SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु श्रावक व्रताति श्राद्धमध्यिायः३ ॥४१॥ चारा तिचाराः, एते च आनयने-विवक्षितक्षेत्रात्परतः स्थितस्य वस्तुनः परहस्तेन स्वक्षेत्रप्रापणे प्रेषणे वा ततः परेण उभये वा आनयनप्रेषणलक्षणे सति संपद्यन्ते, अयं चानयनादावतिक्रमो न कारयामीत्येवं विहितदिग्वतस्यैव संभवति, तदन्यस्य तु आनयनादावनतिक्रम एव, तथाविधप्रत्यारव्यानाभावादिति १-२-३ तथा क्षेत्रस्य पूर्वादिदेशस्य दिखतविषयस्य इस्वस्य सतो वृदि:वर्द्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः, किल केनापि पूर्वापरदिशोः प्रत्येक योजनशतं गमनपरिमाण कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः ४ । तथा कथञ्चिदतिव्याकुलत्वप्रमादिलमत्यपाटवादिना स्मृतेः-स्मरणस्य योजनशतादिरूपदिकपरिमाणविषयस्यान्तर्धान-भ्रंशः स्मृत्यन्तर्धानमिति ५। इह वृद्धसंप्रदाय:-ऊर्च यत्प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कट: पक्षी वा वस्त्रमाभरणं वा गृहीत्वा ब्रजेत , तत्र तस्य न कल्पते गन्तुं, यदा तु तत्पति तमन्येन वाऽऽनीतं तदा कल्पते ग्रहीत, एतत्पुनरष्टापदोजयन्तादिषु भवेत् , एवमधापादिषु विभाषा, तथा यत्तिर्यममाणं गृहीतं तत्रिविधेन करणेन नातिक्रमितव्यं, क्षेत्रवृश्चि न कर्त्तव्या, कथम् ?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत्परिमाणं, ततः परतो भाण्डमध लभते इतिकृत्वा अपरेण यानि योजनानि तानि पूर्वदिपरिमाणे क्षिपति, यदि च स्मृत्यन्तर्धानात्परिमाणमतिक्रान्तो भवेत्तदा बाते निवर्तितव्यं परतश्च न गन्तव्यं, अन्योऽपि न विसर्जनीयः, अयानाज्ञया कोऽपि गतो भवेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते इति ॥ २८ ॥ अय द्वितीयस्य सचित्तसंबसंमिश्राभिषवदुष्पक्काहारा इति ॥ २९ ॥ (१६२) | ॥४१॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy