________________
泰语 态 *本*态辛
नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥ ६७ ॥ क्षुत्तृ द्दिमात्युष्णभयार्दितानां पराभियोगव्यसनातुराणाम् । अहो तिरवामभिदुःखितानां सुखानुषङ्गः किल वार्त्तमेतत् ॥ ७० ॥ मानुष्यकेऽपि दारिद्र्यरोगदौर्भाग्यशोक मौर्याणि । जातिकुलावयवादिन्यूनत्वं चाशुते प्राणी ॥ ७१ ॥ देयेषु च्यवन वियोगदुःखितेषु क्रोधेष्यमिदमदनातितापितेषु । आर्या ! नस्तदिह विचार्य संवदन्तु यत्सौख्यं किमपि निवेदनीयमस्ति ॥ ७२ ॥ " इति ॥ २४ ॥
तथा - दुष्कुलजन्मप्रशस्तिरिति ॥ २५ ॥ ( ८३ )
दुष्कुले - शकय वन शवरबरा दिसंबंधिषु यज्जन्म - असदाचाराणां प्राणिनां प्रादुर्भावः तस्य प्रशस्तिः- प्रज्ञापना कार्या ॥ २५ ॥ तत्र चोत्पन्नानां किमित्याह
दुःखपरम्परा निवेदन मिति ॥ २६ ॥ ( ८४ )
दुःखानां - शारीरमानस शर्मलक्षणानां या परम्परा - प्रवाहः तस्या निवेदनं प्ररूपणं, यथा असदाचारपारवश्यात् जीवा दुष्कुलेषूत्पद्यते, तत्र चासुन्दरवर्णरसगन्धस्पर्शशरीरभाजां तेषां दुःखनिराकरणनिबन्धनस्य धर्मस्य स्वमेऽप्यनुपलम्भात् हिंसानृतस्याशुद्धकर्मकरण वणानां नरकादिप.लपापकर्मोपचय एव संपद्यते तदभिभूतानामिह परत्र चाव्यवच्छिम्नानुबन्धा दुःखपरम्परा प्रसूयते, यदुच्यते- "तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्तते बहुशः ॥ ७३ ॥ " ॥ २६ ॥ तथा - उपायतो मोहनिन्देति ॥ २७ ॥ ( ८५ )