SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ धर्मविन्द धमदान विधिः धर्मोपादेयतां ज्ञात्वा, संजातेच्छोऽत्र भावतः। दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते ॥ १४॥ 'सद्धर्मश्रवणात् पारमार्थिकधर्माकर्णनात् 'एवम्' उक्तरीत्या 'नर' श्रोता पुमान् 'विगतकल्मषः' व्यावृत्ततस्वप्रतिपत्तिबाधकमिथ्यात्वमोहादिमालिन्यः सन् , अत एव 'ज्ञाततत्त्वः' करकमलतलकलितनिस्तलस्थूलामलमुक्ताफलाच्छास्त्रलोचनबलेनालोकितसफलजीवादिवस्तुवादः तथा महत्-शुद्धश्रद्धानोन्मीलनेन प्रशस्यं सत्व-पराक्रमो यस्य स तथा 'परं' प्रकृष्टं 'संवेगम्' उक्तलक्षणमागतः-अवतीर्णः ॥ अवतीर्णः सन् कि करोतोत्याह-'धर्मोपादे' इत्यादि, 'धर्मोपादेयतां' " एक एव सुहृद्धर्मों, मृतमप्यनुयाति यः। शरीरेण समं नाशं, सवमन्यत्तु गच्छति ॥९८॥ इत्या|| दिवचनात् धर्मोपादेयभावं 'ज्ञात्वा' अवगम्य 'संजातेच्छः' लब्धचिकीर्षापरिणामः 'अत्र' धर्मे ' दृढम् ' अतिसूक्ष्मा भोगेन 'स्वशक्तिं' स्वसामर्थ्यमालोच्य-विमृश्य 'ग्रहणे' वक्ष्यमाणयोगवन्दनादिशुद्धिविधिना प्रतिपत्तावस्यैव धर्मस्य 'संप्रर्वत्तते' सम्यक्प्रवृत्तिमाधत्ते, अदृढालोचने हि अयथाशक्ति धर्मग्रहणप्रवृत्तौ भङ्गसंभवेन प्रत्युतानर्थभाव इति दृढग्रहण कृतमिति ॥ ननु किमर्थमस्यैव धमग्रहणसंप्रवृत्तिर्मण्यते इत्याशङ्कयाह-- योग्यो ह्येवंविधः प्रोक्तो, जिनः परहितोद्यतैः । फलसोधनभावेन, नातोऽन्यः परमार्थतः ॥१५॥ 'योग्यो' अर्हो भव्य इति योऽर्थः 'हि' यस्माद् ‘एवंविधःसद्धर्मश्रवणादित्यादि (१३-१४ ) ग्रन्थोक्तविशेषण- | | युक्तः पुमान् धर्मप्रतिपत्तेः प्रोक्तः, कैरित्याह-'जिनैः' अर्हद्भिः 'परहितोद्यतैः सकलजीवलोककुशलाधानधनैः, केन कारणेनेत्याह-'फलसाधनभावेन' 'योग्यरयव धर्मग्रहणफलं प्रति साधकभावोपपत्तेः, व्यतिरेकमाह-'न' नैव 'अतः' धर्मग्रहीतु: ॥३०॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy