SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु धर्म देश नाविधिक ॥२१॥ 'उपायतः उपायेन अनर्थप्रधानानां मूढपुरुषलक्षणानां प्रपश्नरूपेण मोहस्य-मृढताया निन्दा-अनादरणीयताख्यापनेति, यथा-"अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्ट, तमाह Lढरेतसम् ॥ ७४ ॥ अर्थवन्त्युपपन्नानि, वाक्यानि गुणवन्ति च । नैव मूढो विजानाति, मुमूर्षुरिव भेषजम् ॥७॥ संप्राप्तः पण्डितः कृच्छं, प्रज्ञया प्रतिबुध्यते । मूढस्तु कृच्छमासाद्य, शिलेवाम्भसि मज्जति ॥७६॥ अथवोपायतो-मोहफलोपदर्शनद्वारलक्षणात् मोहनिन्दा कार्येति, “जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतम् । वीक्षमाणा अपि भवं, नदिजन्यपि मोहतः ।। ७७ ।। धर्मवीजं परं प्राप्य, मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः ।। ७६ ॥ अस्येति-धर्मबीजस्य । बडिशामिषवत्तरछे, कुसूखे दारुणोदये । सत्तास्त्यजन्ति सच्चेष्टां, धिगहो दारुणं तमः ।। ७९ ॥” इति ॥२७॥ • तथा-सज्ज्ञानप्रशंसनमिति ॥ २८ ॥ (८६) सद्-अविपर्यस्तं ज्ञानं यस्य स सज् ज्ञान:-पडितो जनः तरय सतो वा ज्ञानस्य-विवेचनलक्षणस्य प्रशंसन-पुरस्कार इनि, यथा-" तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः, स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च । सम्भूयापि जगत्त्रयस्य नयनस्तबस्तु नो वीक्ष्यते, प्रत्याहृत्य दृशः समाहितधियः पश्यन्ति यत् पण्डिताः॥८॥" तथा "नापाप्यमभिवाञ्छन्ति, नष्ट नेच्छन्ति शोचितुम । आपत्सु च न मुह्यन्ति, नराः पण्डितबुद्धयः॥८१॥ न हृष्यत्यात्मनो माने, नापमाने च रुष्यति । गाङ्गो हूद इवाक्षोभ्यो, यः स पण्डित उच्यते ।। ८२ ॥" तथा-पुरुषकारसत्कथेति ॥ २९॥ (८७) ॥२१॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy