SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ धर्मविन्दु श्रादधमाध्या मव्रज्या दानेनि धिः मू. २२ ॥५८॥ उपस्थितस्य प्रश्नाचारकथनपरीक्षादिविधिरिति ॥ २२ ॥ (२४८) 'उपस्थितस्य' स्वयं प्रव्रज्यां ग्रहीतुं समीपमागतस्य, प्रश्नश्च आचारकथनं च परीक्षा च प्रश्नाचारकथनपरीक्षाः ता | आदिर्यस्य स तथा, आदिशब्दात कण्ठतः सामायिकादिसूत्रप्रदानतथाविधानुष्ठानाभ्यासग्रहः, 'विधिः 'क्रमः प्रव्रज्यामदाने पूर्वसूचित एषः, इदमुक्तं भवनि-सद्धर्मकथाक्षिसतया प्रव्रज्याभिमुख्यमागतो भव्यजन्तुः पृच्छनीयः, यथा को वत्स ! त्वं किं निमित्तं वा प्रव्रजसि ?, ततो यद्यसौ कुलपुत्रका तगरानगरादिसुन्दरक्षेत्रोत्पन्नः सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यत इत्युत्तरं कुरुते तदाऽसौ प्रश्नशृद्धः?, ततोऽस्य दुरनुचरा प्रव्रज्या कापुरुषाणां आरम्भनिवृत्तानां पुनरिह परभवे च परमः कल्याणलाभः तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी तथा यथा कुष्ठादिव्याधिमान् क्रियां प्राप्त कालां प्रतिपद्यापथ्यमासेवमानो अप्रवृत्तादधिकं शीघ्रं च विनाशमाप्नोति एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिक कर्म समुपार्जयतीत्येवं तस्य साध्वाचारः कय. |नीय इति २, एवं कथितेऽपि साध्वाचारे निपुणमसौ परीक्षणीयः, यत:-" असत्याः सत्यसंकाशा, सत्याश्चासत्यसंनिभाः। दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥ १४७ ।। अतथ्यान्यपि तथ्यानि, दर्शयन्त्यतिकौशलाः । चित्रे निम्नोन्नतानीव, चित्रकर्मविदो जनाः॥१४८ ॥” परीक्षा च सम्यक्त्वज्ञानचारित्रपरिणतिविषया तैस्तैरुपायैर्विधेया, परीक्षाकालश्च प्रायः षण्मासाः, तथाविधपात्रापेक्षया तु अल्पो बहुश्च स्यात् ३, तथा सामायिकसूत्रं अकृतोपधानस्यापि कष्ठतो वितरणीयं, अन्यदपि सूत्रं पात्रतामपेक्ष्याध्यापयितव्यम् ४ ॥ २२॥ ॥५८॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy