________________
स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्चेति ॥१६॥ (१४९) इह प्राणातिपातः-प्रमत्तयोगात् माणिव्यवरोपणरूपः, स च स्थूलः सूक्ष्मश्च, तत्र सूक्ष्मः पृथिव्यादिविषयः, स्थूलश्च दीन्द्रियादित्रसगोचरः, स्थूलश्चासौ प्राणातिपातश्चेति स्थूलप्राणातिपातः,आदिशब्दात् स्थूलमृषावादादत्तादानाब्रह्मपरिग्रहाः परिगृह्यन्ते, ते च प्रायः प्रतीतरूपा एव, ततस्तेभ्यः स्थूलपाणातिपातादिभ्यः पश्चभ्यो महापातकेभ्यो विरतिः-विरमणं, किमित्याह-साधुव्रतेभ्यः सकाशात् अणूनि-लघूनि व्रतानि-नियमरूपाणि अणुव्रतानि, कियन्तीत्याह-'पञ्चे' ति पञ्चसंख्यानि पश्चाणुव्रतानि, बहुवचननिर्देशेऽपि यद्विरतिरित्येकवचननिर्देशः स सर्वत्र विरतिसामान्यापेक्षयेति ॥ ७॥
तथा-दिग्व्रतभोगोपभोगमानानर्थदण्डविरतयस्त्रीणि गुणव्रतानीति ॥१७॥ (१५०) दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः सप्त नया ऊर्ध्वमधश्च द्वे, एवं दशसु दिक्षु विषये गमनपरिमाणकरण लक्षणं व्रत-नियमो दिग्वतं, मुज्यते-सकृदेवासेव्यते यदशनादि तद्भोगः, पुनः पुनर्भुज्यते वसनवनितादि यत्तदुपभोगः, भोगश्चोपभोगश्च भोगोपभोगौ तयोर्मानं-परिमाणं भोगोपभोगमानं, अर्थ:-प्रयोजनं धर्मस्वजनेन्द्रियगतशुद्धोपकारस्वरूपं तस्मै अर्थाय दण्ड:-सावद्यानुष्ठानरूपस्तत्पतिषेधादनर्थदण्डः, स च चतुर्दा-अपध्यानाचरितप्रमादाचरितहिंस्रमदानपापकर्मोपदेशे भेदात , तस्य विरतिरनर्थदण्ड विरतिः, ततः दिखतं च भोगोपभोगमानं चानर्थदण्डविरतिश्चेति समासः, किमित्याह-'त्रीणि त्रिसंख्यानि 'गुणव्रतानि गुणाय-उपकाराय व्रतानि भवन्ति, गुणवतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्धयभावदिति । १७॥