SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नैतदेवमिति सम्राडिति ॥ १२॥ (२३८) नैतदेवं प्राग्वत् 'सम्राट् राजर्षिविशेषः प्राह ॥ १२ ॥ कुत इत्याह संभवादेव श्रेयस्त्वसिद्धेरिति ॥ १३ ॥ (२३९) 'संभवादेव' योग्यत्वादेव, न पुनर्गुणमात्रादेव केवलात् संभवविकलात् , 'श्रेयस्त्वसिद्धेः' सर्वप्रयोजनानां श्रेयोभावनिष्पत्तेः, इदमुक्तं भवति-गुणमात्रे सत्यपि यावदद्यापि प्रव्राज्यादि वो विवक्षितकार्य प्रति योग्यतां न लभते न तावत्तत्तेनारब्धमपि सिध्यति, अनधिकारिखात्तस्य, अनधिकारिणश्च सर्वत्र कार्ये प्रतिषिद्धत्वात , अतो योग्यतैव सर्वकार्याणां श्रेयोभावसंपादिकेति ॥१३॥ यत्किञ्चिदेतदिति नारद इति ॥ १४ ॥ (२४०) यत्किञ्चित् न किंचिदित्यर्थः एतत्सम्राडुक्तमिति नारदो वक्ति ॥ १४ ॥ कुत इत्याह गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगादिति ॥ १५॥ (२४१) गुणमात्रात्-योग्यतामात्ररूपात् गुणान्तरस्य तथाविधस्य भावेऽप्युत्कर्षायोगात्-उत्कृष्टानां गुणानामसंभवात् , अन्यथा योग्यतामात्रस्य प्रायेण सर्वप्राणिनां संभवादुत्कृष्टगुणप्रसङ्गेन न कश्चित् सामान्यगुणः स्यात् , अतो विशिष्टैव योग्यता गुणोत्कर्षसाधिकेति सिद्धमिति ॥ १५ ॥ सोऽप्येवमेव भवतीति वसुरिति ॥ १६ ॥ (२४२)
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy