SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व लाभादि ॥२८|||| धर्मबिन्द स्याणाशयः प्रधानपरिज्ञानवान् प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः, ततस्तथाभव्यत्वमादौ रेषां ते तथा तेभ्यः असौ-वरबोअ. २४ धिलाभः प्रादुरस्ति, स्वरूपं च जीवादिपदार्थश्रद्धानमस्य ।। ६८ ॥ अथ फलत एनमेवाह ग्रन्थिभेदे नात्यन्तसंक्लंश इति ॥ ६९॥ (१२७) इह ग्रन्थिरिव ग्रन्थिः-दृढो रागद्वेषपरिणामः तस्य ग्रन्थे भेदे-अपूर्वकरणवज्रसूच्या विदारणे सति लब्धशुद्धतत्वश्रद्धानसामर्थ्यानात्यन्तं-न प्रागिवातिनिबिडतया संक्लशो-रागद्वेषपरिणामः प्रवर्त्तते, न हि लब्धवेधपरिणामो मणिः कथंचिन्मलापूरितरन्ध्रोऽपि पागवस्थां प्रतिपद्यत इति ॥ ६९ ॥ एतदपि कुत इत्याह न भूयस्तद्वन्धनमिति ॥ ७० ॥ (१२८) यतो न भूयः-पुनरपि तस्य ग्रन्थेबन्धनं-निष्पादनं भेदे सति संपद्यते इति, किमुक्तं भवति ?-यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वर्जानां स्थितिरन्तःसागरोपमकोटाकोटिलक्षणाऽवशिष्यति, तावत्पमाणामेवासौ सम्यगुपलब्धसम्यग्दर्शनो जीवः कथञ्चित् सम्यक्त्वापगमात्तीबायामपि तथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं बन्धेनातिक्रामतीति ॥ ७० ॥ तथा-असत्यपाये न दुर्गतिरिति ॥७२॥ (१२९) 'असति' अविद्यमाने 'अपाये' विनाशे सम्यग्दर्शनस्य परिशुद्धभव्यत्वपरिपाकसामर्थ्यान्मतिभेदादिकारणानवाप्ती 'न' व 'दुर्गतिः' कुदेवत्वकुमानुषत्वतिर्यक्त्वनारकलप्राप्तिः संपद्यते, किंतु मुदेवत्वमुमानुषत्वे एव स्याताम, अन्यत्र पूर्वबद्धायुष्केभ्य इति ॥७१।। 每个教会学本享受器》 ॥२८.
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy