SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ परिणामपरीक्षेति॥६५॥ (१२३) परिणामस्य-नत्त्ववादविषयज्ञानश्रद्धानलक्षणस्य परीक्षा-एकान्तवादारुचिमुचनवचनसंभाषणादिनोपायेन नियन विधेयम् ॥६५॥ ततोऽपि किं कार्यमित्याह शुद्ध बन्धभेदकथनमिति॥६६॥ (१२४) 'शुद्ध' परमां शुद्धिमागते परिणामे 'बन्धभेदकथन' बन्धभेदस्य-मूलप्रकृतिवन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धस्वभावस्य च सप्तनवतिप्रमाणस्य (६-९-२-२८-४२-४-२-५) कयनं-प्रज्ञापनं कार्य, बन्धशतकादिग्रन्थानुसारेणेति॥६६॥ तथा-वरबोधिलाभप्ररूपणेति ॥ ६७॥ (१२५) वरस्य-तीर्थकरलक्षणफलकारणतया शेषबोधिलाभेभ्योऽतिशायिनो बोधिलाभस्य प्ररूपणा-प्रज्ञापना, अथवा वरस्य* द्रव्यबोधिलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतः स्वरूपतः फलतश्चेति ॥ ६७॥ तत्र हेतुतस्तावदाह तथाभव्यत्वादितोऽसाविति ॥ ६८ ॥ (१२६) भव्यत्वं नाम-सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः आत्मसतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वमेव कालादिभेदेनात्मनां बीजसिद्धिभावात् नानारूपतामापन्नं, आदिशब्दात्कालनियतिकर्मपुरुषपरिग्रहः, तत्र कालो विशिष्टपुद्गलपरावर्तीत्सर्पिण्यादिः तथाभव्यत्वस्य फलदानाभिमुख्यकारी, वसन्तादिवद् वनस्पतिविशेषस्य, कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशं नानाशुभाशयसंवेदनहेतुः कुशलानुबन्धि कर्म, समुचितपुण्यसंभारो महाक
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy