतिपद्यत इति ॥२१॥ अयमपि कुत इत्याह
मार्गानुसारित्वादिति ॥ २२॥ (३८९) मार्गस्य-सम्यग्दर्शनादेर्मुक्तिपयस्यानुवर्त्तनात् ॥२२॥ तदपि
तथा रुचिस्वभावत्वादिति ॥२३॥ (३९०) तथा-तत्पकारा मार्गानुरूपत्वेन या रुचिः-श्रद्धा तद्रूपत्वात् ॥२३॥ एतदपि
श्रवणादौ प्रतिपत्तेरिति ॥२४॥ (३९१)
॥७८
Page #161
--------------------------------------------------------------------------
________________
स्वयमेव शास्त्रश्रवणे आदिशब्दादन्येन वा प्रेरणायां कृतायां प्रतिपत्तेः' अनाभोगेन विहितं मयेदमसुन्दरमनुष्ठानमित्यङ्गीकरणात् ॥२४॥ इयमपि
असदाचारगर्हणादिति ॥२५॥ (३९२) असदाचारस्य-अनुचितानुष्ठानस्य गर्हणात्-तदुचितप्रायश्चित्तप्रतिपत्त्या निन्दनात् ॥२५॥ अथ प्रस्तुतमेव निगमयन्नाह
इत्युचितानुष्ठानमेव सर्वत्र श्रेय इति ॥२६॥ (३९३) 'इति' एवं अनुचितानुष्ठाने नियमादसदभिनिवेशभावात् उचितानुष्ठानमेव 'सर्वत्र' गृहस्थधर्मप्रतिपत्तौ यतिधर्मप्रतिपत्तौ च 'श्रेयः' प्रशस्यं वर्तते ॥२६॥ कुत इत्याह
भावनासारत्वात्तस्येति ॥ २७ ॥ (३९४) ___ भावना-निरुपाधिको जीववासकः परिणामः, ततो भावना सारं-प्रधानं यत्र तत्तथा तद्भावस्तत्वं तस्मात् 'तस्य उचितानुष्ठानस्य ॥२७॥ भावनामेव पुरस्कुर्वन्नाह
इयमेव प्रधानं निःश्रेयसाङ्गमिति ॥२८॥ (३९५) 'इयमेव' भावना प्रधानं 'निःश्रेयसाङ्गं निर्वाणहेतुः ॥२८॥ एतदपि कुत इत्याह
एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति ॥ २९॥ (३९६) एतस्या-भावनायाः स्थैर्यात्-स्थिरभावात् 'हिः' स्फुटं कुशलानां-सकलकल्याणाचरणानां स्थैर्यस्य उपपत्तेः
Page #162
--------------------------------------------------------------------------
________________
धर्मबिन्दु सापेक्षयति धर्मा ध्यायः ६|
॥७९॥
KD)
घटनात् ॥ २९ ॥ इयमपि कुत इत्याह
भावनानुगतस्य ज्ञानस्थ तत्त्वतो ज्ञानत्वादिति ॥ ३० ॥ (३९७)
इह त्रीणि ज्ञानानि श्रुतज्ञानं चिन्ताज्ञानं भावनाज्ञानं चेति, तल्लक्षणं चेदम् - " वाक्यार्थमात्रविषयं कोष्ठकगतबीजसंनिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ १९९ ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्प चिन्तामयं तत् स्यात् ॥ २०० ॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत् तथैवोच्चैः । एतत्तु भावनामशुद्धसद्रत्नदीप्तिमम् ॥ २०१ ॥ ( षोड०) ततो ' भावनानुगतस्य' भावनानुविद्धस्य ' ज्ञानस्य' बोधविशेषस्य ' तत्त्वत्तः' पारमार्थिकवृत्त्या 'ज्ञानत्वाद् ' अवबोधत्वात् ||३०|| एतदेव व्यतिरेकतः साधयन्नाहन हि श्रुतमय्या प्रज्ञया, भावनादृष्टज्ञातं ज्ञातं नामेति ॥ ३१ ॥ ( ३९८ )
'न' नैव 'हि:' यस्मात् ' श्रुतमय्या' प्रथमज्ञानरूपया 'प्रज्ञया' बुद्धया कर्त्तृभूतया करणभूतया वा, 'भावनादृष्टज्ञातं ' भावनया - भावनाज्ञानेन दृष्टं सामान्येन ज्ञातं च विशेषेण भावनादृष्टज्ञातं वस्तु 'ज्ञातम्' अवबुद्धं भवति, नामेति विद्वज्जनप्रकटमेतत्, अयमभिप्रायः - यादृशं भावनाज्ञानेन वस्तु दृश्यते ज्ञायते च न तथा श्रुतज्ञानेनेति ॥ ३१ ॥ कुत इत्याहउपरागमात्रत्वादिति ॥ ३२ ॥ (३९९ )
उपराग एव केवल उपरागमात्रं तद्भावस्तच्वं तस्मात्, यथा हि स्फटिकमणेर्जपाकुसुमादिसंनिधानत उपराग एव, न पुनस्तद्भावपरिणतिः संपद्यते, एवं श्रुतमय्यां प्रज्ञायां आत्मनो वोधमात्रमेत्र बहिरङ्ग, न त्वन्तः परिणतिरिति ॥ ३२ ॥
उचितानुष्ठानं
॥ ७९ ॥
Page #163
--------------------------------------------------------------------------
________________
एतदपि कुत स्याह
दृष्टवदपायेभ्योऽनिवृत्तेरिति ॥ ३३ ॥ (४००) यथा भावनाज्ञानेन दृष्टेभ्य उपलक्षणत्वाद् ज्ञातेभ्यश्वानर्थेभ्यो निवर्त्तते एवं श्रुतमयप्रज्ञाप्रवृत्तावप्यपायेभ्योऽनिवृत्तेःअनिवर्त्तनात् ॥३३॥ ननु भावनाज्ञानेऽप्यपायेभ्यो निवृत्तिरसंभविनीत्याह
एतन्मूले च हिताहितयोः प्रवृत्तिनिवृत्ती इति ॥ ३४ ॥ (४०१) 'एतन्मूले च' भावनाज्ञानपूर्विके एव, चकारस्यैवार्थत्वात् , हिताहितयोः प्रतीतयोः यथासंख्यं 'प्रवृत्तिनिवृत्ती' विधिप्रतिषेधरूपे भवतः मतिमतां, नान्यज्ञानमूले इति ॥३४॥ इदमेवोपचिन्वन्नाह
अत एव भावनादृष्टज्ञाताद्विर्पययायोग इति ॥ ३५ ॥ (४०२) 'अत एव' भावनामूलत्वादेव हिताहितप्रवृत्तिनिवृत्त्योः ‘भावनादृष्टज्ञाताद्' भावनया दृष्ट ज्ञातं च वस्तु प्राप्य 'विपर्ययायोगः' विपर्यासाप्रवृत्तिलक्षणो जायते, यतोन मतिविपर्यासमन्तरेण पुंसो हितेष्वप्रवृत्तिरहितेषु च प्रवृत्तिः स्यात् , न चासौ भावनाज्ञाने समस्तीति ॥ ३५ ॥ एतदपि कथं सिद्धमित्याहतद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना श्यन्त एवान्यरक्षादावितीति ॥ ३६॥ (४०३) ।
'तद्वन्तो' भावनाज्ञानवन्तः प्रमातारो 'हिः' यस्मात् 'दृष्टापाययोगेऽपि' प्रत्यक्षोपलभ्यमानमरणाद्यपायप्राप्ती, किं पुनस्तदप्राप्तावित्यपिश्चब्दार्थः, 'अदृष्टापायेभ्यो' नरकादिगतिपापणोयेभ्यो 'निवर्तमानाः' सुवर्णमययवभक्षिक्रौञ्च
Page #164
--------------------------------------------------------------------------
________________
धर्मबिन्दु
सापेक्षय
उचितानुष्ठान
ति धर्मा
ध्यायः६
॥८
॥
जीवाकथकाचर्मशिरोवेष्टनाविष्टसुवर्णकारारब्धमारणमहामुनिमेतार्य इवाद्यापि महासत्वाः केचन दृश्यन्ते 'अन्यरक्षादौ' अन्यस्य-स्वव्यतिरिक्तस्य रक्षायां-मरणादित्राणरूपायां, आदिशब्दादुपकारे च मार्गश्रद्धानाधारोपणरूपे, इतिशब्दो वाक्यपरिसमाप्तौ ॥ ३६॥ निगमयन्नाह
इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति ॥ ३७॥ (४०४) 'इति' एवमुक्तयुक्तेः 'मुमुक्षोः' यतेः सर्वत्र कृत्ये भावनायामेव-उक्तलक्षणायां 'यत्न' आदरः 'श्रेयान्' प्रश्नस्यः ॥३७॥ कुत इत्याह
तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेरिति ॥ ३८ ॥ (४०५) 'तद्भावे' भावनाभावे 'निसर्गत एव' स्वभावादेव सर्वैः प्रकारैर्दोषाणां-रागादीनां उपरतिसिद्धेः॥३८ ॥ अय भावनाया एवं हेतुमाह
वचनोपयोगपूर्वा विहितप्रवृत्तियों निरस्या इति ॥३९॥ (४०६) वचनोपयोगः-शास्त्रे इदमित्यं चेत्थं चोक्तमित्यालोचनारूपः पूर्वो-मूलं यस्याः सा तथा, का इत्याह-विहिते-प्रत्युपेक्षणादौ प्रवृत्तिर्विहितप्रवृत्तिः 'योनिः' उत्पत्तिस्थानं ' अस्याः' भावनाया भावनाज्ञानस्येत्यर्थः ॥३९॥ कुत इत्याह
महागुणत्वावचनोपयोगस्येति ॥ ४०॥ (४०७) अत्यन्तोपकारित्वादचनोपयोगस्य-उक्तरूपस्य ॥४०॥ एतदेव भावयन्नाह
||८०॥
Page #165
--------------------------------------------------------------------------
________________
तत्र यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानग भै स्मरणमिति ॥४१॥ (४०८)
'तत्र' वचनोपयोगे सति 'हिः' यस्मादचिन्त्येन-चिन्तयितुमशक्यप्रभावेण चिन्तामणिना-मणिविशेषेण कल्पस्यतुल्यस्य' भगवतः' पारगतस्य 'बहुमानगर्भ' निसारं 'स्मरणम् ' अनुध्यानं जायते ॥ ४१॥ कथमित्याह
__ भगवतैवमुक्तमित्याराधनायोगादिति ॥ ४२ ॥ (४०९) 'भगवता' अर्हता 'एवं' क्रियमाणप्रकारेण 'उक्तं' निरूपितं प्रत्युपेक्षणादि 'इति' अनेन रूपेण 'आराधनायोगाद्' अनुकूलभावभजनेनेति ॥ २॥ एवं सति यत् सिद्धं नदाह
एवं च प्रायो भगवत एव चेतसि समवस्थानमिति ॥ ४३ ॥ (४१०) 'एवं च' एतस्मिंश्च बहुमानगर्भे भगवत्स्मरणे मति 'प्रायो' बाहुल्येन भगवत एव चेतसि 'समवस्थान' निवेशनं, पायोग्रहणं च क्रियाकाले क्रियायामेव चित्तावस्थान विधेयं, अन्यथा ततक्रियाया द्रव्यत्वप्रसङ्गादिति सूचनार्थमिति ॥४३॥ ननु तदुक्तकरणात् किं नाम सिध्यतीत्याह
तदाज्ञाऽऽराधनाच्च तद्भक्तिरेवेति ॥४४॥ (४११) तस्य-भगवत आज्ञाऽऽराधनात् पुनः तद्भक्तिरेव' भगवद्भक्तिरेवेति ॥ ४४ ॥ एतदपि भावयितुमाह
उपदेशपालनैव भगवद्भक्तिः, नान्या, कृतकृत्यत्वादिति ॥ ४५ ॥ (४१२) प्रकटायमेतदिति ॥४५)। एवं तर्हि कथमस्य पुष्पादिपूजाविधिरित्याशक्याह
Page #166
--------------------------------------------------------------------------
________________
धर्मविन्दु सापेक्षय ति धर्मा ध्यायः
उचिता नुष्ठान
॥८॥
उचितद्रव्यस्तवस्यापि तद्रूपत्वादिति ॥४६॥ (४१३) उचितस्य द्रव्यस्तवस्य "काले सुइभूएणं विसिट्टपुष्फाइएहिं विहिणा उ । सारथुइयोत्तगरुई जिणपूजा होइ कायदा ॥२०२॥" पश्चा. १४७) [काले शुचिभूतेन विशिष्टपुष्पादिकैर्विधिनैव। सारस्तुतिस्तोत्रगुर्वी जिनपूजा भवति कर्त्तव्या ॥१॥] इत्यादिवचनोक्तरूपस्य, किं पुनर्भावस्तवस्येत्यपिशब्दार्थः, सा-उपदेशपालना रूपमस्य तद्भावस्तत्त्वं तस्मात् ॥ कुत इत्याह
भावस्तवाङ्गतया विधानादिति ॥४७॥ (४१४) शुद्धयतिधर्मकारणतया विधानाद् द्रव्यस्तवस्य, यदा हि विषयपिपासादिभिः कारणैः साधुधर्ममन्दिरशिखरमारोहुमक्षमो धर्म च चिकीर्षुः प्राणी तदा महत: सावद्यान्तरात् निवृत्तेरुपायमन्यमपश्यन् भगवान् अर्हन् सदारम्भरूपं द्रव्यस्तवमुपदिदेश, यथा-" जिनभवनं जिनबिम्ब जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवमुखफलानि करपल्लवस्थानि ॥ १०३॥ (प्रशम.) एवं च द्रव्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः ॥४७॥ अथ भगवति चित्तावस्थिते फलमाह
हृदि स्थिते च भगवति क्लिष्टकर्मविगम इति ॥४८॥ (४१५) प्रतीतार्थमेव, परं क्लिष्टकर्म तदुच्यते यत्संसारवासैकनिबन्धनमिति ॥४८॥ एतदपि कुत इत्याह
जलानलवदनयोविरोधादिति ॥ ४९॥ (४१६) वारिवैश्वानरयोरिव 'अनयो' भगवच्चित्वावस्थानक्लिष्टकोणोः 'विरोधात्' परस्पराबाधनात् ॥४९॥ पुनरपि प्रकतोपसंहारमाह
|॥८॥
Page #167
--------------------------------------------------------------------------
________________
इत्युचितानुष्ठानमेव सर्वत्र प्रधानमिति ॥५०॥ (४१७) एतत्माग्वत् ॥५०॥ कथमेतदित्याह
प्रायोऽतिचारासंभवादिति ॥५१॥ (४१८) यो हि स्वोचितं कर्म कर्तुमारभते न तस्य तत्रातिचारः संभवति, प्रायोग्रहणेन चेदमाह-तथाविधानाभोगदोषात् निकाचितक्लिष्टकर्मोदयाद्वा कदाचित्कस्यचित्तथाविधसन्मार्गयायिनः पथिकस्येव कण्टकज्वरदिग्मोहसमानोऽतिचारः स्यादपीति॥ ५१॥ एतदपि कथमित्याह
यथाशक्ति प्रवृत्तेरिति ॥५२॥ (४१९) 'यथाशक्ति' यथासामर्थ्य सर्वकार्येषु प्रवृत्तेः ॥५२॥ इयमपि कथम् ?, उच्यते
सद्भावप्रतिबन्धादिति ॥ ५३॥ (४२०) सद्भावे-शक्यतया सत्यरूपे कृत्येऽर्थे चित्तस्य प्रतिबन्धात्-प्रतिबद्धत्वात् ॥५३॥ विपर्यये बाधकमाइ
इतरथाऽऽर्तध्यानोपपत्तिरिति ॥ ५४॥ (४२१) 'इतरथा' अनुचितारम्भे 'आर्तध्यानस्य' प्रतीतरूपस्य 'उपपत्तिः' प्रसङ्गः स्यात् ॥५४॥ कथमित्याह
_ अकालौत्सुक्यस्य तत्त्वतस्तत्त्वादिति ॥ ५५॥(४२२) अकाले-चिकीर्षितकार्याप्रस्तावे यदौत्सुक्यं-तत्कालोचितकार्यांतरपरिहारेण तीव्रचिकीर्षांलक्षणं तस्य 'तत्त्वता'
Page #168
--------------------------------------------------------------------------
________________
धर्मबिन्दु सापेक्षय
उचितानुष्ठान
ति धर्मा। ध्यायः६
॥८२॥
परमार्थतः 'तत्त्वात् ' आध्यानत्वात् , व्यवहारतस्तु धर्मध्यानसमपि इति तत्त्वग्रहणमिति ॥५५॥ ननु अनुत्सुकः प्रवृत्तिकालमपि कथं लप्स्यते इत्याशझ्याह
नेदं प्रवृत्तिकालसाधनमिति ॥ ५६ ॥ (४२३) 'न' नैवेदम्-औत्सुक्यं 'प्रवृत्तिकालसाधनं ' कार्यस्य यः प्रवृत्तिकाल:-प्रस्तावलक्षणः तस्य साधनं-हेतुः, अनवसरोपहतत्वात् , नहि अत्यन्तं बुभुक्षयोऽपि पुरुषा अप्रस्तावे भोजनं लभन्ते, कितु प्रस्ताव एवेति ॥ ५६ ।। अतः किं विधेयमित्याह
इति सदोचितमिति ॥ ५७॥ (४२४) 'इति' एवं 'सदा सर्वकालमुचितमारब्धव्यं निरुत्सुकेन सता ॥५७॥ कुत इत्याह
तदा तदसत्वादिति ।। ५८॥ (४२५) 'तदा' प्रवृत्तिकाले तस्य औत्सुक्यस्यासत्वाद्-अभावात् , नहि सम्यगुपायप्रवृत्ता मतिमन्तः कायौंत्सुक्यमवलम्बन्ते, सदुपायस्य कार्यमप्रसाध्योपरमाभावात् , ततो यो यस्य साधनभावेन व्याप्रियते स तत्कार्यप्रवृत्तिकाले नियमात्स्वसस्वमादर्शयति, यथा मृत्पिण्डादिर्घटस्य, नादर्शयति चात्मानमौत्सुक्यं कार्यपत्तकाले मतिमतामिति कथं तत् तत्साधनभावं लब्धुमर्हतीति, अत एव पठ्यतेऽन्यत्र-" अत्वरापूर्वक सर्वे, गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥२०॥" ॥५८ ॥ यदि नौत्सुक्यं प्रवृत्तिकालसाधनं तर्हि कि साधनमित्याशक्याह
-
॥८२॥
Page #169
--------------------------------------------------------------------------
________________
प्रभूतान्येव तु प्रवृत्तिकालसाधनानीति ॥ ५९॥ (४२६) 'प्रभूतान्येव तु' बहून्येव न पुनरेक किश्चन प्रवृत्तिकालसाधनानि सन्तीति ॥५९॥ कुत इत्याह
निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्रदर्शनादिति ॥ ६०॥ (४२७) इह निदानशब्दः कारणमात्रपर्यायः, यथा किमत्र रोगे निदानमित्यादौ प्रयोगे, ततो निदानस्य-भोगादिफलत्वेन दानादेः श्रवणाद् देशनायां, यथा-" भोगा दानेन भवन्ति देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥ २०५॥" आदिशब्दात्तथाविधश्रुतादिलिप्सास्वजनोपरोधबलात्कारादेः कारणात् केषाश्चित् गोविन्दवाचकसुन्दरीनन्दा-र्य सुहस्तिदीक्षितद्रमक-भवदेव-करोटकगणिप्रभृतीनां प्रवृत्तिमात्रस्य-प्रवृत्तेरेव केवलायाः तात्विकोपयोगशून्यायाः प्रथम प्रव्रज्यायां दर्शनाव-शास्त्रकाबलोकनात् ॥६०। ननु कथं तत्प्रवृत्तिमात्रं सद्भावप्रव्रज्यापतिपत्तिकालहेतुरित्याशक्याह
तस्यापि तथापारम्पर्यसाधनत्वमिति ।। ६१॥ (४२८) 'तस्यापि' प्रवृत्तिमात्रस्य, किं पुनरन्यस्य भववैराग्यादेरित्यपिशब्दार्थः, तथापारम्पर्येण-तत्प्रकारपरम्परया साधनत्वं-साधनभावः, श्रूयते हि केचन पूर्व तथाविधभोगाभिलाषादिनाऽऽलम्बनेन द्रव्यप्रव्रज्यां प्रतिपद्य पश्चात्तदभ्यासेनैव व्यावृत्ता अतितीव्रचारित्रमोहोदयाभावप्रव्रज्याप्रतिपत्तिकालाराधकाः संजाताः, यथा अमी एव गोविन्दादय इति ॥६१॥ तहि प्रवृत्तिमात्रमपि कर्त्तव्यमापन्नमित्याह
यतिधर्माधिकारश्चायमिति प्रतिषेध इति ॥ २॥ (४२९)
Page #170
--------------------------------------------------------------------------
________________
उचिता
नुशानं
तत् परिणते परिणते' अना(४३१)
धर्मबिन्दु 'यतिधर्माधिकारः' शुद्धसाधुधर्मप्रस्तावः पुनरयं-पक्रान्तः 'इति' एतस्मादेतोः 'प्रतिषेधो' निवारण प्र. सापेक्षयत्तिमात्रस्य, नहि यथा कथञ्चित् प्रवृत्तः सर्वोऽपि प्राणो भावधर्मप्रवृत्तिकालाराधको भवति, किन्तु घुणाक्षरदृश्या कश्चिदेवेति ति धर्मा
सर्वत्रौचित्येन प्रवर्तितव्यम् ॥६२॥ अभ्युच्चयमाहध्यायः६
न चैतत् परिणते चारित्रपरिणाम इति ॥ ६३॥ (४३०) ॥८॥
'न च' नैव 'एतद्' अकालौत्सुक्यं 'परिणते ' अगाडीभावमागते चारित्रपरिणामे ॥६॥ कुत इत्याह
तस्य प्रसन्नगम्भीरत्वादिति ॥६४ ॥ (४३१) __ 'तस्य ' चारित्रपरिणामस्य प्रसन्नत्वात् , शारदसमयसरःसलिलवत् , तथा गम्भीरत्वात् महासमुद्रमध्यवत् ॥ ६४ ॥ | एतदपि कथमित्याह
हितावहत्वादिति ॥६५॥ (४३२) एकान्तेनैव हितकारित्वात् ॥ आह-यदि परिणतश्चारित्रपरिणामः प्रसन्नो गम्भीरस्तथा हितावहश्च तत्कथं तैस्तैर्वच- नैस्तत्पतिपत्तावपि साधनामनुशासनं शास्त्रेषु निरूप्यते ? यथा-" गुरुकुलवासो गुरुतंतया य उचियविणयस्स करणं च । वस हीपमज्जणाइसु जत्तो तह कालविकखाए ॥१०६॥ अनिगृहणा बलमी सवत्थ पवत्तणं च सत्तीए । नियलाभचिंतणं सइ अणुरंगहो मित्ति गुरुवयणे ॥२०७॥ संवरनिच्छिद्दत्तं छज्जीवणरकखणासुपरिसुदं । विहिसज्झाओ मरणादवेक्खणं जइजणुवएसो ॥२०८॥ [ गुरुकुलवासो गुरुतन्त्रता चोचितविनयस्य करणं च । वसतिप्रमार्जनादिषु यत्नस्तथा कालावेक्षणे॥१॥ अनिगृहना
॥८॥
Page #171
--------------------------------------------------------------------------
________________
बले सर्वत्र प्रवर्त्तनं च शक्त्या । निजलाभचिन्तनं अनुग्रहः सदा मैत्री गुरुवचने ॥ २ ॥ संवरनिश्छिद्रत्वं पद्जीवरक्षणं सुपरिशुद्धम् । विधिस्वाध्यायो मरणाद्यपेक्षणं यतिजनोपदेशः ॥ ३ ॥ ] ॥ ६५ ॥ इत्याशङ्क्याह
यतोऽसौ
पठ्यते
चारित्रिणां तत्साधनानुष्ठानविषयस्तूपदेशः, प्रतिपात्यसौ, कर्मवैचित्र्यादिति ॥ ६६ ॥ (४३३ ) चारित्रिणां परिणतचारित्राणां तस्य चारित्रपरिणामस्य साधनानि यान्यनुष्ठानानि - गुरुकुलवासादीनि तानि विषयो यस्य स तथा, तुः पुनरर्थे, 'उपदेश: ' प्रवर्त्तकवाक्यरूपो यः शास्त्रेषु गीयतेः स ' प्रतिपाती ' प्रतिपतनशीलः चारित्रपरिणामो वर्त्तते, कुत इत्याह- कर्मवैचित्रयात्, विचित्राणि हि कर्माणि ततस्तेभ्यः किं न संभाव्यते ?, यतः कम्माई नूणं घणचिकणाई कढिणाई वज्जसाराई । णाणड्ढयपि पुरिसं पंथाओ उप्पहं नैति ॥ २०९॥ [कर्माणि नूनं घन चिक्कणानि कठिनानि वज्रसाराणि । ज्ञानाढ्यमपि पुरुषं पथ उत्पथं नयन्ति ॥ १ ॥ ] ततः पतितोऽपि कदाचित्कस्यचित् चारित्रपरिणामः तथाविधाकवशात् पुनरपि गुरुकुलवासादिभ्यः सम्यक्प्रयुक्तेभ्यः प्रवर्त्तत इति तत्साधनोपदेशो ज्यायानिति ॥ ६६ ॥ तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातादिति ॥ ६७ ॥ (४३४ )
तस्य चारित्र परिणामस्य लब्धस्य यत् संरक्षणं-पालनं तदर्थं यदनुष्ठानं तद्विषयः, चः समुच्चये, उपदेशः- “ वज्जेजा संगरिंग पासत्थाईहिं पावमित्तेहिं । कुज्जा उ अप्पमत्तो सुद्धचरितेहिं धीरेहिं ॥ २९० ॥" (पञ्चव. ७३० ) [ वर्जयेत् संसर्गी पार्श्वस्थादिभिः पापमित्रैः । कुर्यादप्रमत्त एव शुद्धचारित्रैधरैः ॥ १ ॥ ] इत्यादिरूपो यः स चक्रस्य - कुलालादिसंबन्धिनः आदिशब्दादरघट्टयन्त्रादेश्व या प्रवृत्तिः भ्रमणरूपा तस्या अवसाने - मन्दतारूपे यद् भ्रमाधानं - पुनरपि दण्डयोगेन तीव्रत्वमा
* 本* 佘* * 佘*本费、太
Page #172
--------------------------------------------------------------------------
________________
उचिता
धर्मविन्दु सापेक्षयति धर्मा! ध्यायः६
अनुष्ठान
॥८४॥
धीयते तथा चारित्रवतोऽपि जन्तोः तथाविधवीर्य हासात परिणाममन्दतायां तत्तीव्रताऽऽधानार्थमुपदेशः प्रवर्त्तते इति ॥६७॥ अथोपदेशनिष्फलत्वमभिधातुमाह
माध्यस्थ्ये तद्वैफल्यमेवेति ॥ ३८॥ (४३५) _ 'माध्यस्थ्ये' मध्यस्थभावे अप्रवृत्तिप्रवृत्यवसानयोर्मध्यभागरूपे, प्रवृत्तौ सत्यामित्यर्थः, तस्य-उपदेशस्य वैफल्यंविफलभावः ॥६८॥ कुत इत्याह
स्वयंभ्रमणसिडेरिति ॥ ६९ ॥ (४३६) स्वयम्-आत्मनैव भ्रमणसिद्धेः चक्रभ्रमणतुल्यप्रवृत्तिसिद्धेः ॥६९॥ एतदेव भावयन्नाहभावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतर इति ॥ ७० ॥ (४३७)
'भावयतिः' परमार्थसाधुः हि-यस्मात् 'तथा' तत्पकारश्चारित्रवृद्धिहेतुरित्यर्थः कुशल:-परिशुद्धः आशयः-चित्तमस्य तद्भावस्तत्वं तस्माद् अशक्त:--असमर्थोऽसमंजसप्रती अनाचारसेवारूपायां, दृष्टान्तमाह-'इतरस्यामिव' भावतः समञ्जसप्रवृत्ताविव ' इतरः ' अभावयतिविडम्बकमायः॥६॥ अत्रच किश्चिद्विशेषमाह
इति निदर्शनमात्रमिति ॥ ७१॥ (४३८) " इति ' एतदितरस्यामिवेतर इति यदुक्तं निदर्शनमा-दृष्टान्त एव केवलः ॥७१॥ अत एवाह
न सर्वसाधर्म्ययोगेनेति ॥ ७२ ।। ( ४३९)
॥८४॥
Page #173
--------------------------------------------------------------------------
________________
न' व 'सर्वसाधर्म्ययोगेन' सर्वेःधर्मः साधर्म्य-सादृश्यं तद्योगेन ॥७२।। एतत्कुत इत्याह
यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वादिति ॥ ७३ ॥ (४४०) • यतेः ' साधोः तत्र-असमञ्जसे अप्रवृत्तौ निमित्तस्य सम्यग्दर्शनादिपरिणामस्य 'गरीयस्त्वात् ' असमअसप्रवृत्तिनिमित्तान्मिथ्यात्वादेस्तथाविधकर्मोदयजन्यात् अत एव जीवास्वभावभूतात्सकाशादतिगुरुत्वात् ॥७३॥ एतदेव भावयति
वस्तुतः स्वाभाविकत्वादिति ॥ ७४ (४४१) 'वस्तुतः परमार्थवृत्या ' स्वाभाविकत्वात् ' जीवस्वभावमयत्वात् सम्यग्दर्शनादेः समजसप्रवृत्तिनिमित्तस्य ॥
तथा सद्भाववृद्धः फलोत्कर्षसाधनादिति ।। ७५ ॥ (४४२) सद्भावस्य-शुभपरिणामरूपस्य या वृद्धिः-उत्कर्षस्तस्याः 'फलोत्कर्षसाधनात् ' उत्कृष्टफलरूपमोक्षनिष्पादनात् । वृद्धि प्राप्तो हि शुद्धो भावः सम्यग्दर्शनादिर्मोक्षं साधयति, नतु मिथ्यात्वादिः कदाचनापि, अतः परमफलसाधकत्वेन मिथ्यात्वादिभ्योऽसौ गरीयानिति ॥ ७५ ॥एतदपि कुत इत्याह
उपप्लवविगमेन तथावभासनादितीति ॥ ७६ ॥ (४४३) ____ 'उपप्लवविगमेन' रागद्वेषाद्यान्तरोपद्रवापगमेन 'तथावभासनात्' तथा-असमञ्जसस्याप्रवृत्तियोग्यतयाऽवभासनात्प्रतीतेः, भावयतेः कर्तः, इतीतरस्यामिवेतर इति निदर्शनमात्रमिति स्थितं, इतिः वाक्यपरिसमाप्तौ ॥७६॥ अथोपसंहरबाह
एवंविधयतेः प्रायो, भावशुद्धर्महात्मनः। विनिवृत्ताग्रहस्योचैर्मोक्षतुल्यो भवोऽपि हि ॥ ३४ ॥ इति ।
Page #174
--------------------------------------------------------------------------
________________
》
परिणा
मस्य गुन
रुत्वम्
全
本
धर्मबिन्दु
एवंविधस्य-स्वावस्थोचितानुष्ठानारम्भिणो यतेः-साधोः 'प्रायो' बाहुल्पेन भावशुद्धः सकाशात् महात्मनः उक्तसापेक्षय- रूपस्य 'विनिवृत्ताग्रहस्य' उपरतशरीरादिगोचरमूर्छादोषस्य ' उच्चैः' अत्यर्थं 'मोक्षतुल्यो' निर्वाणकल्पो भवोऽपि, मोक्षति धर्मा
स्तावन्मोक्ष एवेत्यपिशब्दार्थः, 'हि' स्फुटम्, यदवाचि-" निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपध्यायः६
राशानामिहैव मोक्षः सुविहितानाम् ॥ २११॥” (पशम०) ॥१॥ अत्रोपपत्तिमाह॥८ ॥
सद्दर्शनादिसंप्राप्ते, संतोषामृतयोगतः। भावैश्वर्यप्रधानत्वात्तदासमत्वतस्तथा ॥३५॥ इति ।
सद्दर्शनादीनाम्-अधाकृतचिन्तामणिकल्पद्रमकामधेनूपमानानां सम्यग्दर्शनज्ञानचारित्राणां समाप्त:-लाभात् यः संतोषामृतयोगस्तस्मात् , मोक्षतुल्यो भवोऽपि हीति संवन्धः, उपपत्यन्तरमाह-'भावैश्वर्यप्रधानत्वात् ' भावैश्वर्येण-क्षमामार्दवादिना प्रधाना-उत्तमस्तद्भावस्तत्त्वं तस्मात् सकाशात् 'तदासन्नत्वतो' मोक्षासन्नभावात् , तथेति हेत्वन्तरसूचक इति॥ २॥ एतदेव समर्थयन्नाहउक्तं मासादिपर्यायवृद्धया द्वादशभिः परम् । तेजः प्राप्जाति चारित्री, सर्वदेवेभ्य उत्तमम् ॥३६॥ इति।
'उक्तं' निरूपितं भगवत्यां, किमित्याह- मासादिपर्यायवृद्धया' मासेन द्वाभ्यां त्रिभिरित्यादिक्रमेण पर्यायस्य 8 वृहौ सत्यां यावद् द्वादशभिर्मासैः 'परं' प्रकष्टं 'तेजः' चित्तसुखलाभलक्षणं प्राप्नोति ' अधिगच्छति 'चारित्री' वि
शिष्टचारित्रपात्रं पुमान् , परत्वमेव व्यनक्ति-'सर्वदेवेभ्यो' भवनवासिप्रभृतिभ्योऽनुत्तरसुरावसानेभ्यः सकाशादुत्तमं सर्वसुरसुखातिशायीति भावः, भगवतीसूत्रं चेदं-"जे इमे अज्जताए समणा निग्गंथा एए णं कस्स तेउल्लेखें वीतीवयंति ?, मासप
》髮》姿》姿》發!
Page #175
--------------------------------------------------------------------------
________________
रियाए समणे निग्गंथे वाणमंतराणं देवाणं तेउल्लेस वीइवयइ, एवं दुमासपरियाए समणे निगथे असुरिंदवजिआणं भवणवासीणं देवाणं तेउलेसं वीइवयइ, तिमासपरियाए ममणे निग्गंथे असुरिंदाणं देवाणं तेउलेस वीतीवयइ, चउमासपरियाए समणे निगंथे चंदिममूरियवज्जियाणं गहगणनक्खत्ततारारूवाणं जोतिसियाण तेउलेसं वीईबयइ, पंचमासपरियाए समणे निग्गंथे चंदिममूरियाणं जोइसियाणं तेउलेस बीइवयइ, छम्मासपरियाए समणे निग्गथे सोहम्भीसाणाणं तेउलेसं बीतीवयइ, सत्तमासपरियाए समणे निग्गथे सणकुमारमाहिंदाणं तेउलेस वीइवयइ, अट्टमासपरियाए समणे निग्गंथे बंभलोगलंतगदेवाणं तेउलेसं वीइबयइ, नवमासपरियाए समणे निग्गंथे महामुकसहस्साराणं देवाणं तेउलेसं वीईवयइ, दसमासपरियाए समणे निग्गंथे आणयपाणयआरणअच्चुआणं देवाणं तेउलेसं वीइवयइ, एकारसमासपरियाए समणे निग्गंथे गेवेजाणं देवाण तेउलेसं वीइवयइ, बारमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेउलेसं वीइवयइ, तेण परं मुक्के मुक्काभिजाती भवित्ता सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणमंतं करेइ "त्ति (१२-५३७)॥३॥
इति श्रीमुनिचन्द्रमूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः ।
अथ सप्तमः अध्यायः अथ सप्तमोऽध्याय आरभ्यते, तस्य चेदमादिसूत्रम्फलप्रधान आरम्भा, इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं, व्यासतः पुनरुच्यते ॥ ३७॥
Page #176
--------------------------------------------------------------------------
________________
धर्मबिन्दु
धर्मफकम्
सप्तमो
ऽध्यायः
॥८६॥
फलं प्रधानं यस्येति स तथा 'आरम्भा' धर्मादिगोचरा प्रवृत्तिः इति' अस्याः 'सल्लोकनीतितः' शिष्टजनसमाचाराव , किमित्याह-संक्षेपात्' परिमितरूपयाःउक्तमस्य-धर्मस्येदं-फलं "धनदो धनार्थिनां प्रोक्तः” इति श्लोकेन शास्त्रादौ, 'व्यासतो' विस्तरेण पुनरुच्यते इदमिदानीमिति ॥१॥ ननु यदि व्यासतः पुनारदानीं वक्ष्यते तत्किमिति संक्षेपात् पूर्व फलमुक्तमित्याशङ्क्याह
प्रवृत्त्यङ्गमदः श्रेष्ठं, सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः॥३८॥
'प्रवृत्त्यङ्ग' प्रवृत्तिकारणं 'अदः' फलं 'श्रेष्ठं' ज्यायः 'सत्त्वानां' फलार्थिनां प्राणिविशेषाणां 'प्रायशः'। प्रायेण, चकारो वक्तव्यान्तरसमुच्चये, 'यद्' यस्माद् आदौ' प्रथमं 'सर्वत्र' सर्वकार्येषु 'तत् ' तस्माद् 'युक्तम्' उचितम् 'अभिधातुं' भणितुं संक्षेपादादाविति-आदावेव, विस्तरेण फलभणने शास्त्रार्थस्य अतिव्यवधानेन श्रोतुस्तत्र नीरसभावप्रसड्रेनानादर एव स्यादिति, 'इदं पुन' रिति यत्पुनासतः फलं तदिदं-वक्ष्यमाणम् ॥२॥ यथा-विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रमस्येदं, फलमाहुर्मनीषिणः॥३९॥
'विशिष्टं' सौधर्मादिदेवलोकसंबन्धितया शेषदेवसौख्यातिशायि 'देवसौख्यं मुरशर्म यदिइव वक्ष्यमाणं, 'शिवसौख्यं' मुक्तिशर्म, चः समुच्चये, यदिति प्राग्वत् , 'परं' प्रकृष्ट, तत्किमित्याह-'धर्मकल्पदमस्य' भावधर्मकल्पपादपस्य |' इदं 'प्रतीतरूपतया प्रथमानं 'फलं' साध्यमाहुः-उकयन्तः 'मनीषिणः' मुधर्मस्वामिप्रभृतयो महामुनय इति ॥३॥
इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः॥१॥ (४४४)
॥८६॥
Page #177
--------------------------------------------------------------------------
________________
मुगममेव ।
द्विविधं फलम्-अनन्तरपरम्परभेदादिति ॥२॥ (४४५) 'विविधं' द्विरूपं फलं धर्मस्य, कथमित्याह-अनन्तरपरम्परभेदात् , आनन्तर्येण परम्परया च ॥२॥
तत्रानन्तरफलमुपप्लवहास इति ॥३॥ (४४६) 'तत्र' तयोर्मध्येऽनन्तरफलं दयते, तद्यथा-'उपप्लवहासः' उपप्लवस्य-रागद्वेषादिदोषोद्रेकलक्षणस्य हासः-परिहाणिः॥
तथा-भावैश्वर्यवृद्धिरिति ॥ ४ ।। ( ४४७) भावैश्वर्यस्य-औदार्यदाक्षिण्यपापजुगुप्सादिगुणलाभलक्षणस्य वृद्धिः-उत्कर्षः॥४॥
तथा-जनप्रियत्वमिति॥५॥(४४८) सर्वलोकचित्ताहादकत्वम् ॥५॥
परम्परफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तरिति ॥६॥(४४९)
यत् मुगतिजन्म यच्चोत्तमस्थानपरम्परया करणभूतया निर्वाणं तयोरवाप्तिः पुनः परम्पराफलमिति ॥६॥ अथ स्वयमेवैतत्सूत्रं भावति
सुगतिविशिष्टदेवस्थानमिति॥७॥(४५०) सुगतिः किमुच्यते इत्याह-'विशिष्टदेवस्थान सौधर्मादिकल्पलक्षणम् ॥७॥
Page #178
--------------------------------------------------------------------------
________________
धर्मबिन्दु
धर्मफलम
सप्तमो-1
ऽध्यायः
॥८७॥
变变变》令女大亨亨聲享
तत्रोत्तमा रूपसंपत्, सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धन्द्रियावधित्वं, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशया:, कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्तालादः, अनेकमुखहेतुत्वं, कुशलानुबन्धः, म. हाकल्याणपूजाकरणं, तीर्थकरसेवा, सहर्मश्रुतौ रतिः, सदा सुखित्वमिति॥८॥ (४५१)
'तत्र' देवस्थाने 'उत्तमा' प्रकृष्टा 'रूपसंपत्' शरीरसंस्थानलक्षणा ? सत्यः-सुन्दरा या स्थितिप्रभावसुखातिलेश्यास्ताभिर्योगः-समागमः, तत्र स्थिति:-पल्योपमसागरोपमप्रमाणायुष्कलक्षणा प्रभावो-निग्रहानुग्रहसामर्थ्य सुख-चित्तसमाधिलक्षणं द्युतिः-शरीराभरणादिप्रभा लेश्या-तेजोलेश्यादिका इति २ विशुद्धानि-स्वविषयाविपर्यस्तज्ञानजननेन निर्मलानीन्द्रियाणि अवधिश्च यस्य स तथा तद्भावस्तत्त्वं ३ 'प्रकृष्टानि' प्रकर्षवन्ति 'भोगसाधनानि' भोगोपकरणानि ४ तान्येव दर्शयति-'दिव्यो' निजप्रभामण्डलविडम्बिताशेषतेजस्विचको 'विमाननिवहः' विमानसंघातः ५ 'मनोहराणि' मनःप्रमोदप्रदानि अशोकचम्पकपुन्नागनागप्रभृतिवनस्पतिसमाकुलानि 'उद्यानानि' बनानि ६ 'रम्या' रखें योग्याः 'जलाशयाः' वापीहदसरोवरलक्षणाः ७ 'कान्ताः' कान्तिभाजः 'अप्सरसो' देव्यः ८ 'अतिनिपुणाः' परिशुद्धविन यविधिविधायिनः ‘किङ्कराः' प्रतीतरूपा एव ९ 'प्रगल्भः' प्रौढो 'नाट्यविधिः' तीर्थकरादिचरितप्रतिबद्धाभिनयलक्षणः १० 'चतुरोदाराः' चतुरा:-झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्च-उत्तमाः भोगाः-शब्दादयः श्रोत्रादीन्द्रियविषयाः ११ 'सदा' सततं 'चित्ताहादो' मनःमसादरूपः १२ अनेकेषां-स्वव्यतिरिक्तानां देवादीनां तत्तन्नानाविधसमुचिताचार
बताशेषतेजस्विचान्ति 'भोगावस्तज्ञानजननेन नि
॥८७॥
Page #179
--------------------------------------------------------------------------
________________
समाचरणचातुर्यगुणेन सुखहेतुत्वं-संतोषनिमित्तभावः१३ कुशलः-परिणामसुन्दरोऽनुबन्धः सर्वकार्याणां १४ महाकल्याणकेषु. जिनजन्ममहाव्रतप्रतिपत्त्यादिषु पूजाया:-स्नात्रपुष्पारोपणधूपवासपदानादिना प्रकारेण करणं-निर्मापणं १५ तीर्थकराणांनिजप्रभावावर्जितजगत्त्रयजन्तुमानसानां अमृतमेघासाराकारसरसदेशनाविधिनिहतभव्यभविकजनमनःसंतापानां पुरुषरत्नविशेषाणां सेवा-वन्दननमनपर्युपासनपूजनादिनाऽऽराधना १६ सतः-पारमार्थिकस्य धर्मस्य-श्रुतचारित्रलक्षणस्य श्रुतौ-आकर्णने रतिः-स्वर्गप्रभवतुम्बुरुप्रभृतिगान्धर्विकारब्धपञ्चमस्वरगीतश्रवणरतेरपि सकाशादधिकसंतोषलक्षणा १७ सदा-सर्वकालं सुखित्वं-बाह्यशयनासनवस्त्रालङ्कारादिजनितशरीरसुखयुक्तत्वम् १८॥८॥
तथा-तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ्केऽन्वयेन उद्ग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवा जन्मेति ॥९॥ (४५२)
'तच्च्युतावपि' देवलोकादवतारे, किं पुनस्तत्र सुखमेवेत्यपिशब्दार्थः, विशिष्टे देशे-मगधादौ विशिष्ट एव कालेसुषमदुष्षमादौ 'स्फीते' परिवारादिस्फोतिमति 'महाकुले' इक्ष्वाकादौ 'निकलके' असदाचारकलङ्कपङ्कविकले 'अन्वयेन' पितृपितामहादिपुरुषपरम्परया, अत एव 'उदने' उद्भटे, केनेत्याह-सदाचारेण' देवगुरुस्वजनादिसमुचितप्रतिपत्तिलक्षणेन, आख्यायिका-कथा तत्प्रतिबद्धा ये पुरुषास्तथाविधान्यासाधारणाचरणगुणेन तैर्युक्ते-संबद्धे, किमित्याह-'अने. कमनोरथापूरक' स्वजनपरजनपरिवारादिमनोऽभिलषितपूरणकारि, अत्यन्तनिरवा-शुभलग्नशुभग्रहावलोकनादिविशिष्टगुणसमन्वितेन एकान्ततो निखिलदोषविकलं 'जन्म' प्रादुर्भाव इति ॥९॥ तत्र च यद्भवति तदाह
Page #180
--------------------------------------------------------------------------
________________
धर्मविन्दु सप्तमोऽध्यायः
በሪሪ
***4600 469** 169) *0*%* (69
सुन्दरं रूपं आलयो लक्षणानां रहितमामयेन युक्तं प्रज्ञया संगतं कलाकलापेन ॥१०॥ (४५३)
सुन्दरं शुभसंस्थानवत्तया रूपम् - आकार ः १ आलयो - लक्षणानां - चक्रवच स्वस्ति कमीन कलशकमलादीनां २ 'रहितं' परित्यक्तं 'आमयेन' ज्वरातिसारभगन्दरादिना रोगेण ३ 'युक्तं ' संगतं ' प्रज्ञया' बहुबहुविधादिविशेषणग्राहिकया वस्तुबोधशक्त्या, 'संगतं ' संबद्धं कलानां लिपिशिक्षादीनां शकुनिरुतपर्यवसानानां कलापेन समुदायेन ॥ १० ॥
तथा - गुणपक्षपातः १ असदाचारभीरुता २ कल्याणमित्रयोगः ३ सत्कथाश्रवणं ४ मार्गानुगो बोधः ५ सर्वोचितप्राप्तिः हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणां संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानां ६ अत्युदार आशयः ७ असाधारणा विषयाः रहिताः संक्लेशेन, अपरोपतापिन, अमगुलावसाना इति८ ॥ ११ (४५४)
गुणाः शिष्टाचरित विशेषा असज्जनानभ्यर्थनादयः, तथा च पठन्ति - " असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, प्रिया वृत्तिर्न्याय्या मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युचैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषमम सिधाराव्रतमिदम् ? ।। २१२ ।। " तेषां पक्षः - अभ्युपगमः तत्र पातः - अवतार इति, अत एव 'असदाचार भीरुता' चौर्यपारदार्याधनाचाराद् व्याधिविषप्रदीपनकादिभ्य इव दूरं भीरुभावः, कल्याणमित्रैः सुकृतबुद्धिनिबन्धनैर्जनैर्योगः- संबन्धः, सतसदाचाराणां गृहिणां यतीनां च कथाश्रवणं-चरिताकर्णनं, 'मार्गानुगो' मुक्तिपथानुवर्त्ती ' बोधो ' वस्तुपरिच्छेदः, सर्वेषां धर्मार्थकामानामाराधनं प्रत्युचितानां वस्तूनां प्राप्तिः लाभः सर्वोचितमाप्तिः कीदृश्यसाविति विशेषणचतुष्टयेनाह'हिताय ' कल्याणाय 'सत्त्वसंघातस्य' जन्तुजातस्य, 'परितोषकरी ' प्रमोददायिनी 'गुरूणां मातापित्रादिलोकस्य,
धर्मफलम
॥८८॥
Page #181
--------------------------------------------------------------------------
________________
佘* * 螈 本菲 众 贵产-** 本产
' संवर्द्धिनी ' वृद्धिकारिणी ' गुणान्तरस्य ' स्वपरेषां गुणविशेषस्य, निदर्शनं ' दृष्टान्तभूमिस्तेषु तेष्वाचरणविशेषेषु अन्यैरसामान्याः
'जनानां विशिष्टलोकानां तथाऽत्युदारः - अतितीव्रौदार्यवान् आशयो- मनःपरिणामः, 'असाधारणाः'
शालिभद्रादीनामिव विषया: ' शब्दादयः, 'रहिताः परिहीणाः 'संक्लेशेन ' अत्यन्ताभिष्वङ्गेन, 'अपरोपतापिन: ' परोपरोधविकलाः ' अमङ्गुलावसानाः पथ्यान्नभोगा इव सुन्दरपरिणामाः ॥ ११ ॥ तथा - काले धर्मप्रतिपत्तिरिति ॥ १२ ॥ ( ४५५ )
'काले' विषयवैमुख्यलाभावसरलक्षणे 'धर्मप्रतिपत्तिः ' सर्वसावद्यव्यापारपरिहाररूपा ॥१२॥ तत्र च - गुरुसहाय संपदिति ॥ १३ ॥ (४५६ )
गुर्वी - सर्व दोषविकलत्वेन महती सहायानां गुरुगच्छादीनां संपत्-संपत्तिः ॥ १३ ॥
ततश्व - साधु संयमानुष्ठानमिति ॥ १४ ॥ (४५७ )
'साधु' सर्वातिचारपरिहारतः शुद्धं संयमस्य - प्राणातिपातादिपापस्थान विरमण रूपस्य अनुष्ठानं करणम् ॥१४॥ ततोऽपि परिशुद्धाराधनेति ॥ १५ ॥ (४५८ )
परिशुद्धा - निर्मलीमसा आराधना - जीवितान्त संलेखनालक्षणा ॥ १५ ॥
6
तत्र च - वधिवच्छरीरत्याग इति ॥ १६ ॥ ( ४५९ )
शास्त्रीय विधिप्रधानं यथा भवति एवं कलेवरपरिमोक्षः ॥ १६ ॥
安* 6 *本* 众费费一
Page #182
--------------------------------------------------------------------------
________________
धर्मविन्दु सप्तमो
ऽध्यायः
॥८९॥
艾特费费费费费 安立
ततो- विशिष्टतरं देवस्थानमिति ॥ १७ ॥ (४६० ) विशिष्टतरं - प्राग् लब्धदेवस्थानापेक्षया सुन्दरतरं स्थानं विमान | वासलक्षणमस्य स्यात् ॥१७॥ ततः - सर्वमेव शुभतरं तत्रेति ॥ १८ ॥ (४६१ )
' सर्वमेव ' रूपसंपदादि ' शुभतरं ' प्राच्यापेक्षयाऽतीव शुभं तत्र स्थाने ॥ १८ ॥ परं - गतिशरीरादिहीनमिति ॥ १९ ॥ (४६२ )
गतिः- देशान्तर संचाररूपा शरीरं - देहः आदिशब्दात् परिवारमवीचारादिपरिग्रहस्तैर्हीनं- तुच्छं स्यात् उत्तरोत्तरदेवस्थानेषु पूर्वपूर्वदेवस्थानेभ्यो गत्यादीनां हीनतया शास्त्रेषु प्रतिपादनात् ॥ १९ ॥ तथा-रहितमौत्सुक्यदुःखेनेति ॥ २० ॥ (४६३ )
रहितं त्यक्तं चित्तवाक्कायत्वरारूपव्याबाधया || २० || पुनरपि कीदृगित्याहअतिविशिष्टाल्हादादिमदिति ॥ २१ ॥ ( ४६४ )
अतिविशिष्टा अत्युत्कर्षभाजो ये आह्रादादय - आह्लादकुशलानुबन्धमहाकल्याणपूजा करणादयः सृकृतविशेषाः तद्युक्तम् ॥ ततः - तच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेणेति ॥ २२ ॥ (४६५ ) सुगममेवा नवरं ' पूर्वेणे 'ति पूर्वग्रन्थेन, स च 'विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले ' ( ४५२ ) इत्यादिरूप इति ॥ २२ ॥ विशेषमाह
*****40*50*409)-2016)
फलमू
॥८९॥
Page #183
--------------------------------------------------------------------------
________________
विशिष्टतरं तु सर्वमिति ॥ २३ ॥ (४६६) प्रागुक्तादतिविशिष्टं पुनः सर्व अत्यन्त निरवद्यं जन्म (४५२ ) सुन्दररूपादि ( ४५३ ) ॥२३॥ कुन एतदित्याह
क्लिष्टकर्मविगमादिति ॥ २४ ॥ ( ४६७) दौर्गत्यदौर्भाग्यदुष्कुलत्वादिपर्यायवेद्यकर्मविरहात ॥२४॥ अयमपि
शुभतरोदयादिति ॥ २५॥ (४६८) शुभतराणाम्-अतिप्रशस्तानां कर्मणां परिपाकात् ॥ २६ ॥ असावपि
जीववीर्योल्लासादिति ॥ २६ ॥ (४६९) जीववीर्यस्य-परिशुद्धसामर्थ्यलक्षणस्य उल्लासाद्-उद्रेकात् ॥ २६ ॥ एषोऽपि
परिणतिवृद्धेरिति ॥ २७॥ ४७०) परिणते:-तस्य तस्य शुभाध्यवसायस्य वृद्धः-उत्कर्षात् ॥ २७ ॥ इयमपि
तत्तथास्वभावत्वादिति ॥२८॥ (४७१) तस्य-जीवस्य तथास्वभावत्वात्-परिणतिवृद्धिस्वरूपत्वात् , परिपक्के हि भव्यत्वे प्रतिक्षणं वर्द्धन्त एव जीवानां शुभतराः परिणतय इति ॥२८॥
किंच-प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासङ्गिकत्वादभिङ्गाभावात् कुत्सि
Page #184
--------------------------------------------------------------------------
________________
धर्मफलम्
धर्मबिन्दु सप्तमो
ऽध्यायः
॥२०॥
ताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेनेति ॥ २९॥ (४७२)
प्रभूतानि-प्रचुराणि उदाराणि-उदग्राणि, किं पुनरन्यथारूपाणीत्यपिशब्दार्थः, 'तस्य' पूर्वोक्तजीवस्य "भोगसाधनानि' पुरपरिवारान्तःपुरादीनि, उदारसुखसाधनान्येवेत्युत्तरेण योगः, कुत इत्याह-अयत्नोपनतत्वात् ' अयत्नेनअत्युद्भटपुण्यमकर्पोदयपरिपाकाक्षिप्तखात् तथाविधपुरुषकाराभावेनोपनतत्वाद्-दौकित्वात् , तदपि कुत इत्याह-'प्रासङ्गिकत्वात् ' कृषिकरणे पलालस्येव प्रसगोत्पन्नत्वात् , एतदपि अभिष्वाभावात् , भरतादीनाभित्र निविडगृद्धयभावात् , अयमपि 'कुत्सिताप्रवृत्तेः' कुत्सितेषु-नीतिमार्गोत्तीर्णषु भोगसाधनेष्वप्रवृत्तेः, इयमपि शुभानुबन्धित्वात् ' मोक्षप्राप्तिनिमित्तार्यदेशदृढसंहननादिकुशलकार्यानुबन्धविधायित्वात् , किमित्याह- उदारसुखसाधनान्येव' उदारस्य--अन्यातिशायिनः सुखस्यैव-शरीरचित्ताहादरूपस्य साधनानि-जनकानि, न विहलोकपरलोकयोरपि दुःखस्येति, अत्रैव तात्त्विकं हेतुमाह-बन्धहेतुत्वाभावेन' बन्धस्य-कुगतिपातहेतोरशुभकर्मप्रकृतिलक्षणस्य हेतुत्वं-हेतुभावः प्रक्रान्तभोगसाधनानामेव तस्याभावेन, इदमुक्तं भवति-प्रभूतोदाराण्यपि भोगसाधनानि बन्धहेतुत्वाभावादुदारसुखसाधनान्येव तस्य भवन्ति, बन्धहेतुत्वाभावश्चायत्नोपनतत्वादिकादुत्तरोत्तरहेतुबीजभूताद्धेतु पञ्चकादिति ॥२९॥ बन्धहेतुत्वाभावमेव विशेषतो भावयन्नाह
अशुभपरिणाम एव हि प्रधानं बन्धकारणं, तदङ्गतया तु बाह्यमिति ॥३०॥ (४७३) अशुभपरिणाम एव 'हिः' यस्मात् 'प्रधानं ' मुख्यं 'बन्धारण' नरकादिफलपापकर्मबन्धननिमित्तं न वन्यकिंचित् , 'तदङ्गतया तु' अशुभपरिणामकारणतया पुनर्वाह्यम्-अन्तःपुरपुरादिबन्धकारणमिति ॥३०॥ कुत इत्याह
॥९
॥
Page #185
--------------------------------------------------------------------------
________________
तभावे बाह्यादल्पबन्धभावादिति ॥ ३१ (४७४) 'तभावे' अशुभपरिणामाभावे बाह्यात्--जीवहिंसादेः 'अल्पबन्धभावात् ' तुच्छबन्धोत्पत्तेः॥ ३१ ॥ एतदपि कथमित्याह
वचनप्रामाण्यादिति ॥ ३२ ॥ (४७५) वचनस्य-आगमस्य 'प्रामाण्यात् ' प्रमाणभावात् ॥३२॥ एतदेव भावयन्नाह
बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेरिति ॥ ३३॥ (४७६) बाह्यः-शरीरमात्रजन्यः स चासावुपमर्दश्च-बहुतमजीवोपघातरूपः तत्रापि, किं पुनस्तदभावे इत्यपिशब्दार्थः, 'असं-18 ज्ञिषु ' संमूछजमहामत्स्यादिषु 'तथा' अल्पता बन्धस्य 'श्रुतेः''अस्सन्नी खलु पढम' इत्यादेवचनस्य सिद्धान्ते समाकर्णनात्, तथाहि-असंज्ञिनो महामत्स्यादयो योजनसहस्रादिप्रमाणशरीराः स्वयंभूरमणमहासमुद्रमनवरतमालोडयमानाः पूर्वकोटयादिजीविनोऽनेकसत्त्वसंघातसंहारकारिणोऽपि रत्नप्रभापृथिव्यामेव उत्कर्षतः पल्योपमासंख्येयभागजीविषु चतुर्थप्रतरवर्तिनारकेषु जन्म लभन्ते न परतः, तन्दुलमत्स्यस्तु बाह्योपमर्दाभावेऽपि निनिमित्तमेवापूरितातितीव्ररौद्रध्यानोऽन्तर्मुहर्तमायुरनुपाल्य सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारक उत्पद्यते इति परिणाम एव प्रधान बन्धकारणमिति सिद्धं भवतीति ॥ ३३ ॥ एवं सति यदन्यदपि सिद्धिमास्कन्दति तदर्शयति
एवं परिणाम एव शुभो मोक्षकारणमपीति ॥३४॥ (४७७)
Page #186
--------------------------------------------------------------------------
________________
परिणा
JA41
धर्मविन्दु सापेक्षय- ति धर्मा ध्यायः७|
लामस्य गु
T
॥९
॥
'एवं ' यथा अशुभबन्धने तथा परिणाम एव 'शुभः सम्यग्दर्शनादिः 'मोक्षकारणमपि' मुक्तिहेतुरपि, किं पुनर्बन्धस्येत्यपिशब्दार्थः॥ ३३ ॥ कुत इत्याह
तभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेरिति ॥ ३५ ॥ (४७८) __तस्य-शुभपरिणामस्याभावे 'समग्रक्रियायोगेऽपि' परिपूर्णश्रामण्योचितबाह्यानुष्ठानकलापसंभवेऽपि, किं पुनस्तदभावे इत्यपिशब्दार्थः, 'मोक्षासिडे' निर्वाणानिष्पत्तेरिति ॥३५॥ एतदपि कुन इत्याइ
सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणादिति ॥ ३६ ॥ (४७९) 'सर्व जीवानामेव ' सर्वेषामपि व्यवहारार्हाणां प्राणिनाम् 'अनन्तशः' अनन्तान् वारान् ग्रैवेयके-विमानविशेषेषूपपातस्य-उत्पत्तेः श्रवणात्-शास्त्रे समाकर्णनात् ।। ३६॥ यदि नामैवं ततः किं सिद्धमित्याह
समग्रक्रियाऽभावे तदनवातेरिति ॥ ३७॥ (४८०) 'समग्रक्रियाऽभावे' परिपूर्णश्रामण्यानुष्ठानाभावे 'तदनवाप्तेः' नवमौवेयको पाताप्राप्तः, तथा चावाचि-"आणोहेणाणता मुक्का गेवेजगेसु य सरीरा । न य तत्थाऽसंपुण्णाए साहुकिरियाइ उववाउत्ति ॥ २१३ ॥" (पश्चा-६९२) [ओघेन ग्रैवेयकेषु च शरीराण्यनन्तानि मुक्तानीत्याज्ञा । नच तत्रासंपूर्णायां साधुक्रियायामुपपातः॥१॥]॥३७॥ उपसंहरन्नाह
इत्यप्रमादसुखवृद्ध्या तत्काष्टासिहौ निर्वाणावाप्तिरितीति ॥३८॥ (४८१) 'इति' एवमुक्तनीत्याऽप्रमादसुखस्य-अप्रमत्ततालक्षणस्य वृद्धया-उत्कर्षेण तस्य-चारित्रधर्मस्य काष्ठासिद्धौ
॥११॥
Page #187
--------------------------------------------------------------------------
________________
प्रकर्षनिष्पत्तौ शैलेश्यवस्थालक्षणायां निर्वाणस्य-सकलक्लेशलेशविनिर्मुक्त वस्वरूपलाभलक्षणस्यावाप्तिः-लाभ 'इति' परिसमाप्ताविति ॥ ४१॥
यत्किंचन शुभं लोके, स्थानं तत्सर्वमेव हि । अनुबन्धगुणोपेतं, धर्मादाप्नोति मानवः॥४०॥ इति ।
'यत्किञ्चन' सर्वमेवेत्यर्थः 'शुभं' सुन्दरं 'लोके' त्रिजगल्लक्षणे 'स्थानं शकाद्यवस्थावभावं तत्सर्वमेव 'हि" स्फुटं, कीदृशमित्याह-'अनुबन्धगुणोपेतं' जात्यस्वर्णघटितघटादिवत् उत्तरोत्तरानुबन्धसमन्वितं 'धर्माद् । उक्तनिरुक्ताद् 'आमोति ' लभते 'मानवः' पुमान् , मानवग्रहणं च तस्यैव परिपूर्णधर्मसाधनसहत्वादिति ॥१॥ तथा-धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम् ।हित एकान्ततो धर्मों, धर्म एवामृतं परम् ॥४१॥ इति
एतन्निगदसिद्धमेव, परं यत्पुनः पुनर्धर्मशब्दोपादानं तद्धर्मस्यात्यन्तादरणीयताख्यापनार्थमिति ॥२॥ तथा-चतुर्दशमहारत्नसद्भोगान्तृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं, धर्महेलाविजृम्भितम् ॥ ४२ ॥
चतुर्दशानां महारत्नानां-सेनापति-गृहपति-पुरोहित-गज-तुरग-वर्द्धकि-खो-चक्र-छत्र-चर्म-मणि-काकिणी-| खड्ग-दण्ड-लक्षणानां 'सद्भोगात्' परानपेक्षितया सुन्दरभोगात 'नृषु' नरेषु मध्ये 'अनुत्तमं सर्वप्रधान, कि तदित्याह-'चक्रवर्तिपदं ' चक्रधरपदवी 'प्रोक्तं' प्रतिपादित सिद्धान्ते 'धर्महेलाविजृम्भितं' धर्मलीलाविलसितमिति ॥३॥ इति श्रीमुनिचन्द्रमूरिविरचितायां धर्मबिन्दुवृत्तौ धर्मफलविधिः सप्तमोऽध्यायः व्याख्यातः
Page #188
--------------------------------------------------------------------------
________________
धर्मबिन्दु
अथ अष्टमः अध्यायः।
अष्टमाध्यायः
वण
॥१२॥
अधुनाऽटम आरभ्यते, तस्य चेदमादिसूत्रम्किं चेह बहुनोक्तेन, तीर्थकृत्त्वं जगडितम् । परिशुद्धाद्वाप्नोति, धर्माभ्यासान्नरोत्तमः॥ ४३ ॥ इति।
'किंचे 'त्यभ्युच्चये, ' इह ' धर्मफलचिन्तायां 'बहुना' प्रचुरेणोक्तेन धर्मफलेन ?, यतः- तीर्थकृत्वं ' तीर्थकरपदलक्षणं 'जगद्वितं' जगज्जन्तुजात हिताधानकर 'परिशुद्धाद्' अमलीमसाद् 'अवाप्नोति' लभते धर्माभ्यासात् प्रतीतरूपात् 'नरोत्तमः' स्वभावत एव सामान्यापरपुरुषप्रधानः, तथाहि-तीर्थङ्करपदयोग्यजन्तूनां सामान्यतोऽपि लक्षणमिदं शाउषघुष्यते-यथा 'एते आकालं परार्थव्यसनिनः उपसर्जनीकृतस्वार्थाः उचितक्रियावन्तः अदीनभावाः सफलारम्भिण: अदृष्टानुशयाः कृतज्ञतापतयः अनुपातचित्ताः देवगुरुबह मानिनः तथा गम्भीराशया' इति (ललित०)॥१॥ ननु यदि तीर्थकृत्त्वं धर्मादेवामोति तथापि कथं तदेव प्रकृष्टं धर्मफलमितिज्ञातुं शक्यमित्याहनातः परं जगत्यस्मिन् , विद्यते स्थानमुत्तमम् । तीर्थकृत्वं यथा सम्यक्, स्वपरार्थप्रसाधकम् ॥४४॥ इति ॥
'न' नैव 'अतः' तीर्थकृत्वात् 'परम् ' अन्यत् 'जगत्यस्मिन् ' उपलभ्यमाने चराचरस्वभावे 'विद्यते' समस्ति 'स्थानं ' पदम् ' उत्तमं' प्रकृष्ट तीर्थकृत्वम् ' उक्तरूपं 'यथा' येन प्रकारेण 'सम्यग् ' यथावत् 'स्वपरार्थसाधकं' स्वपरप्रयोजननिष्पादकम् ॥ २॥ एतदेव भावयति
९२॥
Page #189
--------------------------------------------------------------------------
________________
部合那个令全系本字参那个五
पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्धिथा, परं निर्वाणकारणम् ॥ ४५ ॥
पञ्चस्वपि, न पुरनरेकस्मिन्नेव क्वचित् , 'महाकल्याणेषु' गर्भाधानजन्मदिनादिषु ' त्रैलोक्यशङ्करं' जगत्त्रयमुखकारि, तीर्थकृत्त्वमित्यनुवर्तते, इत्थं परार्थसाधकत्वमुक्त्वा स्वार्थसाधकत्वमाह-'तथैव ' त्रैलोक्यसुखकरणप्रकारेण 'स्वार्थसंसिद्धया' क्षायिकसम्यग्दर्शनज्ञानचारित्रनिष्पच्या 'परं' प्रधानं 'निर्वाणकारणं' मुक्तिहेतुरिति ॥ ३ ॥
इत्युक्तप्रायं धर्मफलम्, इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्याम इति॥१॥ (४८२) सुगममेव, परं तच्छेष 'मिति धर्मफलशेषम् ॥१॥ एतदेव दर्शयतितच [सुख परम्परया प्रकृष्टभावशुद्धेः सामान्य चरमजन्म तथा तीर्थकृत्त्वं चेति ॥२॥ (४८३)
'तच ' तत्पुनर्धर्मफलशेषमुदग्रं 'परम्परया' उत्तरोत्तरक्रमेण प्रकृष्टभावशुद्धः सकाशात् , किमित्याह-'सामान्य' तीर्थकरातीर्थकरयोः समान 'चरमजन्म' अपश्चिमदेहलाभलक्षणं, 'तथे 'ति पक्षान्तरोपक्षेपे ' तीर्थकृत्वं' तीर्थकरभावलक्षण, चः समुच्चये ॥२॥
तत्राक्लिष्टमनुत्तरं विषयसौख्यं, हीनभावविगमः, उदग्रतरा सम्पत्, प्रभूतोपकारकरणं, आशयविशुद्धिः, धर्मप्रधानता, अवन्ध्यक्रियात्वमिति ॥३॥ (४८४) ___तत्र' सामान्यतश्चरमजन्मनि 'अक्लिष्ट' परिणामसुन्दरम् 'अनुत्तरं' शेषभोगसौख्येभ्यः प्रधानं 'विषयसौख्य' शब्दादिसेवालक्षणं १ 'हीनभावविगमः' जातिकुलविभववयोऽवस्थादिन्यूनतारूपहीनत्वविरहः २ 'उदग्रतरा' प्राग्भ
Page #190
--------------------------------------------------------------------------
________________
धर्मबिन्दु
वेभ्योऽत्यन्तोच्चा 'सम्पत' द्विपदचतुष्पदादिसमृद्धिः ३ तस्यां च प्रभूतस्य- अतिभूयिष्ठस्योपकारस्य स्वपरगतस्य करणंअष्टमा- विधानं ४ अत एव आशयस्य - चित्तस्य विशुद्धिः - अमालिन्यरूपा ५ ' धर्मप्रधानता' धर्मैकसारत्वं ६ अविनिपुणविवेकवशोपलब्धयथावस्थित समस्तवस्तुतच्चतया अवन्ध्या- अनिष्फला क्रिया-धर्मार्थाद्याराधनरूपा यस्य तद्भावस्तत्रम् ७ ॥३॥ तथा - विशुद्धयमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयर्द्धिप्राप्तिरिति ॥ ४ ॥ (४८५ )
विशुद्धयमानस्य संक्लिश्यमानविलक्षणतया अप्रतिपातिनः कदाचिदप्यभ्रंशभाजः चरणस्य चारित्रस्य अवाप्ति:लाभः ८, ततश्च तेन - विशुद्धयमानाप्रतिपातिना चरणेन सात्म्यं - समानात्मता तत्सात्म्यं तेन सदैकीभाव इत्यर्थः, तेन भावो भवनं - परिणतिरिति ९ ' भव्यप्रमोदहेतुता' भव्यजनसंतोपकारित्वं १० ' ध्यानमुखयोगः ' ध्यानमुखस्य - अशेषमुखातिशायिनः चित्तनिरोधलक्षणस्य योगः ११ 'अतिशयर्द्धिप्राप्तिः ' अतिशयद्धैः - आमर्षौषध्यादिरूपायाः प्राप्तिः १२ ॥ ततश्च कालेन
ध्यायः
॥९३॥
-*-*
अपूर्वकरणं, क्षपकश्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभ इति ॥ ५ ॥ (४८६ ) अपूर्वाणां स्थितिघात रसघात गुणश्रेणिगुणसंक्रमापूर्वस्थितिबन्धलक्षणानां पञ्चानामर्थानां प्राच्यगुणस्थानेष्वप्राप्तानां करणं यत्र तदपूर्वकरणम् - अष्टमगुणस्थानकं १३ ततश्च क्षपकस्य - घातिकर्मप्रकृतिक्षयकारिणो यतेः श्रेणिः - मोहनीयादिप्रकृतिक्षयक्रमरूपा संपवते, क्षपकश्रेणिक्रमथायं-इह परिपक्क सम्यग्दर्शनादिगुणो जो वरमभववर्त्ती अविरतदेश विरतप्रमत्ताप्रमत्तसंय
(8)*469) 40009061**%*46)*40****
नोर्थकृत्व
वर्णनम्
118,311
Page #191
--------------------------------------------------------------------------
________________
क) क) को को को * #
तान्यतरगुणस्थानकस्थः प्रवृद्धतीत्रशुद्धध्यानाधीनमानसः क्षपक श्रेणिमारुरुक्षुरपूर्वगुणस्थानकमवाप्य प्रथमतः चतुरोऽनन्तानुबन्धनः क्रोधादीन् युगपत् क्षपयितुमारभते, ततः सावशेषेष्वेतेषु मिध्यात्वं क्षपयितुमुपक्रमते, ततस्तदवशेषे मिथ्यात्वे च क्षीणे सम्यग्मिथ्यात्वं सम्यक्त्वं च क्रमेणोच्छिनत्ति, तदनन्तरमेवाबद्धायुष्कोऽनिवृत्तिकरणं नाम सकलमोहापोहैकसह नवमगुणस्थानकमध्यारोहति, तत्र च तथैव प्रतिक्षणं विशुद्धयमानः कियत्स्वपि संख्यातेषु भागेषु गतेष्वष्टौ कषायान् - अप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्ञितान् क्रोधादीनेव क्षपयितुमारभते, क्षीयमाणेषु च तेष्वेताः षोडश प्रकृतीरध्यवसायविशेषात् निद्रानिद्रा ? प्रचलाप्रचलार स्त्यानर्द्धि ३ नरकगति४ नरकानुपूर्वी५ तिर्यग्गति६ तिर्यगानुपूर्वी ७ एकेन्द्रिय८ द्वोन्द्रिय९त्रीन्द्रिय १० चतुरिन्द्रियजातिनाम ११ आतपनाम १२ उद्योतनाम १३ साधारणनाम १४ स्थावरनाम १५ सूक्ष्मनाम १६लक्षणाः क्षपयति, ततोsटकषायावशेषक्षये यदि पुरुषः प्रतिपत्ता ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुनः पुरुषवेदं क्षपयति, यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितश्वेदद्वयं च यथाजघन्यप्रथमतया क्षपयति, ततः क्रमेण क्रोधादीन संज्वलनान् त्रीन्, अतः बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मं सर्वथा विनिवृत्तसकलमोहविकारां क्षीणमोहगुणस्थानावस्थां संश्रयते, तत्र च समुद्रप्रतरणश्रान्तपुरुषवत् संग्रामाङ्गण विनिर्गत पुरुषवद्वा मोहनिग्रह - निलनिबद्धाध्यवसायतया परिश्रान्तः सन्नन्तर्मुहूर्त्त विश्रम्य तद्गुणस्थानकद्विचरमसमये निद्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणावशिष्टं प्रकृतिचतुष्कं च युगपदेव क्षपयति । बद्धायुः पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे क्षपकश्रेणि समर्थयत इति । यश्चात्रापूर्वकरणोपन्यासानन्तरं क्षपक श्रे गेरुपन्यासः स सैद्धान्तिक -
30 30 4616) ) (646) 44
Page #192
--------------------------------------------------------------------------
________________
अष्टमाध्यायः ॥९॥
रातीर्थ
पक्षापेक्षया, यतो दर्शनमोहसप्तकस्यापूर्वकरणस्थ एव क्षयं करोतीति तन्मतं, न तु यथा कार्मग्रन्थिकाभिप्रायेण अविरतसम्य
धर्मस्य ग्दृष्टयाद्यन्यतरगुणस्थानकचतुष्टयस्थ इति १४ । ततो 'मोहसागरोत्तारः' मोहो-मिथ्यात्वमोहादिः स एव सागरः-स्वयं
तीर्थकभरमणादिपारावारः मोहसागरः तस्मादुत्तारः-परपारमाप्तिः १५, ततः केवलाभिव्यक्ति' केवलस्य-केवलज्ञानकेवलदर्श
करसानलक्षणस्य जीवगुणस्य ज्ञानावरणादिघातिकर्मोपरताव भिव्यक्तिः-आविर्भावः १६, ततः 'परमसुखलाभः' परमस्य-प्र
धारणकृष्टस्य देवादिसुखातिशायिनः सुखस्य लाभ:-प्राप्तिः, उक्तं च-" यच्च कामसुख लोके, यच्च दिव्यं महासुखम् । वीतरागसु- फलम् खस्येदमनंतांशे न वर्तते ॥ २१४ ॥” इति १७ ॥ ५॥ अत्रैव हेतुमाह
सदारोग्याप्तेरिति ॥६॥ (४८७) सदारोग्यस्य-भावारोग्यरूपस्य आहे:-लाभात ॥ ६ ॥ इयमपि कुत इत्याह
भावसंनिपातक्षयादिति ॥७॥ (४८८) भावसं निपातस्य-पारमार्थिकरोगविशेषस्य क्षयाद्-उच्छेदात् ॥ ७॥ संनिपातमेव व्याचष्टेरागद्वेषमोहा हि दोषाः, तथा तथाऽऽत्मदूषणादिति ॥ ८॥ (४८९)
'रागद्वेषमोहा' वक्ष्यमाणलक्षणाः 'हिः' स्फुटं 'दोषा' भावसंनिपातरूपाः, अत्र हेतुमाह-' तथा तथा' तेन | तेन प्रकारेण-अभिष्वङ्गकरणादिना आत्मनो-जीवस्य दूषणाद्--विकारप्रापणात् ॥ ८॥' तत्त्वभेदपर्यायाख्ये 'ति न्याया-10 द्रागादीनेव तत्त्वत आह
॥९४||
Page #193
--------------------------------------------------------------------------
________________
अविषयेऽभिष्वङ्गकर गाद्राग इति ॥९॥ (४९०) 'अविषये प्रकृतिविशरारुतया मतिमतामभिष्वङ्गानहें स्त्र्यादौ वस्तुनि 'अभिष्वद्गकरणाद्' चित्तप्रतिबन्धसंपावनात् , किमित्याह-रागो दोषः ॥९॥
तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेष इति ॥ १०॥ (४९१) 'तत्रैव' कचिदर्थेऽभिष्वङ्गे सति अग्निज्वालाकल्पस्य सम्यक्त्वादिगुणसर्वस्वदाहकतया मात्सर्यस्य-परसम्पत्त्यसहिष्णुभावलक्षणस्य आपादनाद्-विधानात् द्वेषो दोषः ॥१०॥
हेयेतरभावाधिगमप्रतिबन्धविधानान्मोह इति ॥ ११॥ (४९२) इह निश्चयनयेन हेयानां-मिथ्यात्वादीनामितरेषां च-उपादेयानां-सम्यग्दर्शनादीनां भावानां व्यवहारतस्तु विषक| ण्टकादीनां स्रक्चन्दनादीनां च अधिगमस्य-अवबोधस्य प्रतिबन्धविधानात्-स्खलनकरणात् मोहो दोषः ॥११॥ अथैतेषां भावसनिपातत्वं समर्थयन्नाह
सत्स्वेतेषु न यथावस्थितं सुखं, स्वधातुवैषम्यादिति ॥ १२ ॥ (४९३) सत्स्वेतेषु-रागादिषु 'न' नैव 'यथावस्थितं' पारमार्थिकं सुखं जीवस्य, अत्र हेतु:-' स्वधातुवैषम्यात् ' दधति-धारयन्ति जीवस्वरूपमिति धातवः-सम्यगदर्शनादयो गुणाः स्वस्य-आत्मनो धातवः २ तेषां वैषम्यं यथावस्थित वस्तुस्वरूपपरिहारेणान्यथारूपतया भवनं तस्मात् , यथा हि वातादिदोषोपघाताहातुषु रसामृगादिषु वैषम्यापन्नेषु न देहिनो
Page #194
--------------------------------------------------------------------------
________________
धर्मबिन्दु अष्टमाध्याय:
॥९
॥
यथावस्थितं कामभोग मनःसमाधिनं वा शर्म किश्चन लभन्ते तथा अमी संसारिणः सवाः रागादिदोषवचात् सम्यग्दर्शनादिषु मलीमसरूपतां प्राप्तेषु न रागद्वेषमोहोपशमनं शर्म समासादयन्तीति ॥१२॥ अमुमेवार्थ व्यतिरेकत आह
क्षीणेषु न दुःखं, निमित्ताभावादिति ॥ १३ ॥ (४९४) क्षीणेषु रागादिषु न दुःखं भावसंनिपात समुत्पद्यते, कुन इति चेदुच्यते-निमित्ताभावात्--निबन्धननिवरहादिति ॥१३॥ तर्हि किं स्यादित्याह
आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इतीति ॥१४॥ (४९५)
आत्यन्तिकः-पुनर्भावाभावेन भावरोगाणां-रागादीनां यो विगमः-समुच्छेदः तस्मात् या परमेश्वरतायाः-शकचक्राधिपा. द्यैश्वर्यातिशायिन्याः केवलज्ञानादिलक्षणाया आप्तिः-प्राप्तिः तस्याः, परमसुखभाव इत्युत्तरेण योगा, कुत इत्याह-'तत्तथास्वभावत्वात् ' तस्य-परमसुखलाभस्य 'तथास्वभावत्वात् ' परमेश्वरतारूपत्वात् , परमसुखभावः संपद्यते, इतिः वाक्यपरिसमाप्ताविति ॥१४॥ इत्थं तीर्थकरातीर्थकरयोः सामान्यमनुत्तरं धर्मफलमभिधाय साम्पतं तीर्थकृत्वलक्षणं तदभिधातुमाह
देवेन्द्रहर्षजननमिति ॥ १५॥ (४९६) । देवेन्द्राणां-चमरशक्रादीनां हर्षस्य-संतोषस्य जननं-संपादन मिति ॥ १५॥
तथा-पूजानुग्रहाङ्गतेति ॥ १६॥ (४९७) पूजया-जन्मकालादारभ्याऽऽनिर्वाणप्राप्तेस्तचन्निमित्तेन निष्पादितया अमरगिरिशिखरमज्जनादिरूपया योऽनुग्रहो
॥२५॥
Page #195
--------------------------------------------------------------------------
________________
निर्वाणवीजलाभभूतो जगत्त्रयस्याप्युपकारः तस्याङ्गता-कारणभावः, भगवतो हि प्रतीत्य तत्तन्निबन्धनाया भक्तिभरनिर्भरामरप्रभुप्रभृतिप्रभूतसत्त्वसंपादितायाः पूजायाः सकाशात् भूयसां भव्यानां मोक्षानुगुणो महानुपकारः संपद्यते इति । १६ ॥
तथा-प्रातिहार्योपयोग इति ॥ १७॥ (४९८) प्रतिहारकर्म मातिहार्य, तच्च अशोकक्षादि, यदवाचि--" अशोकवृक्षः सुरपुष्पवृष्टिदिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं, सत्याविहार्याणि- जिनेश्वराणाम् ॥ २१५ ॥” तस्योपयोगः-उपजीवन मिति ॥ १७॥
ततः-परं परार्थकरणमिति ॥ १८ । (४९९) 'परं' प्रकृष्टं परार्थस्य-परप्रजोजनस्य सर्वसत्वस्वभाषापरिणामिन्या पीयूषपानसमधिकानन्ददायिन्या सर्वतोऽपि योजनमानमूमिभागयायिन्या वाण्या अन्यैश्च तेस्तैश्चित्रैरुपायैः करणं-निष्पादनमिति ॥१८॥ एतदेव 'अविच्छेदेन' इत्यादिना 'इति परं परार्थकरण' एतदन्तेन सूत्रकदम्बकेन स्फुटीकुर्वन्नाह
अविच्छेदेन भूयसां मोहोन्धकारापनयनं हृद्यर्वचनभानुभिरिति ॥ १९॥ (५००)
अविच्छेदेन-यावज्जीवमपि भूयसाम्-अनेकलक्षकोटिप्रमाणानां भव्यजन्तूनां मोहान्धकारस्य-अज्ञानान्धतमसस्यापनयनम्-अपसारः हृद्यैः-हृदयङ्गमैः 'वचनभानुभिः' वाक्यकिरणैः॥१९॥ मोहान्धकारे चापनीते यत् स्यात् माणिनां तदाह
सूक्ष्मभावप्रतिपत्तिरिति ॥२०॥ (५०१) सूक्ष्माणाम्-अनिपुणबुद्धिभिरगम्यानां भावानां-जीवादीनां प्रतिपत्तिः-अवबोधः ॥२०॥
Page #196
--------------------------------------------------------------------------
________________ जिनव धर्मबिन्दु अष्टमाध्यायः // 16 // ततः-श्रद्धामृतास्वादनमिति // 21 // (502) सूक्ष्मभावेष्वेव या श्रद्धा-रुचिः सैवामृत-त्रिदशभोजनं तस्यास्वादनं हृदयजिव्हया समुपजीवनमिति // 21 // ततः-सदनुष्ठानयोग इति // 22 // (503) सदनुष्ठानस्य-साधुगृहस्थधर्माभ्यासरूपस्य योगा-सम्बन्धः // तत:-परमापायहानिरिति // 23 // (504) 'परमा' प्रकृष्टा 'अपायहोनिः' नरकादिकुगतिप्रवेशलभ्यानर्थसार्थोच्छेदः // 23 // ततोऽपि उपक्रियमाणभव्यपाणिनां यत् स्यात् तदाह सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवयकारणं निवृतेरिति // 24 // 505) सानुबन्धसुखभावः 'उत्तरोत्तरः' उत्तरेषु-प्रधानेषत्तर:-प्रधानः प्रकामः-प्रौढः प्रभूत:-अतिबहुः यः सत्त्वोपकार: तस्मै संपद्यते, स च 'अवन्ध्यकारणं' अवन्थ्यो हेतुः निर्वतेः-निर्वाणस्य // 24 // निगमयन्नाह ___ इति परं परार्थकरणमिति // 25 // (506) 'इति' एवं यथा मागुक्तं परं परार्थकरणं तस्य भगवत इति // 26 // साम्प्रतं पुनरप्युभयोःसाधारणं धर्मफलमाह भवोपग्राहिकर्मविगम इति / / 26 // (507) परिपालितपूर्वकोट्यादिप्रमाणसयोगकंवलिपर्याययोरन्ते भवोपग्राहिकर्मणां-वेदनीयायुर्नामगोत्ररूपाणां विगमो-नाशो // 16 //