________________
गुर्वादेः तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यः तथाविधौषधादिप्रयोगयोग्यश्च महानातङ्कः स्यात्, तत्र चासौ तत्पतिबन्धादेवमालोचयति-यया न भवति नियमादेष गुरुजनो नीरुक् औषधादिमन्तरेण, औषधादिभावे च संशयः कदाचित्स्यात् कदाचिनेति, कालसहचार्य, ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदौषधादिनिमित्तं स्ववृत्तिहेतोश्व त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, यः पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमत्र प्रधान, धीराश्चैतद्दर्शिन एव भवन्ति, तत औषधसंपादनेन तं जीवयेदपीति संभवात् , सत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापित्रादिसंगतो धर्मप्रतिबदो विहरेत, तेषां च तत्र नियम विनाशकोऽप्राप्तसम्यक्त्वबीजादिना पुरुषमात्रेण साधयितुमशक्यः संभवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्कः स्यात् , तत्र स शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवं समालोचयति, यदुत-विनश्यन्त्येतान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्संपादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यावद्गृहवासं निर्वाहादिचिन्तया तथा तथा संस्थाप्य तेषां सम्यक्त्वाद्यौषधनिमित्त स्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्ध्या साधुरेव, एष त्यागोऽत्यागस्तत्वभावनातः, अत्याग एव च त्यागो मिथ्याभावनातः, तत्त्वफलमत्र प्रधानं बुधानां, यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यौषधसंपादनेन जीवयेदात्यन्तिक, अपुनमरणेनामरणावन्ध्यबोजयोगेन संभवात् , सुपुरुषोचितमेतद्, यतो दुष्पतिकारौ नियमान्मातापितरौ शेषश्च यथोचितं स्वजनलोका, एष धर्मः सज्जनानां, भगवानत्र ज्ञातं परिहरनकुशलानुबन्धिमातापित्रादिशोकमिति ॥१॥
तथा-गुरुनिवेदनमिति ॥३२॥ (२५८)