________________
श्रावक
श्राद्धधमध्यिा
व्रताति
चाराः
यः३
॥४०॥
तृतीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्याः समवसेयः, ब्रह्मचारिणस्त्वतिक्रमादिनाऽतिचार इति ॥२६॥ अथ पञ्चमाणुव्रतस्य
क्षेत्रवास्तु १ हिरण्यसुवर्ण २ धनधान्य ३ दासीदास ४ कुप्यप्रमाणातिकमा ५ इति ॥२७॥ (१६०)
क्षेत्रवास्तुनोः१ हिरण्यसुवर्णयोः २ धनधान्ययोः३ दासीदासयोः ४ कुप्यस्य ५ च प्रमाणातिक्रमा इति समासा, तत्र क्षेत्रं-सस्योत्पत्तिभूमिः, तच्च सेतुकेतूभयभेदात् त्रिविधं, तत्र सेतुक्षेत्र-अरघट्टादिसेवयं केतुक्षेत्रं तु आकाशोदकनिष्पाद्यं उभयक्षेत्रंतु तदुभयनिष्पाद्यं, वास्तु पुनरगारं ग्रामनगरादि च, तत्रागारं त्रिविध-खातमुच्छ्रितं खातोच्छ्रितं च, तत्र खातं-भूमिगृहादि उच्छ्रितंउच्छ्येण कृतं उभयं-भूमिगृहस्योपरि प्रासादः, एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य क्षेत्रान्तरादिमीलनेन अतिक्रमोऽतिचारो भवति, तथाहि-किलैकमेव क्षेत्रं वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात्माक्त नक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात्कथश्चिद्विरतिबाधनाचातिचार इति १ तथा हिरण्यरजतं सुवर्ण-हेम एतत्परिमाणस्य अन्यवितरणेनातिक्रमोऽतिचारो भवति, यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिपरिमाण विहितं, तत्र च तेन तुष्टराजादेः सकाशाचदधिकं तल्लब्धं, तच्चान्यस्मै व्रतभङ्गभयात् प्रददाति पूर्णेऽवधौ गृहीष्यामीति भावनयेति व्रतसापेक्षत्वात्कयश्चि द्विरतिबाधनाच्चातिचार इति २ तथा धनं-गणिमरिममेयपरिच्छेद्यभेदाच्चतुर्विधं, तत्र गणिमं पूगफलादि धरिमं गुडादि मेयं घृतादि परिच्छेद्यं माणिक्यादि धान्य-व्रीह्यादि एतत्प्रमाणस्य बन्धनतोऽतिक्रमोऽतिचारो भवति, यथा हि किल कृतधनादिपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति, तच्च व्रतभङ्गभयाचातुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते गृहीष्यामीति भावनया बन्धनेन नियन्त्रणेन रज्ज्वादिसंयमनेन सत्यङ्कारदानादिरूपेण वा स्वीकृत्य तद्रोह