SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रसिद्धस्य - तथाविधापर शिष्टसंमततथा दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजनाच्छादनादिचित्र क्रियात्मकस्य पालनं - अनुवर्त्तनं, अन्यथा तदाचाशतिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेना कल्याणलाभः स्यादिति, पठन्ति चात्र लौकिकाः - यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् । तथापि लौकिकाचारं, मनसाऽपि न लङ्घयेत् ।। २१ ।। " इति ॥ २६ ॥ तथा - ग हितेषु गाढमप्रवृत्तिरिति १३ ॥ २७ ॥ 'गहिंतेषु' लोकलोकोत्तरयोरनादरणीय निन्दनीयेषु मद्यमांससेवनपरदाराभिगमनादिषु गाढम् - अत्यर्थं अप्रवृत्तिः - मनोवाक्कायानाम नवतारः, आचारशृद्धौ हि सामान्यायामपि कुलाद्युत्पत्तौ पुरुषस्य महन्माहात्म्यमुत्पद्यते, यथोक्तम्- "न कुलं वृत्तहीनस्य, प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥५२॥ यतः 'निपानमिवे' त्यादि ० (५) २७ ॥ तथा - सर्वेष्ववर्णवाद त्यागो विशेषतो राजादिष्विति १४ ॥ २८ ॥ ' सर्वेषु ' जघन्योत्तममध्यमभेदभिन्नेषु प्राणिषु अवर्णवादस्य अप्रसिद्धिप्रख्यापनरूपस्य 'त्याग' परिहारः कार्यः, ‘विशेषतः' अतिशयेन 'राजादिषु' राजामात्य पुरोहितादिषु बहुजनमान्येषु, सामान्यजनापवादे हि स्वस्य द्वेष्यभावो भूयानाविर्भा वितो भवति, यत उच्यते - " न परपरिवादादन्यद् विद्वेषणे परं भैषजमस्ति, " राजादिषु तु वित्तप्राणनाशादिरपि दोषः स्यादिति ॥ २८ ॥ तथा - असदाचारैरसंसर्ग इति ॥ २९ ॥ (69) ***** (6
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy