________________
कित्सः, साध्वेव जिनदर्शनं, किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति वा न वा, कृषीवलादिक्रियामूभयथाऽप्युपलब्धे| रिति कुविकल्परहितः, न ह्यविकल उपाय उपेयवस्तुपरिप्रापको न भवतीति सातनिश्चय इत्यर्थः, यद्वा निर्विज्जुगुप्सः-साधुजुगुप्सारहितः३, तथा 'अमूढदृष्टिः' बाल तपस्वितपोविद्यातिशयन मूढा-स्वभावान्न चलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधान:-उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तवृद्धिकरणं ५, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनं ६, वात्सल्यं-समानधार्मिकजनोपकारकरणं ७, प्रभावना
धर्मकथादिभिस्तीर्थख्यापनेति ८, गुणप्रधानश्चायं निर्देशो गुणगुणिनाः कथञ्चिद्भेदख्यापनार्थम, एकान्ताभेदे गुणनिवृत्तौ | गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति ।
चारित्राचारोऽष्टधा पञ्चसमिति त्रिगुप्तिभेदाद , समितिगुप्तिस्वरूपं च प्रतीतमेव । तपआचारस्तु द्वादशविधः बाह्याभ्यन्तरतपाषट्कद्वयभेदात्, तत्र 'अनशन १ मूनोदरता २ वृत्तेः संक्षेपणं ३ रसत्यागः ४ । कायक्लेशः ५ संलीनतेति बाह्यं तपः प्रोक्तम् ॥६० ॥ प्रायश्चित्तध्याने वैयावृत्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्मकारमाभ्यन्तरं भवति ॥ ६१॥" (पशम. १७५-१७६) वीर्याचारः पुनः अनिद्रुतबाह्याभ्यन्तरसामर्थ्यस्य सतः अनन्तरोक्तपशिद्विधे ज्ञानदर्शनाद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमणं प्रतिपत्तौ च यथावलं पालनेति ॥ ११ ॥
तथा-निरीहशक्यपालनेति ॥१२॥ (७०) निरीहेण-ऐहिकपारलौकिकफलेषु राज्यदेवत्वादिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य-ज्ञानाचारादेः विहितमिदमि