SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 'सा' पूर्वसूत्रसूचिता योग्यता तत्त्वतः' परमार्थवृत्या प्रवर्तते, अतो न पादगुणहीनादिचिन्ता कार्येत्येतत् 'सुरगुरुः' बृहस्पतिरुवाचेति ॥ १९॥ सर्वमुपपन्नमिति सिद्धसेन इति ॥२०॥ (२४६) समस्तेष्वपि धर्मार्थकाममोक्षव्यवहारेषु पुरुषपराक्रमसाध्येषु विषये यद् यद् उपपन्न-घटमानं निमित्ततया बुद्धिमद्भिरूत्प्रेक्ष्यते तत्सर्वमखिलं सेत्यनुवर्तते, उपपन्नवस्य योग्यताया अभिन्नत्वादिति, 'सिद्धसेनो' नीतिकारः शास्त्रकृतिशेषो जगाद ॥२०॥ इत्यं दश परतैर्थिकमतान्युपदय स्वमतमुपदर्शयन्नाह भवन्ति त्वल्पा अपि असाधारणगुणाः कल्याणोत्कर्षसाधका इति ॥२१॥ (२४७) 'भवन्ति' न न भवन्ति तुः पूर्वमतेभ्योऽस्य वैशिष्टयख्यापनार्थः 'अल्पा अपि' परिमिता अपि, किं पुनरनल्पा इत्यपिशब्दार्थः, 'गुणा' आर्यदेशोत्पन्नतादयः 'असाधारणाः' सामान्यमानवेष्वसंभवन्तः 'कल्याणोत्कर्षसाधकाः' प्रव्रज्याद्युत्कृष्टकल्याणनिष्पादकाः, असाधारणगुणानां नियमादितरगुणाकर्षणावन्ध्यकारणत्वादिति युक्तमुक्तमादौ यदुत 'पादाईगुणहीनौ मध्यमावरौ योग्या' विति। अत्र वायुवाल्मीकिव्यासम्राड्नारदवमुक्षीरकदम्बकमतानां कस्यचित्केनापि संवादेऽप्यन्यतरेण निराक्रियमाणत्वादनादरणीयतैव, विश्वसुरगुरुसिद्धसेनमतेषु च यद्यसाधारणगुणानादरणेन योग्यताङ्गीक्रियते तदा न सम्यक् , तस्याः परिपूर्णकार्यासाधकबाद , अथान्यया तदाऽस्मन्मतानुवाद एव तैः शब्दान्तरेण कृतः स्यात्, न पुनः स्वमतस्थापनं किञ्चित् इति ॥ इत्युक्तौ प्रव्राज्यप्रव्राजको, अधुना प्रव्रज्यादानविधिमभिधित्सुराह
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy