SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अनभिशकनीयतया परिभोगाद् विधिना तीर्थगमनाच्चेति ॥५॥ इहान्यायप्रवृत्तौ पुरुषस्य द्विविधा अभिशङ्कनीयता-भोक्तुः भोग्यस्य च विभवस्य, तत्र भोक्तुः परद्रव्यद्रोहकार्ययमित्येवंदोषसंभावनलक्षणा, भोग्यस्य पुनः परद्रव्यमिदमित्थमनेन भुज्यत इत्येवंरूपा, ततस्तत्प्रतिषेधेन या अनभिशङ्कनीयता तया उपलक्षितेन भोक्त्रा 'परिभोगात्' स्नानपानाच्छादनानुलेपनादिभिः भोगप्रकारैः आत्मना मित्रस्वजनादिभिश्च सह विभवस्योपजीवनात् , अयमत्र भावः-न्यायेनोपार्जितं विभवं भुनानो न केनापि कदाचित्किश्चिदभिशङ्कयते, एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभ इति, परलोके हितवं च 'विधिना' सत्कारादिरूपेण तीर्यते व्यसनसलिलनिधिः अस्मादिति तीर्थ-पवित्रगुणपात्रपुरुषवर्गः दीनानाथादिवर्गश्च तत्र गमनं-प्रवेश: उपष्टम्भकतया प्रवृत्तिर्वित्तस्य तीर्थगमनं तस्मात् , चकारः समुच्चये, पठ्यते च धार्मिकजनस्य शास्त्रान्तरे दानस्थानं यथा-" पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्ध स्वतश्च यत्" ॥३॥ (योग. १२१) अत्रैव विपक्षे बाधामाह अहितायैवान्यदिति ॥६॥ 'अहितायैव ' अहितनिमित्तमेव उभयोरपि लोकयोः, न पुनः काकतालीयन्यायेनापि हितहेतुरित्येवकारार्थः, 'अन्यत्' न्यायोपात्तवित्ताविभिन्न अन्यायोपात्तवित्तमित्यर्थः॥६॥कुन एतदित्याह तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् इति ॥७॥ तस्य-अन्यायोपाचवित्तस्य 'अनपायित्वं' अविनाशित्वमिति योऽर्थः तस्मिन्नपि, अन्यायोपार्जितो हि विभः
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy