SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तथा-विशुद्धेश्चारित्रमिति ॥ ७२ ॥ (१३०) 'विशुद्धे' परिशुद्धनिःशङ्कितत्वाददर्शनाचारवारिपूरपक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शनसत्कायाः सकाशात् , किमित्याह-'चारित्रं' सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं संपद्यते, शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात् , तथा चाचारसूत्रम्-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा तं मोणंति पासह "त्ति भावनातो रागादिक्षय इति ॥ ७३ ॥ (१३१) भाव्यन्ते-मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेता इति भावनाः, ताश्चानित्यत्वाशरणत्वादयो द्वादश, यथोक्तम्-" भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ न्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवरविधिश्च ८॥९४॥ निर्जरण ९| लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ताश्च ११ । बोधेः सुदुर्लभत्वं १२ च भावना द्वादश विशुद्धाः ॥१५॥” (प्रशम.१४९१५०) ताभ्यो 'रागादिक्षयः' रागद्वेषमोहमलप्रलयः संजायते, सम्यचिकित्साया इव वातपित्तादिरोगापगमः प्रचण्डपबनाद्वा यथा मेघमण्डलविघटनं, रागादिप्रतिपक्षभूतत्वाद् भावनानामिति ॥ ७३ ॥ ततोऽपि किमित्याह तद्भावेऽपवर्ग इति ॥ ७४ ॥ (१३२) तस्य-रागादिक्षयस्य भावे सकललोकालोकविलोकनशालिनोः केवलज्ञानदर्शनयोः लब्धौ सत्यां निस्तीर्णभवार्णवस्य | सतो जन्तोः 'अपवर्ग' उक्तनिरुक्त उद्भवतीति ॥ ७४ ॥ किंलक्षण इत्याह स आत्यन्तिको दुःखविगम इति ।। ७५ ॥ (१३३)
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy