SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु सापेक्षयति धमः अ ॥६॥ कुमतौ स्वाध्याय बाडितास्मृति साधोस्तच्छरोरसंयोगसंक्रान्तोष्मस्पर्शवशेन मनोविश्रोतसिकादोषसंभवात् ॥ ४२ ॥ इन्द्रियाप्रयोग इति ॥ ४३॥ (३१२) इन्द्रियाणां-चक्षुरादीनां कथश्चिद्विषयभावापन्नेष्वपि गुह्योरुवदनकक्षास्तनादिषु स्त्रीशरीरावयवेषु अप्रयोगः-अव्यापारणं कार्य, पुनस्तन्निरीक्षणाद्यर्थ न यत्नः कार्यः॥४३॥ कुख्यान्तरदाम्पत्यवर्जनमिति ॥४४॥ (३१३) कुडयं-भित्तिस्तदन्तरं-व्यवधानं यस्य तत्तथा दाम्पत्यं-दयितापतिलक्षणं युगलं, कुडधान्तरं च दांपत्यं चेति समासः, तस्य वर्जनं, वसतौ स्वाध्यायध्यानादौ च न तत्र स्थातव्यं यत्र कुडयान्तरं दाम्पत्यं भवतीति ॥४४॥ पूर्वक्रीडितास्मृतिरिति ॥४५॥ (३१४) पूर्व-प्रव्रज्यापतिपत्तिकालात् प्राक्क्रीडितानां-प्रौढप्रमोदप्रदममदाप्रसङ्गप्रभृतिविलासतानामस्मृतिः-अस्मरणं, अयं च भुक्तभोगान् प्रत्युपदेश इति ॥ ४५ ॥ प्रणीताभोजनमिति ॥ ४६॥ (३१५) प्रणीतस्य-अतिस्निग्धस्य गलतरनेह बिन्दुलक्षणस्याहारस्याभोजनम्-अनुपजीवनमिति ॥ ४६॥ ___ अतिमात्राभोग इति ॥ ४७ (३१६) अप्रणीतस्याप्याहारस्यातिमात्रस्य-द्वात्रिशकवलादिशास्त्रसिद्धप्रमाणातिक्रान्तस्याभोगः-अभोजनम् ॥ ४७॥ ॥६८॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy