________________
सचित्तं च संवत्रं च संमिश्रं च अभिषवश्च दुष्पक्काहारश्चेति समासः, इह च सचित्तादौ निवृत्तिविषयीकृतेऽपि प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिक्रमादि निबन्धनप्रवृत्त्या द्रष्टव्यम्, अन्यथा भङ्ग एव स्यात् , तत्र सचित्तं कन्दमूलफलादि, तथा संबद्ध-प्रतिबद्धं सचित्तवृक्षेषु गुन्दादि पक्कफलादि वा, तद्भक्षणं हि सावद्याहारवर्जकस्य सावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनाऽतिचारः, अथवाऽस्थिकं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति, तथा | संमिश्रम्-अर्द्धपरिणतफलादि सद्यःपिष्टकणिक्कादि वा अभिषवः-सुरासन्धानादि दुष्पक्काहारश्च-अर्द्धस्विन्नपृथुकादि, एतेऽपि |
अतिचारा अनाभोगादतिक्रमादिना वा सम्मिश्राद्युपजीवनप्रवृत्तस्य भवन्ति, अन्यथा पुनर्भङ्ग एवेति । इह भोगोपभोगमानलक्षणं गुणव्रतमन्यत्र भोजनतो गुणवतं यदुच्यते तदपेक्षयैवातिचारा उपन्यस्ताः, शेषव्रतपञ्चपञ्चातिचारसाधाद्, अन्यथाऽन्यत्रावश्यकनियुक्त्यादौ कर्मतोऽपीदमभिधीयते, तत्र कर्म-जीविकार्थमारम्भस्तदाश्रित्य खरकर्मादीनां निस्त्रिंशजनोचि-* तकठोरारम्भाणां कोट्टपालगुप्तिपालत्वादीनां वर्जनपरिमाणं कार्यमिति । अत्र चाङ्गारकर्मादयः पञ्चदशातिचारा भवन्ति, तदुक्तम्-इंगालो १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत ६ लक्ख ७ रस ८ केस | ९ विसविसय १० ॥ १०९॥ एवं खु जैतपीलणकम्म ११ निलंछणं १२ च दवदाणं १३ । सरदहतलायसोसं १४ असईपोसं च १५ वज्जिज्जा ॥१०॥ भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् 'अङ्गारकर्मेति अङ्गारान् कृत्वा विक्रीणीते, तत्र षण्णां जीवनिकायानां वधः स्यात्ततस्तन्न कल्पते १, 'वनकर्म' यद्वनं क्रीणाति ततस्तच्छित्वा विक्रीय मूल्येन जीवति, एवं पत्रादीन्यपि प्रतिषिद्धानि भवन्ति २ शकटीकर्म-यच्छाकटिकत्वेन जीवति, तत्र गवादीनां वधबन्धादयो दोषाः