SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ धर्यविन्दु श्राद्धधसध्या ॥३४॥ भूतकोपोद्रेको महीपतिज्येष्टपुत्रमेक मुमोचेति । अयमत्रार्थोपनयः-यथा तद्वसन्तपुरं नगरं तथा संसार: यया राजा तथा श्रावका योगवन्द यथा श्रेष्ठी तथा गुरुः यथा च षट् पुत्रास्तथा षट् जीवनिकायाः, यथा च तस्य पितुः शेषपुत्रोपेक्षणेनैकं पुत्रं मोचयतोऽपि नादिशुन शेषपुत्रवधानुमतिः एवं गुरुर्निजपुत्रप्रायान् षडपि जीवनिकायस्तैस्तैः प्रव्रज्योत्साहनोपार्यगृहस्थतया तद्धप्रवृत्तात् श्रावका द्धिावता मोचयति, यदा चासौ नाद्यापि तान् मोक्तुमुत्सहते तदा ज्येष्ठपुत्रप्रायं त्रसकायं शेषोपक्षणेन मोचयतोऽपि गुरोर्न शेषकायव- निच. धानुमतिदोष इति ॥ १३ ॥ विधिनाऽणुव्रता दिप्रदानमित्युक्तं प्रागतस्तमेव दर्शयति योगवंदननिमित्तदिगाकारशुडिविधिरिति ॥ १४ ॥ (१४७) इह शुद्धिशब्दः प्रत्येकमभिसंबध्यते, ततो योगशुद्धिर्वन्दनशुद्धिनिमित्तशुद्धिर्दिकशुद्धिराकारशुद्धिश्च विधिः अणुव्रतादिप्रतिपत्तौ भवति, तत्र योगा:-कायवाङमनोव्यापारलक्षणाः तेषांशुद्धिा-सोपयोगान्तरगमननिरवद्यभाषणशुभचिन्तनादिरूपा वन्दनशुद्धिः-अस्खलितामिलितप्रणिपातादिदण्डकसमुच्चारणासंभ्रान्तकायोत्सर्गकरणलक्षणा निमित्तशुद्धिः-तत्कालोच्छलि-* तशङ्खपणवादिनिनादश्रवणपूर्णकुम्भभृङ्गारच्छत्रध्वजचामराद्यवलोकनशुभगन्धाघ्राणादिस्वभावा दिशुद्धिः-प्राच्युदीचीजिनजिनचैत्याधिष्ठिताशासमाश्रयणस्वरूपा आकारशृद्धिस्तु-राजाद्यभियोगादिप्रत्याख्यानापवादमुक्तीकरणात्मिकेति ॥१४॥ तथा उचितोपचारश्चेति ॥ १५॥ (१४८) उचितो-देवगुरुसार्मिकस्वजनदीनानाथादीनामुपचारार्हाणां यो यस्य योग्य उपचारो-धूपपुष्पवस्त्रविलेपनासनदा| नादिगौरवात्मकः, स च विधिरित्यनुवर्तत इति ॥ १५ ॥ अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह |॥३४॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy