SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु श्रादधमध्या य :३ ॥५७॥ 太辛 李众等众赞赞辛安一 'सोsपि' गुणोत्कर्षः, किं पुनर्गुणमात्राद् गुणान्तरसिद्धिरित्यपिशब्दार्थः, 'एवमेव' पूर्वगुणानामुत्तरोत्तरगुणारम्भकत्वेन 'भवति' निष्पद्यते, निर्बीजस्य कस्यचित्कार्यस्य कदाचिदप्यभावादित्येतद् 'वसुः' समयप्रसिद्धो राजविशेषो निगदति, एष च मनाग् व्यासमतानुसारीति ।। १६ ।। अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि को टिव्यवहारारोपणमिति क्षीरकदम्बक इति ॥ १७ ॥ (२४३) 'अयुक्तं ' अघटमानकं 'कार्षापणधनस्य' अतिजघन्य रूपकविशेषसर्वस्वस्य व्यवहारिणो लोकस्य ' तदन्यविढपनेऽपि ' तस्मात्-कार्षापणादन्येषां कार्षापणादीनां विढपने-उपार्जने, किं पुनस्तदन्याविढपने इत्यपिशब्दार्थः, 'कोटिव्यवहारारोपणं' कोटिप्रमाणानां दीनारादीनां व्यवहारे आत्मन आरोपणमिति, यतोऽतिबहुकालसाध्योऽयं व्यवहारो, न च तावन्तं कालं व्यवहारिणां जीवितं संभाव्यते, एवं च क्षीरकदम्बनारदयोर्न कश्चिन्मतभेदो यदि परं वचनकृत एवेति ॥ न दोषो योग्यतायामिति विश्व इति ॥ १८ ॥ (२४४) 'न' नैव 'दोष' अघटनालक्षणः कश्चित् योग्यतायां कार्षापणधनस्यापि तथाविधभाग्योदयात्मतिदिनं शतगुणसहस्रगुणादिकार्षापणोपार्जनेन कोटिव्यवहारारोपणोचितखलक्षणायां, श्रूयन्ते च केचित्पूर्वं तुच्छव्यवहारा अपि तथाविधभाग्यबलेन स्वल्पेनैव कालेन कोटिव्यवहारमारूढा इत्येतत् 'विश्वो' विश्वनामा प्रवादी प्राहेति, अयं च मनाक् सम्राण्मतमनुसरतीति ॥ २४४॥ अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुरिति ॥ १९ ॥ (२४५) अन्यतरस्य—कस्यचिद् गुणस्य वैकल्येऽपि किं पुनरवैकल्ये इत्यपिशब्दार्थः, 'गुणबाहुल्यमेव गुणभूयस्त्वमेव 1040-460) 40001469) *46) 40*46) 4 पत्राजका धिकारः ४-२१ ॥५७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy