________________
धर्मविन्दु सप्तमोऽध्यायः
በሪሪ
***4600 469** 169) *0*%* (69
सुन्दरं रूपं आलयो लक्षणानां रहितमामयेन युक्तं प्रज्ञया संगतं कलाकलापेन ॥१०॥ (४५३)
सुन्दरं शुभसंस्थानवत्तया रूपम् - आकार ः १ आलयो - लक्षणानां - चक्रवच स्वस्ति कमीन कलशकमलादीनां २ 'रहितं' परित्यक्तं 'आमयेन' ज्वरातिसारभगन्दरादिना रोगेण ३ 'युक्तं ' संगतं ' प्रज्ञया' बहुबहुविधादिविशेषणग्राहिकया वस्तुबोधशक्त्या, 'संगतं ' संबद्धं कलानां लिपिशिक्षादीनां शकुनिरुतपर्यवसानानां कलापेन समुदायेन ॥ १० ॥
तथा - गुणपक्षपातः १ असदाचारभीरुता २ कल्याणमित्रयोगः ३ सत्कथाश्रवणं ४ मार्गानुगो बोधः ५ सर्वोचितप्राप्तिः हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणां संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानां ६ अत्युदार आशयः ७ असाधारणा विषयाः रहिताः संक्लेशेन, अपरोपतापिन, अमगुलावसाना इति८ ॥ ११ (४५४)
गुणाः शिष्टाचरित विशेषा असज्जनानभ्यर्थनादयः, तथा च पठन्ति - " असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, प्रिया वृत्तिर्न्याय्या मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युचैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषमम सिधाराव्रतमिदम् ? ।। २१२ ।। " तेषां पक्षः - अभ्युपगमः तत्र पातः - अवतार इति, अत एव 'असदाचार भीरुता' चौर्यपारदार्याधनाचाराद् व्याधिविषप्रदीपनकादिभ्य इव दूरं भीरुभावः, कल्याणमित्रैः सुकृतबुद्धिनिबन्धनैर्जनैर्योगः- संबन्धः, सतसदाचाराणां गृहिणां यतीनां च कथाश्रवणं-चरिताकर्णनं, 'मार्गानुगो' मुक्तिपथानुवर्त्ती ' बोधो ' वस्तुपरिच्छेदः, सर्वेषां धर्मार्थकामानामाराधनं प्रत्युचितानां वस्तूनां प्राप्तिः लाभः सर्वोचितमाप्तिः कीदृश्यसाविति विशेषणचतुष्टयेनाह'हिताय ' कल्याणाय 'सत्त्वसंघातस्य' जन्तुजातस्य, 'परितोषकरी ' प्रमोददायिनी 'गुरूणां मातापित्रादिलोकस्य,
धर्मफलम
॥८८॥