SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु * भावक व्रताति चाराः श्राद्धमध्यिायः३ ॥४२॥ | स्युः३ भाटीकर्म-यद् भाटकमादाय स्वकीयेन शकटादिना परभाण्डं वहत्यन्येषां वा शकटबलीवदीनर्पयतीति ४ स्फोटीकर्म उण्डवं यदा हलेन भूमेः स्फोटनं ५ दन्तवाणिज्यं यत्पूर्वमेव पुलिन्द्राणां मूल्यं ददाति दन्तान्मे यूयं दद्यातेति ततस्ते हस्तिनो घ्नन्ति अचिरादसौ वाणिजक एष्यतीतिकृत्वा, एवं कर्मकराणां शङ्खमूल्यं ददाति, पूर्वानीतांस्तु क्रीणाति ६ लाक्षावाणिज्यमप्येवमेव, दोषस्तु तत्र कृमयो भवति ७ रसवाणिज्यं-कल्पपालत्वं, तत्र सुरादावनेके दोषाः मारणाक्रोशवधादयः ८ केशवाणिज्यं यद्दास्यादीन् गृहीत्वाऽन्यत्र विक्रोणीते, अत्राप्यनेके दोषाः परवशित्वादयः ९ विषवाणिज्यं-विषविक्रयः, स च न कल्पते, यतस्तेन बहूनां जीवानां विराधना स्यात् १० 'यन्त्रपीडनकर्मे ति तिलेक्षुयन्त्रादिना तिलादिपीडनं ११ निर्लाञ्छनकर्म-गवादीनां वर्द्धितककरणं १२ दवदानकर्म' यद्वनदवं ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, दग्धे हि तत्र तरुणं तृणमुत्तिठते, तत्र च सत्वशतसहस्राणां वधः स्यात् १३ सरोहदतडागपरिशोषणं यत् सरःप्रभृतीनि शोषयति १४ असतीपोषणं यद् योनिपोषका दासीः पोषयन्ति तत्संबन्धिनी च भाटीं गृह्णन्ति यथा गोल्लविषय इति १५, दिङ्मात्रदर्शनं चैतत् बहुसावद्यानां कर्मणामेवंजातीयानां, न पुनः परिगणनमिति । इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्य, तेन स्मृत्यन्तर्धानादयो ययासंभवं सर्वव्रतेष्वतिचारा दृश्या इति । नन्वङ्गारकर्मादयः कस्मिन् व्रतेऽतिचाराः?, खरकर्मवत इति चेत्तर्हि व्रतविषयस्यातिचाराणां च कः परस्परं विशेषः ?, खरकर्मरूपत्वादङ्गारकर्मादीनां, अत्रोच्यते, खरकर्मादय एवैतेऽतः खरकर्मादिवतिना परिहार्याः, यदा पुनरेतेष्वेवानाभोगादिना प्रवर्त्तते तदा खरकर्मव्रतातिचारा भवन्ति. यदा त्वाकुट्टया तदा भङ्गा एवेति ॥२९॥ MOTकर ॥४२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy