SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ इहैतेषामणुव्रतादीनां प्रागुक्तलक्षणे यथा-धर्माहे प्राणिनि यदारोपण-उक्तविधिनैव निक्षेपणं, तत्किमित्याह-दानं पागुपन्यस्तमभिधीयते, कथमित्याह-'साकल्यवकल्याभ्यां' साकल्येन-समस्ताणुव्रतगुणवतशिक्षापदाध्यारोपलक्षणेन वैकल्येन वा-अणुव्रतादीनामन्यतमारोपणेनेति ॥१९॥ एवं सम्यक्त्वमूलकेष्वणुव्रतादिषु समारोपितेषु यत्करणीय तदाह गृहीतेष्वनतिचारपालनमिति ॥२०॥ (१५३) 'गृहीतेषु' प्रतिपन्नेषु सम्यग्दर्शनादिषु गुणेषु, किमित्याह-'अनतिचारपालन 'मिति अतिचारो-विराधना देशभङ्ग इत्येकोऽर्थः अविद्यमानोऽतिचारो येषु तानि अनतिचाराणि तेषां अनुपालन-धरण कार्य, अतिचारदोषोपघातेन हि कुवातोपहतसस्यानामिव स्वफलप्रसाधनं प्रत्यसमर्थत्वादमीषामिति अनतिचारपालनमित्युक्तम् ॥२०॥ अथातिचारानवाहशका १ काङ्क्षा २ विचिकित्सा ३ऽन्यदृष्टिप्रशंसासंस्तवाः४.५ सम्यग्दृष्टेरतिचारा इति ॥२१॥ (१५४) इह शङ्का काङ्क्षा विचिकित्सा च 'ज्ञानाद्याचारकथन मिति सूत्रव्याख्यानोक्तलक्षणा एव, अन्यदृष्टीनां-सर्वज्ञपणीतदर्शनव्यतिरिक्तानां शाक्यकपिलकणादाक्षपादादिप्रणीतमतवर्तिनां पापण्डिनां प्रशंसासंस्तवौ अन्यदृष्टिप्रशंसासंस्तवौ, तत्र'पुण्यभाज एते' सुलब्धमेषां जन्म' 'दयालव एते' इत्यादिका प्रशंसा, संस्तवश्वेह संवासजनितः परिचयः वसनभोजनदानालापादिलक्षणः परिगृह्यते न स्तवरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचये, 'असंस्तुतेषु प्रसभं भयेष्वि'त्या| दाविवेति, ततः शङ्का च काङ्क्षा च विचिकित्सा च अन्यदृष्टिप्रशंसासंस्तवौ चेति समासः, किमित्याह- सम्यग्दृष्टे' सम्यग्दर्शनस्य 'अतिचारा' विराधनाप्रकाराः संपद्यन्ते, शुद्धतत्त्वश्रद्धानबाधाविधायित्वादिति ॥२१॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy