SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सामान्य कारहिवनः ॥९॥ 'असदाचारी' इहलोकपरलोकयोः अहितत्वेन असन्-असुन्दरः आचारः-प्रवृत्तिर्येषां ते तथा ते च युतकारादयः तैः 'असंसर्गः' असंबन्धः, प्रदीपनकाशिवदुर्भिक्षोपहतदेशादीनामिव तेषां दूरतो वर्जनमित्यर्थः॥२९॥ एतदेव व्यतिरेकत आह संसर्गः सदाचारैरिति ॥ ३०॥ प्रतीतार्थमेव, असदाचारसंसर्गवर्जनेऽपि यदि सदाचारसंसर्गों न स्यात्तदान तथाविधा गुणवृद्धिः संपद्यते इत्येतत्सूत्रमुपन्यस्तम, उक्तं चैतदर्थानुवादि-"यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि । अथासज्जनगोष्ठापु, पतिष्यसि पतिध्यसि ॥ २३ ॥ ३० ॥ इति ॥ तथा-मातापितृपूजेति १६ ॥३१॥ मातापित्रो:-जननीजनकयोः पूजा-त्रिसन्ध्यं प्रणामकरणादि, यथोत्तम्-" पूजनं चास्य विज्ञेय, त्रिसन्ध्यं नमनक्रिया। तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥२४॥ (योग. १११) अस्येति-'माता पिता कलाचार्य, एतेषां ज्ञातयस्तथा।। वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः॥२५॥ (योग, ११०) इति श्लोकोक्तस्य गुरुवर्गस्य, "अभ्युत्थानादियोगश्च, तदन्ते निभृतासनम् । नामग्रहश्च नास्याने, नावर्णश्रवणं क्वचित ॥२६॥” (योग. ११२) ३१॥ अथ मातापितृविषयमेवान्य विनयविशेषमाहआमुष्मिकयोगकारणं तदनुज्ञया प्रवृत्तिःप्रधानाभिनवोपनयनं तद्भोगे भोगोऽन्यत्र तदनुचितादिति ॥३२॥ आमुष्मिका:-परलोकप्रयोजना योगा-देवतापूजरादयो धर्मव्यापारा आमुष्मिकयोगारतेषां कारण-स्वयमेवामुष्मिकयोगान्मातापित्रोः कुवतीतिकर्तभावेन नियोजनम, यथा नातः परं भवद्भ्यां कुटुम्बकायषु किश्चिदुत्साहनीयं, केवलं धर्मकर्मपति
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy