SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 佘* * 螈 本菲 众 贵产-** 本产 ' संवर्द्धिनी ' वृद्धिकारिणी ' गुणान्तरस्य ' स्वपरेषां गुणविशेषस्य, निदर्शनं ' दृष्टान्तभूमिस्तेषु तेष्वाचरणविशेषेषु अन्यैरसामान्याः 'जनानां विशिष्टलोकानां तथाऽत्युदारः - अतितीव्रौदार्यवान् आशयो- मनःपरिणामः, 'असाधारणाः' शालिभद्रादीनामिव विषया: ' शब्दादयः, 'रहिताः परिहीणाः 'संक्लेशेन ' अत्यन्ताभिष्वङ्गेन, 'अपरोपतापिन: ' परोपरोधविकलाः ' अमङ्गुलावसानाः पथ्यान्नभोगा इव सुन्दरपरिणामाः ॥ ११ ॥ तथा - काले धर्मप्रतिपत्तिरिति ॥ १२ ॥ ( ४५५ ) 'काले' विषयवैमुख्यलाभावसरलक्षणे 'धर्मप्रतिपत्तिः ' सर्वसावद्यव्यापारपरिहाररूपा ॥१२॥ तत्र च - गुरुसहाय संपदिति ॥ १३ ॥ (४५६ ) गुर्वी - सर्व दोषविकलत्वेन महती सहायानां गुरुगच्छादीनां संपत्-संपत्तिः ॥ १३ ॥ ततश्व - साधु संयमानुष्ठानमिति ॥ १४ ॥ (४५७ ) 'साधु' सर्वातिचारपरिहारतः शुद्धं संयमस्य - प्राणातिपातादिपापस्थान विरमण रूपस्य अनुष्ठानं करणम् ॥१४॥ ततोऽपि परिशुद्धाराधनेति ॥ १५ ॥ (४५८ ) परिशुद्धा - निर्मलीमसा आराधना - जीवितान्त संलेखनालक्षणा ॥ १५ ॥ 6 तत्र च - वधिवच्छरीरत्याग इति ॥ १६ ॥ ( ४५९ ) शास्त्रीय विधिप्रधानं यथा भवति एवं कलेवरपरिमोक्षः ॥ १६ ॥ 安* 6 *本* 众费费一
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy