SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ देवस्थानाच्च्युतावपि विशिष्टे देशे विशिष्टे कुले निष्कलके अन्वये उदग्रे सदाचारेणाख्यायिकापुरुषयुक्ते अनेकमनोर| थावपूरक अत्यन्तनिरवद्यं जन्मेत्यादिक्ष्यमाणलक्षणेवोक्तिः ॥१७॥ तथा-कल्याणपरम्पराख्यानमिति ॥ १८॥ (७६) ततः सुकुलागमनादनन्तरं कल्याणपरम्पराया:-तत्र सुन्दरं रूपं आलयो लक्षणानां रहितं आमयेन इत्यादिरूपायाः * अत्रैव धर्मफलाध्याये वक्ष्यमाणायाः आख्यान-निवेदनं कार्यमिति ॥ १८ ॥ तथा-असदाचारगति ॥ १९॥ (७७) असदाचारः-सदाचारविलक्षणो हिसानृतादिदश विधपापहेतुभेदरूपः, यथोक्तम्-"हिंसानृतादयः पञ्च, तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥६२॥ (शास्त्रवार्ता. ४) तस्य गर्दा असदाचारगहीं, यथा-"न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः ॥६३॥ द्विषद्विषतमोरोगे?ःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन, जन्तोर्जन्मनि जन्मनि ॥६४॥ वरं ज्वालाऽऽकुले क्षिप्तो, देहिनाऽऽत्मा हुताशने । न तु मिथ्यात्वसंयुक्तं, जीवितव्यं कदाचन ॥६५॥” इति तत्वाश्रद्धानगर्दा, एवं हिंसादिष्वपि गर्हायोजना कार्या ॥ १९॥ तथा-तत्स्वरूपकथनमिति ॥२०॥ (७८) तस्य-असदाचारस्य हिंसादेः स्वरूपकथनं, यथा “प्रमत्तयोगात् प्राणिव्यपरोपणं हिंसा," "असदभिधानं मृषा" | (मन्तं) “अदत्तादाने स्तेयं" "मैथुनमब्रह्म" "मूर्छा परिग्रह" (त० अ०७ सू०८.९-१०-११-१२) इत्यादि ॥२३॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy