SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ भावयन्ति स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत्परिहरन् स्त्रदारसंतोषी वेश्यादौ परदारवर्जकस्तु परदारेवालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति, तथा स्वदार संतोषवता स्वकलत्राद् इतरेण च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायै मैथुनं न कार्ये न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणतः तत्कारणमर्थतोऽनुष्ठितं भवति, तद्वती च मन्यते विवाह एवायं मया विधीयते न मैथुनमिति ततो व्रतसापेक्षत्वाद विचार इति । ननु परविवाहकरणे कन्याफललिप्सा कारणमुक्तं तत्र किं सम्यग्दृष्टिरसौ व्रती मिथ्यादृष्टिर्वा ?, यदि सम्यग्दृष्टिस्तदा तस्य न सा संभवति, सम्यग्दृष्टित्वादेव, अथ मिथ्यादृष्टिस्तदा मिथ्यादृष्टेरवतानि भवन्त्येवेति कथं सा पर विवाहकरणलक्षणाविचारकारणमिति, सत्यं, केवलमव्युत्पन्नावस्थायां साऽपि संभवति, किंच यथाभद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं ददत्यपि गीतार्थाः, यथा आर्यसुहस्तो रङ्कस्य सर्वविरतिं दत्तवान् इदं च परविवाहवर्जनं स्वापत्यव्यतिरिक्तेsar न्याय्यमन्यथाsपरिणीता कन्या स्वच्छन्दचारिणी स्यात् ततः शासनोपघातः स्याद् विहितविवाहा तु कृतव्रतबन्धत्वेन न तथा स्यादिति, यच्चोक्तं ' स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः' तच्चिन्तकान्तरसद्भावे सुतसंख्यापूर्त्तं वाऽपत्यान्तरोत्पत्तिपरिहारोपायत इति । अपरे पुनराहुः - परः - अन्यो यो विवाहः - आत्मन एव विशिष्टसंतोषाभावात् योषिदन्तराणि प्रति विवा हान्तरकरणं तत् पर विवाहकरणम्, अयं च स्वदार संतोषिण इति, स्त्रियास्तु स्वपुरुषसंतोषपरपुरुषवर्जनयोर्न मेदः, स्वपुरुषव्यतिरेकेणान्येषां सर्वेषां परपुरुषत्वात्, ततः परविवाहकरणानङ्गक्रीडातीत्रकामाभिलाषाः स्वदार संतोषिण इव स्वपुरुषविषये स्युः, द्वितीयस्तु यदा स्वकीयपतिः सपत्न्या वारकदिने परिगृहीतो भवति तदा सपत्नीवारकमतिक्रम्य तं परिशुआनाया अतिचारः, (39) ***** 160) 4**041469) **0*469) *
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy