SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धमबिन्दु श्राद्ध ध्या-1 यः४ ॥५९॥ मातापित्रादित्या ग: सू० २३-३१ न धर्म मायेति ॥ २८ ॥ (२५४) 'न' नैव धर्म साध्ये माया क्रियमाणा 'माया' वञ्चना भवति, परमार्थतोऽमायात्वात्तस्याः ॥२८॥ एतदपि कुत इत्याह उभयहितमेतदिति ॥२९॥ (२५५) उभयस्य-स्वस्य गुर्वादिजनस्य च हित-श्रेयोरूपं एतद्-एवं प्रव्रज्याविधौ मायाकरणं, एतत्फलभूतायाः प्रव्रज्यायाः स्वपरोपकारकत्वात् , पठ्यते च-" अमायोऽपि हि भावेन, माय्येव तु भवेत्कचित् । पश्येत्स्वपरयोर्यत्र, सानुबन्धं हितोदयम् ॥ ॥१४९॥" अयेत्यमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयमित्याशङ्कयाह यथाशक्ति सौविहित्यापादनमिति ॥३०॥ (२५६) 'यथाशक्ति' यस्य यावती शक्तिः शतसहस्रादिप्रमाणनिर्वाहहेतुद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य-सौस्थ्यस्यापादनं-विधानं येन प्रबजितेऽपि तस्मिन्नसौ न सीदति, तस्य निर्वाहोपायस्य करणमिति भावः, एवं कृते कृतज्ञता कृता भवति, करुणा च मार्गप्रभावनाबीजं, ततस्तेनानुज्ञातः प्रबजेदिति ॥३०॥ अथैवमपि न त मोक्तुमसावुत्सहते तदा ग्लानौषधादिज्ञातात्याग इति ॥ ३१ ॥ (२५७) ग्लानस्य-तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुर्वादेर्लोकस्य औषधादिज्ञाता-औषधस्य आदिशब्दात्स्वनिहिस्य च ग्रहा, तस्य गवेषणमपि औषधादीत्युच्यते, ततो ग्लानौषधायेव ज्ञातं-दृष्टान्तः तस्मात् त्यागः कार्यों गुर्वादेरिति, इदमुक्तं भवति-यथा कश्चित्कुलपुत्रकः कश्चिदपारं कान्तारं गतो मातापित्रादिसमेतः तत्सतिबद्धश्च तत्र व्रजेत् , तस्य च ॥१९॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy