________________
तथा-गुरुजनाद्यनुज्ञेति ॥ २३ ॥ (२४९) गुरुजनो-मातापित्रादिलक्षणः, आदिशब्दात् भगिनीभार्यादिशेषसंवन्धिलोकपरिग्रहः तस्य अनुसा-प्रव्रज खमित्यनुमतिरूपा, विधिरित्यनुवर्चते ॥ २३ ॥ यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि न मुञ्चति तदा यविधेयं तदाह
तथा तथोपधायोग इति ॥ २४ ॥ (२५०) 'तथा तथा' तेन तेन प्रकारेण सर्वथा परैरनुपलक्ष्यमाणेन 'उपधायोग मायायाः प्रयोजनम् ॥२४॥ कयमित्याह
दुःस्वमादिकथन मिति ॥२५॥ (२५१) दुःस्वमस्य-खरोष्ट महिषाद्यारोहणादिदर्शनरूपस्य आदिशब्दान्मातृमण्डलादिविपरीतालोकनादिग्रहः तस्य कयनंगुर्वादिनिवेदनमिति ॥ २५ ॥
तथा-विपर्ययलिङ्गसेवेति ॥२६॥ (२५२) विपर्ययः-प्रकृतिविपरीतभावः स एव मरणसूचकत्वात् लिङ्गं तस्य सेवा-निपेवणं कार्य येन स गुर्वादिजनः संनिहिसमृत्युरयमित्यवबुध्य प्रव्रज्यामनुजानीते इति ॥ २६ ॥ विपर्ययलिङ्गानि तेषु स्वयमेवाबुध्यमानेषु किं कृत्यमित्याह
दैवज्ञैस्तथा तथा निवेदनमिति ॥२७॥ (२५३) 'देवः' निमित्तशास्त्रपाठक ' तथा तथा' तेन तेन निमित्तशास्त्रपागदिरूपेणोपायेन 'निवेदनं ' गुर्वादिजनस्य ज्ञापन, विपर्ययलिङ्गानामेव कार्यमिति ॥ २७ ॥ नन्वेवं मायाविनः प्रव्रज्याप्रतिपचावपि को गुणः स्यादित्याशयाह