SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ एव स्थापयतीत्यतोऽतिचार:३ तथा दासीदासप्रमाणातिक्रम इति सर्वद्विपदचतुप्पदोपलक्षणमेतत् , तत्र द्विपद-पुत्रकलत्रदासीदासकर्मकरशुकसारिकादि चतुष्पदं-गवोधादि तेषां यत्परिमाणं तस्य गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति, यथा किल केनापि संवत्सराधवधिना द्विपदचतुष्पदानां परिमाणं कृतं तेषां च संवत्सरमध्य एव प्रसवे अधिकद्विपदादिभावाद् व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भग्रहणं कारयतो गर्मस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिद् व्रतभङ्गादतिचारः ४ तथा कुप्यम्-आसनशयनादिगृहोपरकर तस्य यन्मानं तस्य पर्यायान्तरारोपणेनातिक्रमोऽतिचारो भवति, यथा किल केनापि दश करोटकानीति कुप्यस्य परिमाणं कृतं, ततस्तेषां कयश्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात्तेषां द्वयेन द्वयेन एकैकं महत्तरं कारयत: पर्यायान्तरकरणेन संख्यापूरणात्स्वाभाविकसंख्याबाधनाचातिचारः, अन्ये त्वाः-तदर्थत्वेन विवक्षितकालावधेः परतोऽहमेतस्करोटकादि कुप्यं गृहीष्याम्यतो नान्यस्मै देयमिति परामदेयतया व्यवस्थापयत इति । यथाश्रुतत्वेन चैषामभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थ मीलनवितरणादिना भावना दर्शितेति । यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वे नवसंख्यातिचारप्राप्तौ पञ्चसंख्यत्वमुक्तं तत्सजातीयत्वेन शेषभेदानामत्रैवान्तर्भावात् , शिष्यहितत्वेन च प्रायः सर्वत्र मध्यमगते विवक्षितत्वात् पश्चकसंख्ययैवातिचारपरिगणनं, अतः क्षेत्रवास्त्वादिसंख्ययाऽतिचाराणामगणनमुपपन्नमिति ॥ २७ ॥ अथ प्रथमगुणवतस्य अधिस्तिर्यग्व्यतिक्रमक्षेत्रवृडिस्मृत्यन्तर्धानानीति ॥२८॥ (१६१) ऊर्ध्वाधस्तियगृव्यतिक्रमाश्च क्षेत्रवृद्धिश्च स्मृत्यन्तर्धानं चेति समासः, तत्र अधिस्तियक्षेत्रव्यतिक्रमलक्षणास्त्रयोs
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy