SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धर्मदेश तथा-स्वयं परिहार इति ॥ २१ ॥ (७९) 'स्वयम् ' आचारकथकेन परिहारः असदाचारस्य संपादनीयः, यतः स्वयमसदाचारमपरिहरतो धर्म3 कथनं नटवैराग्यकथनमिवानादेयमेव स्यात् , न तु साध्यसिद्धिकरभिति ॥२१॥ तथा-ऋजुभावाऽऽसेवनमिति ।। २२ ॥ (८०) ऋजुभावस्य-कौटि ल्यत्यागरूपस्य आसेवनम्-अनुष्टानं देशकेनैव कार्य, एवं हि तस्मिन्नविप्रतारणकारिणि संभाविते सति शिष्यस्तदुपदेशान्न कुतोऽपि दूरवर्ती स्यादिति ॥२२॥ तथा-अपायहतुत्वदेशनेति ॥ २३ ॥ (८२) अपायानां-अनर्थानां इहलोकपरलोकगोचराणां हेतुत्वं-प्रस्तावादसदाचारस्य यो हेतुभावः तस्य देशना विधेया, यथा-"यन्न प्रयान्ति पुरुषाः स्वगै यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥६६॥" प्रमा| दश्वासदाचार इति ॥ २३ ॥ अपायानेव व्यक्तीकुर्वन्नाह नारकदुःखोपवर्णन मिति ॥२४॥ (८२) नरके भवा नारकाः तेषां उपलक्षणत्वार्यिगादीनां च दुःखानि-अशर्माणि तेषामुपवर्णन विधेयं, यथा -"तीक्ष्णैरसिभिर्दीप्तः कुन्तैर्विपमैः परश्वधश्चकैः । परशृत्रिशूलतोमरमुद्गरवासीमुषाढीभिः ॥६७॥ संभिन्नतालुशिरसश्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्न हृदयोदरान्त्रा भिन्नाक्षिपुटाः सुदुःखार्ताः॥ ६८ ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । ॥२०॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy