________________
सुरगुरुशिष्याणामभ्युपगमेन, किमित्याह-'अमरण' मृत्योरभावः आपद्यत आत्मनः, कुत इत्याह-वैकल्यस्यायोगाद्-अघटनात् । यतो मृतेऽपि देहे न किञ्चित्पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते, वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उच्छ्नभावायोगात् , तर्हि तेजसः तत्र वैकल्पमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति ॥ ५९॥ प्राक्तनावस्थयोर्वायुतेजसोस्तत्राभावान् मरणमुपपद्यते इति चेदुच्यते
मरणे परलोकाभाव इति ॥६० ॥ (११८) ___ मरणे अभ्युपगम्यमाने परलोकस्याभावः प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित्परलोकयायी | सिद्धयति, देहस्यात्रैव तावत् पातदर्शनात् तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात् , न च वक्तव्यं-परलोक एव तहि नास्ति, तस्य सर्वशिष्ट प्रमाणोपष्टम्भोपपन्नत्वेनाभीष्टत्वात् , प्रमाणं चेदं-यो योऽभिलाषः स सोऽभिलाषान्तरपूर्वको दृष्टा, यथा यौनकालाभिलाषो बाल कालीनाभिलाषपूर्वकः, अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः, यच्च तदभिलाषान्तरं तन्नियमाद्भवान्तरभावोति ॥ ६॥
तथा-देहकृतस्यात्मनाऽनुपभोग इति ॥ ६१॥ (११९) एकान्तभेदे देहात्मनोरभ्युपगते सांख्येन देहेन कृतस्य-परेषां ताडनतर्जनहिंसनादिना देवतानमनस्तवनादिना चोपायेनोपात्तस्य शुभाशुभरूपस्य कर्मणः आत्मना 'अनुपभोगः' मुखदुःखानुभवद्वारेणावेदनमापद्यते, न हि कश्चिदन्यकृतं शुभमशुभं वा वेदयितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति ॥ ६३ ॥
तथा देहायन देहेन कृतनाग मुरूदुःखान