________________
'अबोधेऽपि' अनवगमेऽपि सम्यग्धर्मस्य 'फलं' क्लिष्टकर्मनिर्जरालक्षणं प्रोक्तं, केषामनवबोधे इत्याह-'श्रोतणां' श्रावकाणां, कैरुक्तमित्याह-'मुनिसत्तमैः' भगवद्भिरर्हद्भिः 'कथकस्य' धर्मदेशकस्य साधोः 'विधानेन' बालमध्यमबुद्धिबुधरूपश्रोतृजनापेक्षालक्षणेन 'नियमाद्' अवश्यंत या, कीदृशस्य कथकस्येत्याह-'शुद्धचेतसः' परानुग्रहप्रवृत्तिपरिणामस्येति ॥११॥ आह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशझ्याहनोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् । यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना ॥१२॥
'न' नैव'उपकारः'अनुग्रहो 'जगति' भुवने 'अस्मिन्' उपलभ्यमाने तादृशो 'विद्यते' समस्ति 'कचित्' काले क्षेत्रे वा 'यादृशी' याहग्रूपा 'दुःखविच्छेदात्' शारीरमानसदुःखापनयनात् 'देहिनां' देशनार्हाणां 'धर्मदेशने ति धर्मदेशनाजनितो मार्गश्रद्धानादिर्गुणः, तस्य निःशेषक्लेशलेशाकलकमोक्षाक्षेपं प्रत्यवन्ध्यकारणखादिति ॥ इति श्रीमुनिचन्द्रमूरिविरचितायां धर्मबिन्दुवृत्तौ देशनाविधिर्नाम द्वितीयोऽध्यायः समाप्तः॥१२॥
अथ तृतीयः अध्यायः
व्याख्यातो द्वितीयोऽध्यायः, अथ तृतीय आरभ्यते, तस्य चेदमादिसूत्रम्
सहर्मश्रवणादेवं, नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥१३॥