________________
धर्मविन्दु
श्राद्धमध्यिायः३
एकानेक वतारोप णम.
॥३५॥
तथा-सामायिकदेशावकाशिकपोषधोपवासातिथिसंविभागाश्चत्वारि शिक्षापदानोति ॥१८॥ (१५१) ___ समानां-मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्शनज्ञानचारित्राणामायो-साभः समायः समस्य वा-रागद्वेषांतरालवर्तितया मध्यस्थस्य सतः आयः सम्यग्दर्शनादिलक्षणः समयः साम्नो वा-सर्वजीवमैत्रीभावलक्षणस्य आयः समायः, सर्वत्र स्वार्थिकेकमत्ययोपादानात् सामायिक-सावद्ययोगपरिहारनिरवद्ययोगानुष्ठानरूपो जीवपरिणामः, देशे-विभागे प्रामतिप्रन्नदिग्व तस्य योजनशतादिपरिमाणरूपस्य अवकाशो-गोचरो यस्य प्रतिदिनं प्रत्याख्येयतया तत्तथा, पोषं धत्ते पोषधःअष्टमीचतुर्दश्यादिपर्वदिवसः उपेति-सह उपावृत्तदोषस्य सतोगुणैराहारपरिहारादिरूपैर्वासः उपवासः, यथोक्तम्-"उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम्॥१०॥ ततः पोषधेषूपवासः पोषधोपवासः, अतिथयो-वीतरागधर्मस्याः साधवः साध्व्यः श्रावका श्राविकाच तेषां न्यायागतकल्पनीयादिविशेषणानामन्नपानादीनां संगतवृत्त्या विभजन-वितरणं अतिथिसंविभागः, तथा च उमास्वातिवाचकविरचितश्रावकमज्ञप्तिसूत्रं-यथा-"अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाच, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थानासनदानपादप्रमार्जननस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिप्रदानेन संविभागः कोर्य" इति, ततः सामायिकं च देशावकाशिकं च पोषधोपवासश्चातिथिसंविभागश्चेति समासः, 'चत्वारि' चतुःसंख्यानि, किमित्याह-'शिक्षापदानि' शिक्षासाधुधर्माभ्यासः तस्य पदानि-स्थानानि भवन्ति ॥९॥
ततश्च-एतदारोपणं दानं यथाऽहें, साकल्यवैकल्याभ्यामिति ॥ १९॥ (१५२)